सुभाषितावलि · श्लोक 0282-0301
कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां
छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः ।
अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर्-
जात्यैवैते परहितविधौ साधवो बद्धकक्ष्या ॥
स्वफलनिचयः शाखाभङ्गं करोति वनस्पतेर्-
गमनमलसं बर्हाटोपि करोति शिखण्डिनः ।
चतुरगमनो यो जात्याश्वः स गौरिव वाह्यते
गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥
ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः
किं कुर्याद्बहुशिक्षितोपि पुरुषः पाषाणभूते जने ।
प्रेमारूढविलासिनीमदवशव्यावृत्तकण्ठस्वनः
सीत्कारो हि मनोहरोपि बधिरे किं नाम कुर्याद्गुणम् ॥
क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोन्मुखाः
स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।
दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो
जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये ॥
नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान्गुणान्ख्यापयन्तः
पुष्णन्तः स्वीयमर्थं सततकृतमहारम्भयत्नाः परार्थे ।
क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखादुर्मुखान्दुःखयन्तः
सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्थनीयाः ॥
सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् ।
पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः ॥
साधुरेव प्रवीणः स्यात्सद्गुणामृतचर्वणे ।
नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥
प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः ।
तिलाः कुसुमसौगन्ध्यग्राहिणो न यवाः क्वचित् ॥
मनस्विहृदयं धत्ते रौक्ष्येणैव प्रसन्नताम् ।
भस्मना मकुरः प्रायः प्रसादं लभतेतराम् ॥
उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः ।
मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥
जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः ।
सितांशावुदिते पद्माः संकोचातङ्कधारिणः ॥
गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः ।
मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम् ॥
स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोसताम् ।
न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥
संपत्तौ कोमलं चित्तं साधोरापदि कर्कशम् ।
सुकुमारं मधौ पत्त्रं तरोः स्यात्कठिनं शुचौ ॥
स्वभावं न जहात्यन्तः साधुरापद्गतोपि सन् ।
कर्पूरः पावकप्लुष्टः सौरभं भजतेतराम् ॥
अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् ।
विधोर्विधुंतुदास्कन्दविपत्कालोपि सुन्दरः ॥
दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः ।
आरुह्य पर्वतं पान्थः निर्वृतिमेत्यलम् ॥
क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः ।
संत्यज्याम्भोजकिंजल्कं हंसाः प्राश्नन्ति शैवलम् ॥
अधमं बाधते भूयो दुःखावेगो न तूत्तमम् ।
पाणिपादं रुजत्याशु शीतस्पर्शो न चक्षुषी ॥
गुणवान्सुचिरस्थायी दैवेनापि न सह्यते ।
तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0