सुभाषितावलि · श्लोक 0402-0421
प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते ।
पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण ॥
परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये ।
यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय ॥
अतिसत्कृताअपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् ।
शिरसा महाश्वरेणापि ननु धृतो वक्र एव शशी ॥
वायुरिव खलजनोयं प्रायः पररूपमेति संपर्कात् ।
सन्तस्तु रविकरा इव सदसद्योगेप्यसंश्लिष्टाः ॥
प्रेरयति परमनार्यः शक्रिदरिद्रोपि जगदभिद्रोहे ।
तेजयति खङ्गधारां स्वयमसमर्था शिला छेत्तुम् ॥
दूरेपि परस्यागसि पटुर्जनो नात्मनः समीपेपि ।
स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति ॥
साधुष्वेवातितरामरुंतुदाः स्वां विवृण्वते वृत्तिम् ।
व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते ॥
अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेत्यर्थम् ।
कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥
स्वगुणानिव परदोषान्वक्तुं न सतोपि शक्रुवन्ति बुधाः ।
स्वगुणानिव परदोषानसतोपि खलास्तु कथयन्ति ॥
कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि ।
तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुताम् ॥
आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टम् ।
प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः ॥
प्रकृतिखलत्वादसतां दोष इव गुणोपि बाधते लोकान् ।
विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति ॥
लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति ।
पथि धूलिरजो ह्यादावुत्थापकमेव संवृणुते ॥
मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः ।
न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः ॥
उपकृतमनेन सुहृदयमिति दुर्जनेष्वस्ति न क्वचिदपेक्षा ।
होत्रा सह स्वमाश्रयमुद्वृत्तोग्निर्दहत्येव ॥
उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः ।
अनुकूलाचरणेन हि कुप्यन्ति व्याधयोत्यर्थम् ॥
न परं फलति हि किंचित्खल एवानर्थमावहति यावत् ।
मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे ॥
स्वार्थनिरपेक्ष एव हि परोपघातोसतां व्यसनमेव ।
अशनायोदन्या वा विरमति फणिनो न दन्दशतः ॥
एकीभावं गतयोर्जलपयसोर्मित्त्रचेतसोश्वैव ।
व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥
शल्यमपि स्खलदन्तः सोढुं शक्यते हालहलदिग्धम् ।
धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0