सुभाषितावलि · श्लोक 0101-0120
मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं
कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः ।
भ्रूभङ्गैर्विनिवारितोपि बहुशो जल्पन्यशोदाग्रतो
गोपीभिः करपद्ममुद्रितमुखः पायात्स वः केशवः ॥
संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे
धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया ।
श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं
मा स्त्रीलंपट मां स्पृशेति गदितो गौर्या हरः पातु वः ॥
कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेहं
केकामेकां वद पशुपतिर्नैव दृश्ये विषाणे ।
मुग्धे स्थाणुः स चरति कथं जीवितेशः शिवाया
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥
कोयं द्वारि हरिः प्रयाह्युपवनः शाखामृगस्यात्र किं
कृष्णोहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् ।
मुग्धेहं मधुसूदनः पिब लतां तामेव तन्मीवले
इत्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः ॥
निर्लज्ज हरे किमिदं प्रमदानुगतः सदा परिभ्रमसि ।
मुग्धे त्वत्संपर्कात्प्रमदो भवतीति किं चित्रम् ॥
शठ वर्णयामि भवतो नारीणामुपरिभूयसी प्रीतिः ।
प्रलपसि किमसंबद्धं कस्यारिषु विद्यते प्रेम ॥
व्यामोहयसि किमेवं रामासक्तिं ब्रवीमि भवदीयाम् ।
ज्येष्ठे भ्रातरि रामे न क्रियतां कथमिवासक्तिः ॥
किं मामेवं भ्रमयसि शोचामि व्यसनमेव भवदीयम् ।
निष्कारणकुपितायां त्वयि कथय किमल्पकं व्यसनम् ॥
वक्रवचनैरमीभिर्गोपवधूमिति नरुत्तरीकृत्य ।
मण्डलितगुरुपयोधरमुपगूढं पातु वः शौरेः ॥
अयि संप्रसीद पार्वति शिवोपि तव पादयोर्निपतितोहम् ।
शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः ॥
शिव इति यदि तव गदिते द्विगुणो रोषो भवाम्यहं स्थाणुः ।
स्थानुरसि सत्यमेतच्चेतसि भवतो न किंचिदपि ॥
त्यज रुषमवेहि मानिनि मामीश्वरमर्चितः त्रिभुवनस्य ।
त्र्यम्बक यदीश्वरस्त्वं नग्नः किं धूलिधूसरितः ॥
संप्रति किमत्र वक्ष्यसि पशुपतिरेषोस्मि पाण्डुरकपोले ।
पशुपतिरेव न गणयसि युक्तायुक्तानि यस्मात्त्वम् ॥
मुग्धे भ्रमसि किमेवं सत्यमिमं मां भवं विजानीहि ।
सत्यं भवोसि शठ हे येनातिविचित्ररूपोसि ॥
पण्डितबादस्तव यदि लोकेहं त्र्यम्बको विदित एषः ।
अम्बा ह्येकापि न ते प्रजल्पसि त्वं कुतस्तिस्रः ॥
वादो महानिहैव हि तथा विजानीह्यनङ्गदहनं माम् ।
दग्धमिदमङ्गमङ्गं त्वया ममैवेदृशैश्चरितैः ॥
संध्याप्रणामदोषाद्योनुनयति तं विजित्य पार्वत्या ।
आलिङ्गितश्च सरभसमुरसा वै हरतु दुरितं वः ॥
भव निःस्नेहस्त्वं मे न भवाम्येवं यथा त्वया गदितम् ।
निःस्नेहताभिलाषस्तव देवि कुतः समुत्पन्नः ॥
कुसृतिभिरलमेताभिः किमर्थमुपरिस्थिता नदीयं ते ।
का नरकपालमाला ममोपरिस्था गृहाणैताः ॥
जनमनुरागिणमेवं संतापयसि व्यलीककरणेन ।
तव नरकपालपङ्क्तिभिरवश्यमेवोपरि स्थेयम् ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0