भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0322-0341

0322

उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं
सदा पान्थः पूषा गगनपरिमाणं कथयति ।
इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥

0323

सागसेपि न कुप्यन्ति कृपया चोपकुर्वते ।
बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः ॥

0324

पात्रं पवित्रयति नैव गुणान्क्षिणोति
स्नेहं न संहरति नापि मलं प्रसूते ।
दोषावसानरुचिरश्चलतां न धत्ते
सत्संगमः सुकृतसद्मनि कोपि दीपः ॥

0325

अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां
शिशुरपि रुषा सिंहीसूनः समाह्वयते गजान् ।
तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं
प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥

0326

नमः खलेभ्यः क इवाथवा न ता-
नलं नमस्येदिह यो जिजीविषुः ।
विनैव ये दोषमृषिप्रकाण्डवन्-
नयन्ति शापेन रसातलं नरान् ॥

0327

विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।
यदयं नकुलद्वेषी सकुलद्वेषी सदा पिशुनः ॥

0328

अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥

0329

विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वम् ।
अन्तरितशशिरुचामपि सलिलमुचां मलिनिमाभ्यधिकः ॥

0330

हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सूजनम् ।
दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥

0331

जीवनग्रहणे नम्रा गृहीत्वा पुनरुत्थिताः ।
किं कनिष्ठा उत ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥

0332

सदा खण्डनयोग्याय तुषपूर्णाशयाय च ।
नमोस्तु बहुबीजाय खलायोलूखलाय च ॥

0333

जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः ।
तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः ॥

0334

अहो बत खलः पुण्यैर्मूर्खोप्यश्रुतपण्डितः ।
स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥

0335

खलः सुजनपैशुन्ये सर्वतोक्षि शिरोमुखः ।
सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥

0336

सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः ।
जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥

0337

मायामयः प्रकृत्यैव रागद्वेषमदाकुलः ।
महतामपि मोहाय संसार इव दुर्जनः ॥

0338

खचित्रमपि मायावी रचयत्येव लीलया ।
लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः ॥

0339

खलेन धनमत्तेन नीचेन प्रभविष्णुना ।
पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥

0340

कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु ।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥

0341

नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने ।
नष्टो गुणोगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc