सुभाषितावलि · श्लोक 0221-0241
पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि ।
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥
पातितोपि कराघातैरुत्पतत्येव कन्दुकः ।
प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥
घ्युतोप्युद्गच्छति पुनः प्रज्ञावान्न तु मूढधीः ।
कन्दुकः पतनोत्थायी न तु कान्ताकुचद्वयी ॥
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
नहि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥
नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते ।
नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥
अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभम् ।
दहन्तमप्यौर्वमग्निं संतरपयति वारिधिः ॥ qस्व्0227-3 कस्यापि
सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः ।
सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता ॥
सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः ।
तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः ॥
लाभप्रणयिनो नीचा मानकामा मनस्विनः ।
मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता ॥
परदुःखं समाकर्ण्य स्वभावसरलो जनः ।
उपकारासमर्थत्वात्प्राप्नोति हृदये व्यथाम् ॥
ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः ।
यैरुज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते ॥
अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञम् ।
यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥
आरोग्यं विद्वत्ता सज्जनमैत्त्री महाकुले जन्म ।
स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥
स्वल्पापि साधुसंपद्भोग्या महतां न पृथ्व्यपि खलश्रीः ।
सारसमेव पयस्तृषमपहरति न वारिधेर्जातु ॥
न भवति भवति च न चिरं भवति चिरं चेल्फलो विसंवदति ।
मन्युः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥
दोषो गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतम् ।
तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणाम् ॥
विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति ।
न पिबन्ति भौममम्भः सरजसमिति चातका एते ॥
योग्यतयैव विनाशं प्रायोनार्येषु यान्ति गुणवन्तः ।
स्फुटवचना एव शुकाः पञ्जरबन्धं निषेवन्ते ॥
सकृदपि दृष्ट्वा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वम् ।
हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति ॥
सुजनो न याति वैरं परहितनिरतो विनाशकालेपि ।
छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0