भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0302-0321

0302

सर्वत्र गुणवान्देशे चकास्ति प्रथतेतराम् ।
मणिर्मूर्ध्नि गले बाहौ पादपीठेपि शोभते ॥

0303

उत्तमं सुचिरं नैव विपदोभिभवन्त्यलम् ।
राहुग्रसनसंभूता क्षणं विच्छायता विधोः ॥

0304

संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः ।
प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः ॥

0305

न कदाचित्सतां चेतः प्रसरत्यघकर्मसु ।
जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत् ॥

0306

नराः संस्कारार्हा जगति किल केचित्सुकृतिनः
समानायां जातावपि वयसि सत्यामपि धियि ।
अयं दृष्टान्तोत्र स्फुटपरिचयादभ्यसनतः
शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥

0307

धनमपि परदत्तं दुःकमौचित्यभाजां
भवति हृदि तदेवानन्दकारीतरेषाम् ।
मलयजरसबिन्दुर्बाधते नेत्रमन्तर्-
जनयति च स एवाह्लादमन्यत्र गात्रे ॥

0308

सद्वंशजस्य परितापनुदः सुवृत्त-
शुद्धात्मनः सकललोकविभूषणस्य ।
छिद्रं प्रजातमपि साधुजनस्य दैवान्-
मुक्तामणेरिव गुणाय भवत्यवश्यम् ॥

0309

गेहं दुर्गतबन्धुर्भिर्गुरुगृहं छात्रैरहंकारिभिर्-
हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान् ।
सिंहाद्यैश्च वनं खलैर्नृपसभां चौरौर्दिगन्तानपि
संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति ॥

0310

साभिमानमसंभाव्यमौचित्यच्युतमप्रियम् ।
दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥

0311

भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य ।
वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः ॥

0312

गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति ।
स्वमहिमदर्शनमक्ष्णोर्मकुरतले जायते यस्मात् ॥

0313

कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥

0314

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥

0315

उत्साहसंपन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढसौहृदं च
लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥

0316

कदर्थितस्यापि महाशयस्य
न शक्यते सर्गगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेर्-
नाधः शिखा यान्ति कदाचिदेव ॥

0317

न्यायः खलैः परिहृतश्चलितश्च धर्मः
कालः कलिः कलुष एव परं प्रवृत्तः ।
प्रायेण दुर्जनजनः प्रभाविष्णुरेव
निश्चक्रिकः परिभवास्पदमेव साधुः ॥

0318

व्रते विवादं विमतिं विवेके
सत्येतिशङ्कां विनये विकारम् ।
गुणेवमानं कुशले निषेधं
धर्मे विरोधं न करोति साधुः ॥

0319

वन्द्यः स पुंसं त्रिदशाभिनन्द्यः
कारुण्यपुण्योपचयक्रियाभिः ।
संसारसारत्वमुपैतै यस्य
परोपकाराभरणं शरीरम् ॥

0320

अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो
विपक्षादम्भोजादुपगतवतो वा मधुलिहः ।
अपर्याप्तः कोपि स्वपरपरिचर्यापरिचय-
प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥

0321

यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां
कामप्यन्तर्विदधति रुजं येप्यनुद्गीर्यमाणाः ।
तेभिप्रायाः किमपि हृदये कण्ठलग्नः स्फुरन्तो
यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc