सुभाषितावलि · श्लोक 0342-0361
दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो
गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु सक्तोत्तरः ।
अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायामयः
को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥
ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतम् ।
वन्द्यास्तेसरलात्मानो दुर्जनाः सज्जना इव ॥
अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः ।
अन्यद्वचसि कण्ठेन्यदन्यदोष्ठपुटे स्थितम् ॥
खलेषु सत्सु निर्याता वयमर्जयितुं गुणान् ।
इयं सा तस्करग्रामे रत्नक्रयविडम्बना ॥
वर्धेते स्पर्धयेवोभौ संपदा शतशाखया ।
अङ्कुरोवस्करोद्भूतः पुरुषश्चाकुलोद्भवः ॥
दह्यमानाः सुतीक्ष्णेन नीचाः परयशोग्निना ।
अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रचक्रिरे ॥
यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिम् ।
तदसन्तो हसन्तोपि हेलयैव हि कुर्वते ॥
गुणदोषावशास्त्रज्ञः कथं विभजते जनः ।
किमन्धस्याधिकारोस्ति रूपभेदोपलब्धिषु ॥
प्रायः प्रकाशतां याति मलिनः साधुबाधया ।
नाग्रसिष्यत चेदर्कं कोज्ञास्यत्सिंहिकासुतम् ॥
प्रायः परोपतापाय दुर्जनः सततोद्यतः ।
अवश्यकरणीयत्वान्न कारणमपेक्षते ॥
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥
अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च ।
मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥
यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः ।
विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥
दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् ।
मणिना भूषितः सर्पो भवेत्किं न भयंकरः ॥
चारुता परदारार्थं धनं लोकोपतप्तये ।
प्रभूत्वं साधुनाशाय खले खलतरा गुणाः ॥
परोपघातविज्ञानमात्रलाभोपजीविनाम् ।
दाशानामिव धूर्तानां जालाय गुणसंग्रहः ॥
दुर्जनेनोच्यमानानि वचांसि मधुराण्यपि ।
अकालकुसुमानीव त्रासं संजनयन्ति मे ॥
न लज्जते सज्जनवर्जनीयया
भुजंगवक्रक्रिययापि दुर्जनः ।
धियं कुमायासमयाभिचारिणीं
विदग्धतामेव हि मन्यते खलः ॥
वृतिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर्-
व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः ।
गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं
श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः ॥
पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु
स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम् ।
मत्तो रन्ध्रुदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेद्-
इत्यन्तः पुरुषोधंअः कलयति प्रायः कृतोपक्रियः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0