सुभाषितावलि · श्लोक 0181-0200
धन्याः शूचीनि सुरभीणि गुणोम्भितानि
वाग्वीरुधः स्ववदनोपवनोद्गतायाः ।
उच्चित्य सूक्तिकुसुमानि सतांविविक्त-
वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥
तेनन्तवाङ्मयमहार्णवदृष्टपाराः
सांयात्रिका इव महाकवयो जयन्ति ।
यत्सूक्तिपेलवलवङ्गलवैर्वैमि
सन्तः सदः सुवदनान्यधिवासयन्ति ॥
त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धुर्-
एकश्चकास्ति कविता सविता द्वितीयः ।
शंसन्ति यस्य महिमातिशयं शिरोभिः
पादग्रहं विदधतः पृथिवीभृतोपि ॥
शब्दार्थमात्रमपि ये न विदन्ति तेपि
यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः ।
संरुद्धसर्वकरणप्रसरा भवन्ति
चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥
अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते
धिक्काराय पराभवाय महते तापाय पापाय वा ।
स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये
चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥
वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो
व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः ।
भोजश्चित्तपबिह्लणप्रभृतिभिः कर्णोपि विद्यापतेः
ख्यातिं यान्ति निरेश्वराः कविवरैः स्फारैर्न भेरीरवैः ॥
भुजतरुवनच्छायां येसां निषेव्य महौजसां
जलधिरशना मेदिन्यासीदसावकुतोभया ।
स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं
प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ॥
येप्यासन्निभकुम्भशायितपदा येपि श्रियं लेभिरे
येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः ।
तांल्लोकोयमवैति लोकतिलकान्स्वप्नेप्यजातानिव
भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना ॥
स्फारेण सौरभभरेण किमेणनाभेस्-
तद्धानसारमपि सारमसारमेव ।
स्रक्सौमनस्यपि न पुष्यति सौमनस्यं
प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥
प्रयच्छति चमत्कृतिं विरचनाविधौ चेतसः
सभासु पठितो भवत्यसमसाधुवादाप्तये ।
प्रथामुपगतस्तनोत्यतितरामुदारं यशो
न पुष्यति मनोरथं कमिव काव्यचिन्तामणिः ॥
यः सत्पदस्थमिव काव्यमधु प्रसन्नं
मुष्णन्परस्य तनुते निजपद्ममध्ये ।
अस्थानदोषजनितेव पिपीलकाली
काली विभाति लिखिताक्षरपङ्क्तिरस्य ॥
यः स्यात्केवललक्ष्यलक्षणरतो नो तर्कसंपर्कभृन्-
नालंकारविचारचारुधिषणः काव्यज्ञशिक्षोज्झितः ।
तस्माच्चेद्रसशालि काव्यमुदयेदेकान्ततः सुन्दरं
प्रासादो धवलस्तदा क्षितिपतेः काकस्य कार्ष्ण्याद्भवेत् ॥
स्वप्रज्ञया कुञ्चिकयेव कंचित्-
सारस्वतं वक्रिमभङ्गिभाजम् ।
कवीश्वरः कोपि पदार्थकोश-
मुद्धाट्य विश्वाभरणं करोति ॥
दैवीर्गिरः केपि कृतार्थयन्ति
ताः कुण्ठयन्त्येव पुनर्विमूढाः ।
या विप्रुषः शुक्तिमुखेषु दैव्यस्-
ता एव मुक्ता न तु चातकेषु ॥
परिश्रमज्ञं जनमन्तरेण
मौनव्रतं बिभ्रति वाग्मिनोपि ।
वाचंयमाः सन्ति विना वसन्तः
पुंस्कोकिलाः पञ्चमचञ्चवोपि ॥
व्यालाश्च राहुश्च सुधाप्रसादाज्-
जिह्वाशिरोनिग्रहमुग्रमापुः ।
इतीव भीताः पिशुना भवन्ति
पराङ्मुखाः काव्यरसामृतेषु ॥
साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन्-
नग्रे नूनमबोधमोहितधियां हास्यत्वमायास्यति ।
तद्युक्तं विदुषो जनस्य जडवज्जोषं नु नामासितुं
जात्यन्धं प्रतिरूपवर्णनविधौ कोयं वृथैवोद्यमः ॥
जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः
पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः ।
महापुरुषसत्कथाश्रवणजातकौतूहलाः
समस्तदुरितार्णवप्रकटसेतवः साधवः ॥
परपरिवादे मूकः परनारीदर्शनेपि जात्यन्धः ।
पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥
संपत्सु महतां चेतो भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासंघातकर्कशम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0