सुभाषितावलि · श्लोक 0141-0160
क्व दोषोत्र मया लभ्य इति संचिन्त्य चेतसा ।
खलः काव्येषु साधूनां श्रवणाय प्रवर्तते ॥
उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः ।
स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः ॥
केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् ।
कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः ॥
बहूनि नरशीर्षाणि लोमशानि बृहन्ति च ।
ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकम् ॥
साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी ।
ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः ॥
ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः ।
यैर्निबद्धानि काव्यानी ये वा काव्येषु कीर्तिताः ॥
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः ।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥
कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः ।
विध्यमानश्रुतेर्मा भूहुर्जनस्य कथं व्यथा ॥
यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा ।
उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव ॥
अवसरपठितं सर्वं सुभाषितत्वं प्रयात्पसूक्तमपि ।
क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु ॥
दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति ।
दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥
गणयन्ति नापशब्दं न वृत्तभङ्गं क्षतिं न चार्थस्य ।
रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च ॥
विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे ।
निन्दति कञ्चुकमेव प्रायः शुष्कस्तना नारी ॥
ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् ।
पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥
व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये ।
उपनामयति करोन्नं रसांस्तु जिह्बैव जानाति ॥
जिवित इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् ।
नयनविकासविधायी सचेतनाभ्यागमो यावत् ॥
प्रतीयमानं पुनरन्यदेव
वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्त-
माभाति लावण्यमिवाङ्गनासु ॥
कवेरभिप्रायमशब्दगोचरं
स्फुरन्तमार्द्रेषु पदेषु केवलम् ।
वदद्भिरङ्गैः कृतरोमविक्रियैर्-
जनस्य तूष्णींभवतोयमञ्जलिः ॥
सहृदयाः कविगुम्फनिकासु ये
कतिपयास्त इमे न विशृङ्खलाः ।
रसमयीषु लतास्विव षट्पदा
हृदयसारजुषो न मुखस्पृशः ॥
ख्याता नराधिपतयः कविसंश्रयेण
राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।
राज्ञा समोस्ति न कवेः परमोपकारी
राज्ञो न चास्ति कविना सदृशः सहायः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0