भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0242-0261

0242

निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः ।
सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि ॥

0243

अन्त्यावस्थोपि बुधः स्वगुणं न जहाति जातिशुद्धतया ।
न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोपि ॥

0244

दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते ।
प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि ॥

0245

साप्तपदीनं सख्यं भवेत्प्रकृत्या विशुद्धचित्तानाम् ।
किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभावानाम् ॥

0246

स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः ।
त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः ॥

0247

गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोपि ।
विमलेक्षणप्रसङ्कादञ्जनमाप्नोति काणाक्षि ॥

0248

सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वम् ।
परदुःखे कातरता महच्च धैर्यं स्वदुःखेषु ॥

0249

अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोस्ति न तृणानाम् ॥

0250

उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः ।
जनयन्ति हि प्रकाशं दीपशिखाः स्वाङ्गदाहेन ॥

0251

रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् ।
असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥

0252

उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुम् ।
अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति ॥

0253

गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।
अलिरेति वनात्कमलं न दर्दुरस्तान्निवासोपि ॥

0254

आदौ तु मन्दमन्दानि मध्ये समरसानि च ।
अन्ते स्नेहायमानानि संगतानि बुधैः सह ॥

0255

इयमुन्नतसत्त्वशालिनां
महतां कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः
परतः प्रत्युपकारशङ्कया ॥

0256

उपकारिणि वीतमत्सरे वा
सदयत्वं यदि तत्र कोतिरेकः ।
अहिते सहसापराद्धलब्धे
सघृणं यस्य मनः सतां स धुर्यः ॥

0257

आदिमध्यनिधनेषु सौहृदं
सज्जने भवति नेतरे जने ।
छेदताडननिघर्षतापनैर्-
नान्यभावमुपयाति काञ्चनम् ॥

0258

दीपाः स्थितं वस्तु विभावयन्ति
कुलप्रदीपास्तु भवन्ति केचित् ।
चिरव्यतीतानपि पूर्वजान्ये
प्रकाशयन्ति स्वगुणप्रकर्षात् ॥

0259

तुङ्गात्मनाः तुङ्गतराः समर्था
मनोरुजं ध्वंसयितुं न नीचाः ।
धाराधरा एव धराधराणां
निदाघदावौघहरा न नद्यः ॥

0260

गुणा गुणज्ञेषु गुणीभवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादुतोयप्रभवा हि नद्यः
समुद्रमासाद्य भवन्त्यपेयाः ॥

0261

तृणानि नोन्मूलयति प्रभञ्जनो
मृदूनि नीचैः प्रणतानि सर्वशः ।
समुच्छ्रितानेव तरून्प्रबाधते
महान्महत्स्वेव करोति विक्रियाम् ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc