भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0021-0040

0021

नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये ।
अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥

0022

आसन्नाय सुदूराय गुप्ताय प्रकटात्मने ।
सुलभायातिदुर्गाय नमश्चित्राय शंभवे ॥

0023

चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे ।
दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः ॥

0024

विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोथवा
भानुर्वा शशलक्षणोथ भगवान्बुद्धोथ सिद्धोथवा ।
रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो
यः सर्वैः सह संस्कृतो गुणगुणैस्तस्मै नमः सर्वदा ॥

0025

श्लोकोयं स्वामिदत्तस्य तत्स्मृत्यै काव्यलक्षितः ।
योकरोत्कविनामाङ्कं चक्रपाणिययाभिधम् ॥

0026

भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य ।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥

0027

कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं
बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥

0028

अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः ।
ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोवतात् ॥

0029

लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः ।
दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः ॥

0030

पातु वो मेदिनीदोला बलेन्दुद्युतितस्करी ।
दंष्ट्रा महावराहस्य पातलगृहदीपका ॥

0031

मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः ।
मम रतिममरतिरस्कृतिशमनपुरः स क्रियात्कृष्णः ॥

0032

स पातु वो यस्य हतावशेषास्
तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
वालण्ययुक्तेष्वपि वित्रसन्ति
दैत्याः स्वकान्तानयनोत्पलेषु ॥

0033

चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् ।
अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः ॥

0034

गोवर्धनोद्धरणहृष्टसमस्तगोप-
नानास्तुतिश्रवणलज्जितमानसस्य ।
स्मृत्वा वराहवपुरिन्दुकलाप्रकाश-
दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः ॥

0035

मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसल्-
लक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्संभ्रमाः ।
हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षण-
व्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः ॥

0036

पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्-
निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।
यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसो
यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥

0037

किंचित्कुञ्चितलोचनस्य पिबतः पर्याप्तमेकं स्तेनं
सद्यःप्रस्रुतदुघविन्दुमपरं हस्तेन संमार्जतः ।
मात्रैकाङ्गुलिलालितस्य चिबुके स्मेराननस्यानना-
च्छौरेः क्षीरकणावलीव पतिता दन्तद्युतिः पातु वः ॥

0038

कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं
तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा ।
इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः
पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेर्धपीते हरिः ॥

0039

आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम् ।
सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं
यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्रगोवर्धनः ॥

0040

कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विकासितेथ वदने माता समस्तं जगद्-
दृष्ट्वा यस्य जगाम विस्मयवशं पायात्स वः केशवः ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc