सुभाषितावलि · श्लोक 0262-0281
चिराय सत्संगमशुद्धमानसो
न यात्यसत्संगतमात्मवान्नरः ।
मनोहरेन्दीवरखण्डगोचरो
न जातु भृङ्गः कुणपे निलीयते ॥
अपि विभवविहीनः प्रच्युतो वा स्वदेशान्-
नहि खलजनसेवां प्रार्थयत्युन्नतात्मा ।
तनु तृणमुपभुङ्क्ते न क्षुधार्तोपि सिंहः
पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम् ॥
वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता ।
निर्दम्भता सदाचारे स्वभावोयं महात्मनाम् ॥
सुखलवदशाहर्षक्लैव्ये खलः खलु खेलते
स्खलति भजते लेशक्लेशे विषादविषूचिकाम् ।
भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्-
दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ॥
स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता
मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता ।
साधौ सादरता खले विमुखता पापे परं भीरुता
दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥
विपदि धैर्यमथाभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरतिर्व्यसनं श्रुते
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
इदं हि माहात्म्यविशेषसूचकं
वदन्ति चिह्नं महतां मनीषिणः ।
मनो यदेषां सुखदुःखसंभवे
प्रयाति नो हर्षविषादवश्यताम् ॥
सुभाषितैः प्रीतिरनुन्नतिः श्रिया
परार्थनिष्पत्तिपटीयसी क्रिया ।
गुणेष्वतृप्तिर्गुणवत्सु चादरो
निगूढमेतच्चरितं महात्मनाम् ॥
सत्यं गुणा गुणवतां विधिवैपरीत्याद्-
यत्नार्जिता अपि कलौ विफला भवन्ति ।
साफल्यमस्ति सुतरामिदमेव तेषां
यत्तापयन्ति हृदयानि पुनः खलानाम् ॥
यद्वञ्चनाहितमतिर्बहु चाटुगर्भं
कार्योन्मुखः खलजनः कृतकं ब्रवीति ।
तत्साधवो न न विदन्ति विदन्ति किं तु
कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥
पापं समाचरति वीतघृणो जघन्यः
प्राप्यापदं सघृण एव तु मध्यबुद्धिः ।
प्राणात्ययेपि न तु साधुजनः सुवृत्तं
वेलां समुद्र इव लङ्घयितुं समर्थः ॥
शुद्धिः स एव कुलजश्च स एव धीरः
श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावम् ।
तप्तं यथा दिनकरस्य मरीचिजालैर्-
देहं त्यजेदपि हिमं न तु शीतलत्वम् ॥
याञ्चापदं मरणदुःखमिवानुभाव्य
दत्तेन किं खलु भवत्यतिभूयसापि ।
कल्पद्रुमान्परिहसन्त इवेह सन्तः
संकल्पितैरतिददत्यकदर्थितं यत् ॥
ते साधवो भुवनमण्डलमौलिभूता
ये साधुतां निरुपकारिषु दर्शयन्ति ।
आत्मप्रयोजनवशीकृतखिन्नदेहः
पूर्वोपकारिषु खलोपि हि सानुकम्पः ॥
नान्तर्विचिन्तयति किंचिदपि प्रतीपम्-
अकोपितोपि सुजनः पिशुनेन पापम् ।
अर्कद्विषोपि हि मुखे पतिताग्रभागास्-
तारापतेरमृतमेव कराः किरन्ति ॥
आकोपितोपि कुलजो न वदत्यवाच्यं
निष्पीडितो मधुरमेव वमेत्किलेक्षुः ।
नीचो जनो गुणशतैरपि सेव्यमानो
हासेषु तद्वदति यत्कलहेषु वाच्यम् ॥
निदन्तु नीतिनिपुणा अथवा स्तुवन्तु
लक्ष्मीः परापततु गच्छतु वा यथेच्छम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रचलयन्ति पदं न धीराः ॥
हेतोः कुतोप्यसदृशाः सुजना गरीयः
कार्यं निसर्गगुरवः स्फुटमारभन्ते ।
उत्थाय किं कलशतोपि न सिन्धुनाथम्-
उद्वीचिमालमपिबद्भगवानगस्त्यः ॥
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं
ह्यसन्तो नाभ्यर्थ्याः सुहृदपि न याच्योकृशधनः ।
विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥
प्रदानं सुच्छन्नं गृहमुपगते संभ्रमविधिर्-
अनुत्सेको लक्ष्म्याप्यनभिभवनीयाः परकथाः ।
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः
श्रुतेत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0