सुभाषितावलि · श्लोक 0201-0220
कुसुमस्तबकस्येव द्वयी मृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥
उपकारेण दूयन्ते न सहन्तेनुकम्पिताम् ।
आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः ॥
जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः ।
भव्यो हि द्रव्यतामेति क्रियां प्राप्य तथाविधाम् ॥
अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् ।
उत्तमानां तु सत्त्वानामवमानात्परं भयम् ॥
तापं हन्ति सुखं सूते जीवयत्युज्ज्वलं यशः ।
अमृतस्य प्रकारोयं दुर्लभः साधुसंगमः ॥
रसायनमयी शीता परमानन्ददायिनी ।
नानन्दयति कं नाम साधुसंगतिचन्द्रिका ॥
साधुसङ्गतरोर्जातं विवेककुसुमं शुभम् ।
रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥
शून्यमाकीर्णतामेति मृत्युरप्युत्सवायते ।
आपत्संपदिवाभाति विद्वज्जनसमागमे ॥
हिममापत्सरोजिन्या मोहनीहारमारुतः ।
जयत्येको जगत्यस्मिन्साधुः साधुसमागमः ॥
परं विवर्धनं बुद्धेरज्ञानतरुशातनम् ।
समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥
यः स्नातः शीतसितया साधुसंगतिगङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥
हृदयानि सतामेव कठिनानीति मे मतिः ।
खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः ॥
आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम् ।
इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ॥
काचो मणिर्मणिः काचो येषां तेन्ये हि देहिनः ।
सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥
दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि ।
शक्तो वादी न तत्तथ्यं दोषा गुणा गुणाः ॥
गुणराशिमहाभारनिर्भरापूरितान्तराः ।
सन्तो गौरवमायान्ति यदि तत्र किमद्भुतम् ॥
स्वात्मन्येव लयं यातु तादृशो गुणिनां गुणः ।
स्वयं प्रख्याप्यमानोपि यस्तृणाय न मन्यते ॥
गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवम् ।
पुष्पमालानुषङ्गेण तृणं शिरसि धार्यते ॥
सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः ।
साधोः स्तनयुगस्येव पतनं कस्य तुष्टये ॥
उदेति सविता रक्तो रक्त एवास्तमेति च ।
संपतौ च विपतौ च महतामेकरूपता ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0