भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0061-0080

0061

भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ-
कण्डूयनक्षणसुखायितगाढनिद्रः ।
सुष्वाप दीर्घतरघर्घरघोरघोषः
श्वासाभिभूतजलधिः कमठः स वोव्यातु ॥

0062

स धूर्जटिजटाजूटो जायतां विजयाय वः ।
यस्यैकपलितभ्रान्तिं करोत्पद्यापि जाह्नवी ॥

0063

स पातु वो यस्य जटाकलापे
स्थितः शशाङ्कः स्फुटहारगौरः ।
नीलोत्पलानामिव नालपुञ्जे
निद्रायमाणः शरदीव हंसः ॥

0064

दिश्यात्स शीतकिरणाभरणः शिवं वो
यस्योत्तमाङ्गभुवि विस्फुरदूर्मिपक्षा ।
हंसीव निर्मलशशाङ्ककलामृणाल-
कन्दार्थिनी सुरसरिन्नभसः पपात ॥

0065

श्रेयांसि वो दिशतु यस्य सिताभ्रशुभ्रा
विभ्राजते सुरसरिद्वरमौलिमाला ।
ऊर्ध्वेक्षणज्वलनतापविलीयमान-
चन्द्रामृतप्रविततामृतवाहिनीव ॥

0066

च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
शनैरेकीकृत्य प्रहसितमुखी शैलतनया ।
अवोचद्यं पश्योत्यवतु स शिवः सा च गिरिजा
स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥

0067

एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा
हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते ।
मुग्धो भूतिरियं कुतोत्र सलिलं भूतिस्तरङ्गायते
एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः ॥

0068

आश्लेषाधरविम्बचुम्बनसुखालापस्मितान्यासतां
दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् ।
इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः
केयं प्रेमविडम्बनेत्यवतु वः स्मेरोर्धनारीश्वरः ॥

0069

मातर्जीव किमेतदञ्जलिपुटे तातेन गोपाय्यते
वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् ।
मात्रैवं प्रहिते गृहे विघटयत्याकृष्य संध्याञ्जलिं
शंभोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥

0070

एकं चन्तच्छदस्य स्फुरति जपवशादर्धमन्यत्प्रकोपाद्-
एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं
तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने ॥

0071

शैलराजतनयास्तनयग्मव्यापृतास्ययुगलस्य गृहस्य ।
शेषवक्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु ॥

0072

करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासअः ।
क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥

0073

युष्माकमम्बरमणे प्रथमे मयूखास्-
ते मङ्गलं विदधतूदयरागभाजः ।
कुर्वन्ति ये दिवसजन्ममहोत्सवेषु
सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः ॥

0074

आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः
सोष्माणो व्रणिनो विपक्षहृदय्प्रोन्माथिनः कर्कशाः ।
उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा
योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोव्याज्जिनः ॥

0075

किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दिनः सन्ति पादाः
किं वा राकाशशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः ।
साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं
संदेहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः ॥

0076

चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषाम् ।
वलयज्यारवोन्मिश्राश्चण्ड्याः कोदण्डकृष्टयः ॥

0077

दिश्यान्महासुरशिरःसरसीप्सितानि
प्रेङ्खन्नखावलिमयूखमृणालनालम् ।
चण्ड्याश्चलच्चटुलनूपुरचञ्चरीक-
झांकारहारि चरणाम्बुरुहद्वयम् वः ॥

0078

सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रेमृतस्यन्दिनि ।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे
पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायस्तु वः ॥

0079

उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥

0080

पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं
यस्योद्गतेन गगने महता करेण ।
मूलावलग्नसितदन्तबिसाङ्कुरेण
नालायितं तपनबिम्बसरोरुहस्य ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc