भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0382-0401

0382

यद्यदिष्टतमं तत्तद्देयं गुणवते किल ।
अत एव खलो दोषान्साधुभ्यः संप्रयच्छति ॥

0383

रोगोण्डजोङ्कुरोग्निर्विषमश्वतरो घुणाः क्रिमयः ।
प्रकृतिकृतघ्नश्च नरः स्वाश्रयमविनाश्य नैधन्ते ॥

0384

न विना परवादेन रमते दुर्जनो जनः ।
श्वा हि सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति ॥

0385

वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः ।
न तु प्राणहरस्तीक्ष्णः शरवत्सफलः खलः ॥

0386

स्वभावेनैव निशितः कृतपक्षग्रहोपि सन् ।
शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः ॥

0387

दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते ।
संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति ॥

0388

नीचः समुत्थितोवश्यमनवाप्य पराश्रयम् ।
छिद्रेण रतिमाप्नोति दृष्टान्तोत्र कटीभवः ॥

0389

परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः ।
सद्वृत्तवृत्तिहरणे बाहुसहस्रार्जुनो नीचः ॥

0390

दुर्जनदूषितमनसां पुंसां सुजनेपि नास्ति विश्वासः ।
बालः पायसदग्धोदध्यपि फूत्कृत्य भक्षयति ॥

0391

आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने ।
खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥

0392

परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु ।
कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भानिरतेषु ॥

0393

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥

0394

अस्थानाभिनिवेशी प्रायो जडे एव भवति नो विद्वान् ।
बालादन्यः कोम्भसि जिघृक्षतीन्दोः स्फुरबिम्बम् ॥

0395

लब्धोदयोपि हि खलः प्रथमं स्वजनं नयति परितापम् ।
उद्गच्छन्दवदहनो जन्मभुवं दारु निर्दहति ॥

0396

अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः ।
सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति ॥

0397

प्रखला एव गुणावतामाक्रम्य धुरं पुरः प्रकर्षन्ति ।
तृणकाष्ठमेव जलधेरुपरिप्लवते न रत्नानि ॥

0398

महतां यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते ।
लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरते ॥

0399

सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः ।
दूरेपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति ॥

0400

परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते ।
पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति ॥

0401

साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयम् ।
दैवात्कथमप्यक्षरमुत्किरति घुणोपि काष्ठेषु ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc