सुभाषितावलि · श्लोक 0362-0381
साश्चर्यं युधि शौर्यमप्रतिहतं तत्कण्डिताखण्डलं
पाञ्चोत्तानकरः कृत सभगवान्दानेन लक्ष्मीपतिः ।
ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः
सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बलेः ॥
शमयति यशः क्लेशं सूते दिशत्यशिवां गतिं
जनयति जनोद्वेगायासं नयत्युपहास्यताम् ।
भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं
क्षिपति सकलं कल्याणानां कुलं खलसंगमः ॥
अविनयभुवामज्ञानानां शमाय भवन्नपि
प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये ।
फणिभयभृतामस्तु च्छेदक्षमस्तमसामसौ
विषधरफणारत्नालोको भयं तु भृशायते ॥
करोति पूज्यमानोपि लोकव्यसनदीक्षितः ।
दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
नास्तिकोपि ह्युद्विजते जनः किं पुनरास्तिकः ॥
येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः ।
कार्यं परोपतापित्वं ते मृत्योरपि मृत्यवः ॥
अहो बत महत्कष्टं विपरीतमिदं जगत् ।
येनापत्र्पते साधुरसाधुस्तेन तुष्यति ॥
न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् ।
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥
वर्जनीयो मतिमतां दुर्जनः सख्यवैरयोः ।
श्वा भवत्युपघायाय लडन्नपि दशन्नपि ॥
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनम् ॥
अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः ।
नैष लाभो भुजंगेन वेष्टितो यन्न दश्यते ॥
लब्धः स्तब्धोनृजुर्मूर्खः प्रभुरेकान्तदारुणः ।
बहूनेष खलः साधून्मारयित्वा मरिष्यति ॥
का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।
भाषणं भीषणं साधुदूषणं यस्य भूषणम् ॥
मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः ।
दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः ॥
निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् ।
चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः ॥
यथा परोपकारेषु नित्यं जागर्ति सज्जनः ।
तथा परापकारेषु जागर्ति सततं खलः ॥
बिभेति पिशुनान्नीचः प्रकाशनपटीयसः ।
न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मणः ॥
वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः ।
दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात् ॥
खलानां कण्टकानां च द्विधैवास्ति प्रतिक्रिया ।
उपानन्मुखभङ्गो वा दूरतो वापि वर्जनम् ॥
जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा ।
दुर्जनो यन्मृतः कुर्यात्परेभ्योहितमुत्तरम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0