सुभाषितावलि · श्लोक 0041-0060
किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं
भक्तामप्यवधूय कर्तुम् अधुना कान्तासहस्रं तव ।
इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं
निद्राछेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥
स्वप्रासादितदर्शनामनुनयन्प्रानेश्वरीमादरा-
दंसेस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोप्यश्रुभिः ।
प्रत्याय्यस्त्वमतो मया ननु हरे कोयं क्रमव्यत्ययः
पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकर् शार्ङ्गिणः ॥
भक्तिप्रह्वविलोकनप्रणयिणी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये ।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिहरणं नेत्रे तनुर्वा हरेः ॥
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चोद्वृत्तभुजंगरहारवलयो गङ्गां च योधारयत् ।
यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः
पापात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥
किंचिन्निर्मुच्यमाने गगन इव मुखे नाट्यनिद्रापयोदैर्-
न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालम् ।
पायास्तां वो मुरोरेः शशितपनमये लोचने यद्विभासा
लक्ष्म्या कस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्राम् ॥
मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोङ्गनाभिर्-
गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोप्रमेयः ।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्-
दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥
भिन्दन्नरातिहृदयानि हरेः पुनातु
निःश्वासवातमुखरीकृतकोटरो वः ।
संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धु-
संघट्टघोरतरघोष इवाशु शङ्खः ॥
पायात्स वः कुमुदकुन्दमृणालगौरः
शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः ।
नादेन यस्य सुरशत्रुविलासिनीनां
काञ्च्यो भवन्ति शिथिला जघनस्थलीषु ॥
दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिर्-
उद्भूतदुःसहमहःप्रसरा समन्तात् ।
तल्लोचनस्थितरविप्रतिबिम्बगर्भे-
वाभाति चक्रमरिचक्रनुदेस्तु तद्वः ॥
उद्वृत्तदैत्यपृतनापतिकण्ठपीठ-
च्छेदोच्छलद्बहलशोणितशोणधारम् ।
चक्रं क्रियादभिमतानि हरेरुदार-
दिग्दाहदारुणनभःश्रियमुद्वहद्वः ॥
यस्योद्यद्बाणवाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं
चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य ।
जातग्रासावसायो दिवसकृतिसलन्मांसलांशुप्रवाहे
मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः ॥
दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र-
रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।
बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो
रक्षन्तु सिंहवपुषो नखरा हरेर्वः ॥
आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः
किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।
पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्-
दृष्ट्वा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः ॥
मेरूरुकेसरमुदारदिगन्तपत्त्रम्-
आमूललम्बिचलशेषशरीरनालम् ।
येनोद्धृतं कुवलयं सलिलात्सलीलम्-
उत्तंसकार्थमिव पातु स वो वराहः ॥
न मृद्नीयान्मृद्वी कथमिव मही पोत्रनिकषैर्-
मुखाग्निज्वालाभिः कनकगिरिरीयान्न विलयम् ।
न शुष्येयुः श्वासैः सलिलनिधयः सप्त च कथं
वराहो वः पायादिति विपुलचिन्तापरिकरः ॥
स्वामी सन्भुवनत्रयस्य विकृतिं नीतोसि किं याच्ञया
यद्वा विश्वसृजा त्वयैव न कृतं तद्दीयतां ते कुतः ।
दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये
विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरिः पातु वः ॥
लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि याते
श्वासग्रासोपयुक्ते मरुति जलनिधौ पायुरन्ध्रार्धपीते ।
पोत्रप्रान्तैकरोमान्तरविवरगतां मृग्यतः शार्ङ्गपाणेः
क्रोडाकारस्य पृथ्वीमकलितविषयं वैभवं वः पुनातु ॥
क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दिग्धिपेन्द्रा
हे मेरो मन्दरान्द्रे मलय हिमगिरे साधु वः क्ष्माधरत्वम् ।
शेष श्लाघ्योसि दीर्घैः पृथुभुवनभरोच्चण्डशौण्डैः शिरोभिः
शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु युष्मान्वराहः ॥
आव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता ।
कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥
एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः
श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः ।
कस्यान्यत्रामृतेस्मिन्रतिरतिविपुला दृष्टिरेवामृतं ते
दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोवताद्वः ॥
मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0