भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0081-0100

0081

सानन्दं नन्दिहस्ताहतमुरजरवाह्वतकौमारबर्हि-
त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि ।
गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर्-
वैनायक्यश्चिरं वो वदनविधुतयः पान्तु सीत्कारवत्यः ॥

0082

धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला
मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः ।
इयाञ्जेतुं यस्य त्रिभुवनमदेहस्य विभवः
स कामः कामान्वो दिशतु दयितापाङ्गवसतिः ॥

0083

ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः
शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः ।
द्वीःआ नक्षत्रतारारविवसुमुनयो व्योम भूरश्चिनौ च
संलीना यस्य सर्वे वपुषि स भगवापातु वो विश्वरूपः ॥

0084

मुग्धे मुञ्च विषादमत्र बलजित्कम्पो गुरुस्त्यज्यतां
सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय ।
लक्ष्मीं बोधयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छला-
दन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः ॥

0085

दिश्यात्सुखं नरहरिर्भुवनैकवीरो
यस्याहवे दितिसुतोद्दलनोद्यतस्य ।
क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं
जानेभवन्निजनखेष्वपि यन्नतास्ते ॥

0086

स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी
का मात्रा मम विक्रमत्रयपदं दत्तं गृहीतां मया ।
मा देहीत्युशनाः कुतो हरिरयं पात्रं किमस्मात्परं
यो हीत्थं बलिनार्चितो मखमुखे पायात्स वो वामनः ॥

0087

चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय
भो भो नन्दक जीव पन्नगरियो किं नाथ भिन्नो मया ।
को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे
केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः ॥

0088

चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेब्जासने
नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृशम् ।
भ्रश्यच्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो
व्यग्रोभूत्कटुकालकूटकवलीकाराय पायात्स वः ॥

0089

नित्यं नरावृति निजानुभवैकमानम्-
आनन्दधाम जगदङ्कुरबीजमेकम् ।
दिग्देशकालकलनादिसमस्तहस्त-
मर्दासहं दिशतु शर्म महन्महो वः ॥

0090

व्योम्नीव नीरदभरः सरसीव वीचि-
व्यूहः सहस्रमहसीव सुधांशुधाम् ।
यस्मिन्निदं जगदुदेति च लीयते च
तच्छाम्भवं भवतु वैभवमृर्द्धये वः ॥

0091

लोकत्रयस्थितिलयोदयकेलिकारः
कार्येण यो हरिहरद्रुहिणत्वमेति ।
देवः स विश्वजनवाङ्मनसातिवृत्ति-
शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥

0092

सर्वः किलायमवशः पुरुषाणुकर्म-
कायादिकारणगणो यदनुग्रहेण ।
विश्व प्रपञ्चरचनाचतुरत्वमेति
स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥

0093

यः कन्दुकैरिव पुरंदर पद्मसद्म-
पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।
खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-
कान्तः कृतान्तदलनो लघयत्वधं वः ॥

0094

मुक्तिर्हि नाम परमः पुरुषार्थ एकस्-
तामन्तरायमवयन्ति यदन्तरज्ञाः ।
किं भूयसा भवतु सैव सुधामयूख-
लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥

0095

श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी
ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता
श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥

0096

त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतं शंसतां
हन्ता भक्तिमतां सतां स्वसमतां कर्तापकर्तासताम् ।
देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयी-
निर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः ॥

0097

राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं
नागा गागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति ।
मा रामारागिणी भून्मतिरिति यमिनां येन वोदाहि मारः
स प्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः ॥

0098

राधामोहनमन्दिरं जगमिषोश्चन्द्रावलीमन्दिराद्-
राधो क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली ।
क्षेमं कंस ततः प्रियः प्रकुपितः कंसः क्व दृष्टस्त्वया
राधा क्वेति तयोः प्रिसन्नमनसोर्हासोद्गमः पातु वः ॥

0099

आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं
रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः ।
पश्चाद्गन्तुमयुक्तमित्यथ पुनः सोप्यब्रवीदद्रवं
प्रष्टुं राघवमाशु रावणशिरोवृन्दानि भिन्दानि किम् ॥

0100

दृष्टः क्वापि स केशवो व्रजवधूमादाय कांचिद्गतः
सर्वा एव हि वञ्चिताः खुल वयं सोन्वेषणीयो यदि ।
द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे
गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc