भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 9

9.1*(191)

विश्लेषो जनितः प्रियैर् अपि जनैर् उज्जृम्भितं नालिकैर् मित्रेणापि खरायितं रतुणया दीर्घायितं तृष्णया
गुर्वी वल्लभता जडैर् अधिगता दोषाकरः सेव्यते हा कालः किम् अयं कलिर् न हि न हि प्राप्तः स घर्मागमः ॥

9.2*(192)

तदात्व-स्नातानां मलयज-रसैर् आर्द्र-वपुषां कुचान् बिभ्राणानां दर-विकच-मल्ली-मुकुलिनः
निदाघार्क-प्रोष-ग्लपित-महिमानं मृग-दृशां परिष्वङ्गो ऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति ॥

9.3*(193)*

प्रवृद्ध-तापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी ।
उभौ विरोध-क्रियया विभिन्नौ जायापती सानुशयाव् इव स्तः ॥

9.4*(194)

सर्वाशा-रुधि दग्ध-वीरुधि सदा सारङ्ग-बद्ध-क्रुधि क्षाम-क्ष्मारुहि मन्दं उन्मधुलिहि स्वच्छन्द-कुन्द-द्रुहि
शुष्यच्-छ्रोतसि तप्त-भूमि-रजसि ज्वालायमानाम्भसि ज्येष्ठे मासि खरार्क-तेजसि कथं पान्थ व्रजन् जीवसि ॥

9.5*(195)

गुरुर् गर्भारम्भः क्लमयति कलत्रं बलि-भुजः समग्रोष्मा चूतं पचति पिचु-मर्दं च दिवसः
इदानीं नीहार-स्तिमित-पवन-प्रीति-जनितां निशा-शेषो निद्रां नुदति पट-धूम्याट-मुखरः ॥

9.6*(196)

सान्द्र-क्षीण-प्रतत-विततच्-छिन्न-भुग्नोन्नताभिः प्रायः कश्मीरज-रुचि-जुषो दाव-वह्नेः शिखाभिः
वायुः सञ्चारिण इव लिखत्य् आनने दिग्-वधूनां धूमोद्गारैर् अगुरु-पवनैः सान्तरान् पत्र-भङ्गान् ॥

9.7*(197)

हिन्दोला-मधुरोपलालन-रस-प्रीत-प्रपा-पालिका गीतावर्जित-मुग्ध-वात-हरिण-श्रेणी-परीतान्तिकाः
औत्सुक्यं जनयन्ति पान्थ-परिषद्-घर्माम्बु-बिन्दूत्कर व्याक्षेप-क्षम-मन्द-मन्द-मरुतो मार्ग-स्थली-पादपाः ॥

9.8*(198)

चञ्चच्-चञ्चु-गुणोदरैः शिथिलित-प्रायांसं उत्पक्ष्मल न्यञ्चत्-पक्ष-पुटावकाश-विरमत्-पार्श्वोष्मभिर् नीयते
जङ्घा-कुञ्चन-लब्ध-नीड-निविडावष्टम्भ-कष्टोज्झित क्षेपीयः-पवनाभिघात-रभसोत्क्षेपैर् अहः पक्षिभिः ॥

9.9*(199)

धास्यत्य् अद्य सितातपत्र-सुभगं सा राजहंसी शिशोः स्मेराम्भोरुह-वासिनो ऽपि शिरसि स्नेहेन पक्ष-द्वयम्
तृष्णार्तः शुक-शावको ऽपि सुतनोः पीन-स्तनासङ्गिनीं मुक्ताहार-लतां तद्-अङ्क-वसतिस् तोयाशया पास्यति ॥

9.10*(200)

भुवां घर्मारम्भे पवन-चलितं ताप-हृतये पट-च्छत्राकारं वहति गगनं धूलि-पटलम्
अमी मन्दाराणां दव-दहन-संदेहित-धियो न डौकन्ते पातुः झटिति मकरन्दं मधुलिहः ॥

9.11*(201)

अपां मूले लीनं क्षण-परिचितं चन्दन-रसे मृणाली-हारादौ कृत-लघु-पदं चन्द्रमसि च
मुहूर्तं विश्रान्तं सरस-कदली-कानन-तटे प्रिया-कण्ठाश्लेषे निविशति पदं शैत्यम् अधुना ॥

9.12*(202)

प्रान्तारक्त-विलोचनाञ्चल-दरी-व्यग्राल्प-मक्षी-भय प्रोद्भूतोभय-शृङ्ग-कोटि-विगलच्-छैवाल-वल्ली-सखैः
पाथो-बिन्दुभिर् अक्षि-सन्धिषु शनैः संसिच्यमानः सुखं मग्नो वारिणि दूर-निःसहतया निद्रायते सैरिभः ॥

9.13*(203)

तापं स्तम्बेरमस्य प्रकटयति करः शीकरैः कुक्षुम् उक्षत् पङ्काङ्कं पल्वलानां वहति तट-वनं माहिषैः काय-काषैः
उत्ताम्यत्-तालवश् च प्रतपति तरणावांशवीं ताप-तन्द्रीं अद्रि-द्रोणी-कुटीरे कुहरिणि हरिणारातयो यापयन्ति ॥

9.14*(204)

जाताः पान्थनखंपचाः प्रचयिनो गन्त्रीपथे पांशवः कासारोदरशेषम् अम्बु महिषो मथ्नाति ताम्यत्तिमि
दृष्टिर् धावति धातकीवनम् असृक्तर्षेण तारक्षवी कण्ठाद् बिभ्रति विष्किराः शरशमी-नीडेषु नाडिन्धमान् ॥

9.15*(205)*

सुभग-सलिलावगाहाः पाटलि-संसर्ग-सुरभि-वन-वाताः ।
प्रच्छाय-सुलभ-निद्रा दिवसाः परिणाम-रमणीयाः ॥

9.16*(206)

अग्रे तप्त-जलाःन् नितान्तशिशिरा मूले मुहुर् बाहुभिः व्यामथ्योपरत-प्रपेषु पथिकैर् मार्गेषु मध्यन्दिने
आधाराः प्लुत-बाल-शैवल-दल-च्छेदावकीर्णोर्मयः पीयन्ते हल-मुक्त-मग्न-महिष-प्रक्षोभ-पर्याविलाः ॥

9.17*(207)

मृद्-भूयिष्ठतया गुरून् परिहरन् आरण्यकान् गोमयान् वल्मीकान् उपगूहति प्रशिथिलं ज्वालाभिर् उद्बल्वजान्
वह्निर् नीडि-किलिञ्ज-सञ्चय-समुत्सिक्तश् चरन् कानने प्रस्निग्धान् इह विष्किराण्डकललान् आज्याशया लुम्पति ॥

9.18*(208)

दूरीभूत-शरारि विक्लव-बकं संक्रान्त-कारण्डवं क्लाम्यत्-कङ्कम् अचक्रवाकम् अमिलन्-मद्गु प्रयात-प्लवम्
क्लिष्ट-क्रौञ्चम् अधार्तराष्ट्रम् अपतत्-कोयष्टि निष्टीटिभं सीदत्-सार-सम-प्रसक्त-कुररं कालेन जातं सरः ॥

9.19*(209)

तोयोत्तीर्णा श्रयति कबरी शेखरं सप्तलानां शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठ-दाम
कान्तं कर्णावभिनिविशते कोमलाग्रं शिरीषं स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्म-चिह्नम् ॥

9.20*(210)*

शुक-पत्र-हरित-कोमल-कुसुम-शतानां शिरीष-यष्टीनाम् ।
तलम् आश्रयति दिनातप-भयेन परिपिण्डितं शैत्यम् ॥

9.21*(211)

हरन्ति हृदयानि यच् छ्रवण-शीतला वेणवो यद् अर्घति करम्बिता शिशिर-वारिणा वारुणी
भवन्ति च हिमोपमाः स्तन-भुवो यद् एणी-दृशां शुचेर् उपरि संस्थितो रति-पतेः प्रसादो गुरुः ॥

9.22*(212)

जलार्द्रं संव्यानं बिस-किसलयैः केलि-वलयाः शिरीषैर् उत्तंसो विचकिल-मयी हार-रचना
शुचाव् एणाक्षीणां मलयज-रसार्द्राश् च तनवो विना तन्त्रं मन्त्रं रति-रमण-मृत्युञ्जय-विधिः ॥

9.23*(213)

रजनि-विरम-यामेष्व् आदिशन्ती रतेच्छां किम् अपि कठिनयन्ती नारिकेली-फलाम्भः
अपि परिणमयित्री राज-रम्भा-फलानां दिन-परिणति-रम्या वर्तते ग्रीष्म-लक्ष्मीः ॥

9.24*(214)

अम्भोधेर् जल-यन्त्र-मन्दिर-परिस्पन्दे ऽपि निद्राणयोः श्री-नारायणयोर् घनं विघटयन्त्य् ऊष्मा समालिङ्गनम्
किं चोत्तप्त-वियत्-कपाल-फलके कङ्काल-शेष-श्रियं चन्द्रं मर्मरयन्ति पर्पटकर-क्रूरा रवेर् अंशवः ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc