भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0121-0140

0121

किं कुपितोसि त्यज रुषमपनयतां विग्रहं मया हि भवान् ।
सह विग्रहो भवत्या न जातु विघाटिष्यतेस्माकम् ॥

0122

गङ्गाविग्रहकलुषामिति शिववचनैर्निरुत्तरां गौरीम् ।
परिहास्य योनुनिन्ये स करोतु शिवः शिवं भवताम् ॥

0123

विजये कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता ।
विजये कुशलोस्मि न तु त्र्यक्षोक्षद्वयमिदं पाणौ ॥

0124

किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेभिमतः ।
कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि ॥

0125

वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि ।
किं वसुभिन्नमतोमून्सुरासुरानेव पश्य पुरः ॥

0126

चन्द्रग्रहणेन विना नास्मि रमे किं प्रवर्तयस्येवम् ।
देव्यै यदि रुचितमिदं नन्दिन्नाह्वयतां राहुः ॥

0127

हा राहौ निकटस्थे सितदंष्ट्रे भयकृति रतिः कस्य ।
यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः ॥

0128

आरोपयसि मुधा किं नाहमभिज्ञा त्वदङ्कस्य ।
दिव्यं वर्षसहस्रं स्थित्वैवं युक्तमभिधातुम् ॥

0129

इत्थं पशुपतिपेशलपाशकलीलाप्रयुक्तवक्रोक्तेः ।
हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥

0130

अङ्गुल्या कः कवाटे प्रहरति कुटिलो माधवः किं वसन्तो
नो चक्री किं कुलालो नहि धरणिधरः किं प्रणीन्द्रो द्विजिह्वः ।
मुग्धे घोराहिमाथी किमुत खगपतिर्नो हरिः किं कपीन्द्र
इत्थं लक्ष्म्या कृतोसौ प्रतिहतवचनः पातुलक्ष्मीधवो वः ॥

0131

खेदः किं खलु दयिते न वेत्सि रविमण्डलं जगद्विदितम् ।
न क्रोधः कर्तव्यो जलचरमूर्ध्वं न जातु पश्यामः ॥

0132

कोपस्त्यक्तुं योग्यो यस्य पिपासा न संभवति ।
संत्यज मानिनि मानं किं मानेनाधुना ममानेन ॥

0133

किं तेन किल काव्येन मृद्यमानस्य यस्य ताः ।
उदधेरिव नायान्ति रसामृतपरम्पराः ॥

0134

किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः ।
परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥

0135

अप्रगल्भपदन्यासा जननीरागहेतवः ।
सन्त्येके बहुलालापाः कवयो बालका इव ॥

0136

किं तेन काव्यमधुना प्लाविता रसनिर्झरैः ।
जडात्मानोपि नो यस्य भवन्त्यङ्कुरितान् तराः ॥

0137

नवोर्थो जातिरग्राम्या श्लेषोक्लिष्टः स्फुतो रसः ।
विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥

0138

मुखमात्रेण काव्यस्य करोत्यहृदयो जनः ।
छायामछामपि श्यामां राहुस्तारापतेरिव ॥

0139

बोद्धारोमत्सरग्रस्ता विभवः स्मयदूषिताः ।
अबोधोपहताश्चान्ये जीर्नमङ्गे सुभाषितम् ॥

0140

पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः ।
तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc