सुभाषितावलि · श्लोक 0161-0180
चेतःप्रसादजननः विबुद्धोत्तमानाम्-
आनन्दि सर्वरसयुक्तमतिप्रसन्नम् ।
काव्यं खलस्य न करोति हृदि प्रतिष्ठां
पीयूषपानमिव वक्त्रविवर्ति राहोः ॥
बद्धा यदर्पणरसेन विमर्दपूर्वम्-
अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः ।
चौरा इवातिमृदवो महतां कवीनाम्-
अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः ॥
तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं
मात्सर्यावृतचेतसां रसवशादप्युद्गतिं लोमसु ।
कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने
अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम् ॥
ये तावत्स्वगुणोपबृंहितधियस्तेषामरण्यं जगद्-
येप्येते कृतमत्सराः परगुणं स्वप्नेपि नेच्छन्ति ते ।
अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृता-
वित्थं यान्तु तपोवनानि महतां सूक्तानि मन्येधुना ॥
या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि
प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी ।
या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्-
तिर्यञ्चोपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः ॥
स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः
प्राणानां सततं प्रयाणपटहश्रद्धा न विश्राम्यति ।
त्राणं येत्र यशोमये वपुषि वः कुर्वन्ति काव्यामृतैस्-
तानाराध्यपदे विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः ॥
हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधं
शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्प्रसादात् ।
तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं
रुष्टैर्नीतस्त्रिभुवनजयी हास्यमार्गं दशास्यः ॥
नमो नमः काव्यरसाय तस्मै
निषिक्तमन्तः पृषतापि यस्य ।
सुवर्णतां वक्त्रमुपैति साधोर्-
दुर्वर्णतां याति च दुर्जनस्य ॥
अज्ञातपाण्डित्यरहस्यमुद्रा
ये काव्यमार्गे दधतेभिमानम् ।
ते गारुडीयाननधीत्य मन्त्रान्-
हालाहलास्वादनमारभन्ते ॥
सरस्वतीमातुरभूच्चिरं न यः
कवित्वपाण्डित्यघनस्तनंधयः ।
कथं स सर्वाङ्गमनाप्तसौष्ठवो
दिनाद्दिनं प्रौढिविशेषमश्नुते ॥
वितीर्णशिक्षा इव हृत्पदस्थ-
सरस्वतीवाहनराजहंसैः ।
ये क्षीरनीरप्रविभागदक्षा
विवेकिनस्ते कवयो जयन्ति ॥
काव्यामृतं दुर्जनराहुनीतं
प्राप्यं भवेन्नो सुमोनजनस्य ।
सच्चक्रमव्याजविराजमानत्-
ऐक्ष्ण्यप्रकर्षं यदि नाम न स्यात् ॥
विना न साहित्यविदापरत्र
गुणः कथंचित्प्रथते कवीनाम् ।
आलम्बते तत्क्षणमम्भसीव
विस्तारमन्यत्र न तैलबिन्दुः ॥
अत्यर्थवक्रत्वमनर्थकं या
शून्या तु सर्वान्यगुणैर्व्यनक्ति ।
अस्पृश्यतादूषितया तया किं
तुच्छश्वपुच्छच्छटयेव वाचा ॥
नीचस्तनोत्वश्रु नितान्तकार्ष्ण्यं
पुष्णातु साधर्म्यभृदञ्जनेन ।
विना तु जायेत कथं तदीय-
क्षोदेन सारस्वतदृक्प्रसादः ॥
अर्थोस्तिचेन्न पदशुद्धिरथास्ति सापि
नो रीतिरस्ति यदि सा घटना कुतस्त्या ।
साप्यस्ति चेन्न नववक्रगतिस्तदेतद्-
व्यर्थं विना रसमहो गहनं कवित्वम् ॥
श्लाघ्यैव वक्रिमगतिर्घनदार्ढ्यबन्धोस्-
तस्याः कविप्रवरसूक्तिधनुर्लतायाः ।
कर्णान्तिकप्रणयभाजि गुणे यदीये
चेतांसि मत्सरवतां झटिति त्रुटन्ति ॥
यातास्ते रससारसंग्रहविधिं निष्पीड्य निष्पीड्य ये
वाक्तत्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे ।
जायन्तेद्य यथायथं तु कवयस्ते तत्र संतन्वते
येनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम् ॥
परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये
चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः ।
अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः
सुहृद्या वैशद्यं दधति किल केषाम्चन गिरः ॥
हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां
श्रीहर्षेण समर्पितानि गुणिने बाणाय कुत्राद्य तत् ।
या बाणेन तु तस्य सूक्तिविसरैरुट्टङ्किताः कीर्तयस्-
ताः कल्पप्रलयेपि यान्ति न मनाङ्मन्ये परिम्लानताम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0