भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 10

10.1*(215)

वानीर-प्रसवैर् निकुञ्ज-सरिताम् आसक्त-वासं पयः पर्यन्तेषु च यूथिका-सुमनसाम् उज्जृम्भितं जालकैः
उन्मीलत्-कुटज-प्रहासिषु गिरेर् आलम्ब्य सानून् इतः प्राग्-भारेषु शिखण्डि-ताण्डव-विधौ मेघैर् वितानाय्यते ॥

10.2*(216)

फल-भर-परिणाम-श्याम-जम्बू-निकुञ्ज स्खलित-तनु-तरङ्गाम् उत्तरेण श्रवन्तीम्
उपरि-विघटमान-प्रौढ-तापिञ्ज-नीलः श्रयति शिखरम् अद्रेर् नूतनस् तोय-वाहः ॥

10.3*(217)

जृम्भा-जर्जर-डिम्ब-डम्बर-घन-श्रीमत्-कदम्ब-द्रुमाः शैलाभोग-भुवो भवन्ति ककुभः कादम्बिनी-श्यामलाः
उद्यत्-कुन्द-लतान्त-केतक-भृतः कच्छाः सरिच्-छ्रोतसां आविर्-गन्ध-शिलीन्ध्र-लोध्र-कुसुम-स्मेरा वनानां गतिः ॥

10.4*(218)

उत्फुल्लार्जुन-सर्व-वासित-वहत्-पौरस्त्य-झञ्झा-मरुत् प्रेङ्खोल-स्खलितेन्द्र-नील-शकल-स्निग्धाम्बुद-श्रेणयः
धारा-सिक्त-वसुन्धरा-सुरभयः प्राप्तास् त एते ऽधुना घर्माम्भो-विगमागम-व्यतिकर-श्री-वाहिनो वासराः ॥

10.5*(219)

एणी याति विलोक्य बाल-शलभान् शष्पाङ्कुरादित्सया छत्री-कुड्मलकानि रक्षति चिराद् अण्ड-भ्रमात् कुक्कुटी
धूत्वा धावति कृष्ण-कीट-पटल-श्रेणीं शिखण्डी शिरः दूराद् एव वनान्तरे विष-धर-ग्रासाभिलाषातुरः ॥

10.6*(220)

आसारान्त-मृदु-प्रवृत्त-मरुतो मेघोपलिप्ताम्बरा विद्युत्-पात-मुहूर्त-दृष्ट-ककुभः सुप्तेन्दु-तारा-ग्रहाः
धारा-क्लिन्न-कदम्ब-संभृत-सुधामोदोद्वहाः प्रोषितैर् निःसंपात-विसारि-दर्दुर-रवा नीताः कथं रात्रयः ॥

10.7*(221)

दात्य् ऊह-ध्वनि-भाञ्जि वेतस-शिखा-सुप्तोरगाणि ध्वनत् कादम्बानि कुरङ्ग-यूथ-कलित-स्तूपान्य् उदम्भांसि च
तीराण्य् अद्य पिपीलिका-समुदयावर्जज्-जटा-लोलुप व्याप्तान्य् उन्मद-कुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥

10.8*(222)

कान्तां क्वापि विलम्बिनीं कलरुतैर् आहूय भूयस् ततः दिग्भागान् अवलोक्य रङ्ग-वसुधाम् उत्सृज्य पद्भ्यां ततः
एष स्फार-मृदङ्ग-नाद-मधुरैर् अम्भो-मुचाम् आरवैः बर्ह-श्रेणि-कृतातपत्र-रचनो हृष्टः शिखी नृत्यति ॥

10.9*(223)

पीताम्भः-स्तिमिताः सृजन्ति सलिलान्य् आबद्ध-धारं घनाः तद्-धारा-ध्वनि-मीलितानि नयनान्य् अभ्येति निद्रागमः
निद्रा-मुद्रित-लोचने प्रतिगृहं मूकायमाने जने निर्द्वन्द्वोच्चरद्-उच्च-दर्दुर-रवैः कोलाहलिन्यो निशाः ॥

10.10*(224)

धारा-निपात-रव-बोधित-पञ्जर-स्थ दात्यूह-डम्बर-करम्बित-कण्ठ-कूजाः
अट्टेषु काण्ड-पट-वारित-शीकरेषु धन्याः पिबन्ति मुख-तामरसं वधूनाम् ॥

10.11*(225)

शैल-श्रेणिर् अपेत-दाव-दहना दग्ध-प्ररूढं वनं जीमूताङ्कुर-दन्तुरा दश दिशो भू-रेणु-मुक्तं नभः
किं चान्यत् कलिकोर्मि-मेदुर-मुखी जाता कदम्ब-च्छविश् छिद्यन्ते कियता क्षणेन शिखिनां मौन-व्रत-ग्रन्थयः ॥

10.12*(226)

केदारे नव-वारि-पूर्ण-जठरे किंचित्-क्वणद्-दर्दुरे शम्बू-काण्डक-पिण्ड-पाण्डुर-तत-प्रान्त-स्थलीवी-रणे
डिम्भा दण्डक-पाणयः प्रतिदिशं पङ्क-च्छटा-चर्चिताश् चुभ्रूश् चुभ्रुर् इति भ्रमन्ति रभसाद् उद्यायि-मत्स्योत्सुकाः ॥

10.13*(227)

समन्तात् स-विस्फुरद्-इन्द्रनील मणि-प्रभा-विच्छुरितान्तरालः
मर्त्यावतीर्णस्य विडोजसो ऽयं नीलांशुक-च्छत्रम् इवाम्बुवाहः ॥

10.14*(228)

खद्योत-च्छुरितान्धकार-पटलाः स्पष्ट-स्फुरद्-विद्युतः स्निग्ध-ध्वान-विभावितोरु-जलदोन्नाहा रटत्-कम्बवः
एताः केतक-भेद-वासित-पुरो-वाताः पतद्-वारयो न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः ॥

10.15*(229)

एतस्मिन् मद-जर्जरैर् उपचिते कम्बूरवाडम्बरैः स्तैमित्यं मनसो दिशत्य् अनिभृतं धाराधरे मूर्च्छति
उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् मन्ये मुद्रित-चन्द्र-सूर्य-नयनं व्योमापि निद्रायते ॥

10.16*(230)

गम्भीराम्भोधराणाम् अविरल-निपतद्-वारि-धारा-निनादान् ईषन्-निद्रालसाक्षा दृढ-गृह-पटलारूढ-कुष्माण्ड-बन्ध्याः
दोर्भ्याम् आलिङ्ग्यमाना जलधर-समये पत्र-षण्डे निशायां धन्याः शृण्वन्ति सुप्ताः स्तन-युग-भरितोरः-स्थलाः कामिनीनाम् ॥

10.17*(231)*

अपगत-रजो-विकारा घन-पटलाक्रान्त-तारकालोका ।
लम्ब-पयोधर-भारा प्रावृद् इयं वृद्ध-वनितेव ॥

10.18*(232)

अम्भोधेर् वडवामुखानल-झलाज्वालोपगूढान्तरा व्यामोहाद् अपिबन्न् अपः स्फुटम् अमी तर्षेण पर्याविलाः
उद्देश-स्फुरद्-इन्द्र-चाप-वलय-ज्वालापदेशाद् अहो दह्यन्ते कथम् अन्यथार्ध-मलिनाङ्गार-द्युतस् तोयदाः ॥

10.19*(233)

कृत्वा पिच्छिलतां पथः स्थगयता निर्भर्त्सनं पादयोः सान्द्रैर् वारि-कणैः कपोल-फलके विच्छित्तिम् आछिन्दता
मेघेनोपकृतं यद् आशु विहिता तस्यागसो निष्कृतिः स्वैरिण्याः प्रिय-वेश्म-वर्त्म दिशता विद्युद्-विलासैर् मुहुः ॥

10.20*(234)

आसारोपरमे प्रगाढ-तिमिराः किम् ईरयन्त्यो निशाः पान्थ-स्त्री-मनसां स्मरानल-कणा-संतान-शङ्का-स्पृशः
पिष्टानां प्रसभं घनाघन-घटा-संघट्टतो विद्युतां चूर्णाभाः परितः पतन्ति तरलाः खद्योतक-श्रेणयः ॥

10.21*(235)

हस्त-प्राप्यम् इवाम्बरं विदधतः खर्वा इवाशा-ततीर् गर्जाभिः क्षण-जर्जरी-कृत-घनानुत्ताल-धारा-रवाः
क्वामग्नं स्थलम् अस्ति नाम तद् इभीवोद्दाम-सौदामिनी नेत्रोन्मेष-विलोकिताखिल-भुवो वर्षन्ति नक्तं घनाः ॥

10.22*(236)

उत्पुच्छानत-धूत-पक्ष-ततयो झात्कारिणो विभ्रमैर् उद्वाच्यास् तत-चञ्चवो लय-वशाद् उत्क्षिप्त-पादा मुहुः
पश्यन्तो निज-कण्ठ-काण्ड-मलिनां कादम्बिनीम् उन्नत ग्रीवाभ्यर्ण-मिलत्-कलाप-विटपा नृत्यन्ति केका-भृतः ॥

10.23*(237)

इदानीं वंशीनां शबर-मिथुनोच्छृङ्खल-रहः क्रिया-सख्येनालं गिरि-वन-सरिद्-ग्राम-सुहृदाम्
स्फुरल्-लोम-श्याम-च्छगल-शिशि-कर्ण-प्रतिसमच् छदाग्राभिस् त्वग्भिर् वलयित-करीरास् तल-भुवः ॥

10.24*(238)

पार्श्वाभ्यां शिरसा निमीलित-दृशः कामं निमज्य क्रमाद् अंसौ पृष्ठम् उरः स-पक्षति-तलं गाढं स्पृशन्तो मुहुः
एते कुञ्चित-जानवो नव-जले निर्वान्ति घर्माहता भूयः पक्ष-पुटाभिपात-रभसोत्सर्पत्-कणाः पत्रिणः ॥

10.25*(239)*

मज्जानम् अपि विलिम्पति नाकृत-पुण्यस्य वर्षति पयोदे ।
निर्गम-केलि-समुत्सुक-शिशि-वारण-गाढ-परिरम्भः ॥

10.26*(240)

आक्रन्दाः स्तनितैर् विलोचन-जलान्य-श्रान्त-धाराम्बुधिस् तद्-विच्छेद-भुवश् च शोक-शिखिनस् तुल्यास् तडिद्-विभ्रमैः
अन्तर् मे दयिता-मुखं तव शशी वृत्तिः समैवावयोस् तत् किं माम् अनिशं सखे जलधर त्वं दग्धुम् एवोद्यतः ॥

10.27*(241)*

भुवः किम् एता दिवम् उत्पतन्ति दिवो ऽथवा भू-तलम् आविशन्ति ।
चलाः स्थिरा वेति वितर्कयन्त्यो धाराः कराग्रैर् अबलाः स्पृशन्ति ॥

10.28*(242)

छत्रावलम्बि विमलोरु-पयः-प्रवाह धारा-भर-स्फटिक-पञ्जर-संयताङ्गः
पान्थः स्व-शासन-विलङ्घन-जात-कोप कामाज्ञया प्रियतमाम् इव नीयते स्म ॥

10.29*(243)

अद्याम्भः परितः पतिष्यति भुवस् तापो ऽद्य निर्वास्यति क्षेत्रेष्व् अद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः
नर्तिष्यन्ति तवोदये ऽद्य जलद व्यालोल-पुच्छ-च्छद च्छत्र-च्छादित-मौलयो दिशि दिशि क्रीडालसाः केकिनः ॥

10.30*(244)*

गायति हि नीलकण्ठो नृत्यति गौरी तडित् तरल-तारा ।
आस्फालयति मृदङ्गं तद्-अनु घनो ऽयं महा-कालः ॥

10.31*(245)*

अलकेषु चूर्ण-भासः स्वेद-लवाभान् कपोल-फलकेषु ।
नव-घन-कौतुकिनीनां वारिकणान् पश्यति कृतार्थः ॥

10.32*(246)*

काले वारि-धराणाम् अपतितया नैव शक्यते स्थातुम् ।
उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ॥

10.33*(247)*

असित-भुजग-शिशु-वेष्टितम् अभिनवम् आभाति केतकी-कुसुमम् ।
आयस-वलयाकङ्कृत-विषाणम् इव दन्तिनः पतितम् ॥

10.34*(248)*

स्तम्बेषु केतकीनां यथोत्तरं वामनैर् दलैर् अद्य ।
विदलन्ति मेष-तर्णक-पुच्छ-च्छवि-केशराः सूच्यः ॥

10.35*(249)

धूलीभिः केतकीनां परिमलन-समुद्धूलिताङ्गः समन्ताद् अन्तोद्वेल्लद्-बलाका-वलि-कुणप-शिरो-नद्ध-नीलाभ्र-केशः
प्रेङ्खद्-विद्युत्-पताकावलि-रुचिर-धनुः-खण्ड-खट्वाङ्ग-धारी संप्राप्तः प्रोषित-स्त्री-प्रतिभय-जनकः काल-कापालिको ऽयम् ॥

10.36*(250)

मेघ-श्याम-दिशि प्रवृत्त-धनुषि क्रीडत्-तडित्-तेजसि च्छन्नाहर्-निशि गर्जित-प्रमनसि प्रम्लान-लीला-रुषि
पूर्ण-श्रोतसि शान्त-चातक-तृषि व्यामुग्ध-चन्द्र-त्विषि प्राणान् पान्थ कथं दधासि निवसन्न् एतादृशि प्रावृषि ॥

10.37*(251)

क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु-सरितां प्रताप्योर्वीं वन-तरु-गहनम् उत्साद्य सकलम्
क्व संप्रत्य् उष्णांशुर् गत इति समन्वेषण-परास् तडिद्-दीपालोकैर् दिशि दिशि चरन्तीव जलदाः ॥

10.38*(252)

विद्युद्-दीधिति-भेद-भीषण-तमः-स्तोमान्तराः संतत श्यामाम्भोधर-रोध-संकट-वियद्-विप्रोषित-ज्योतिषः
खद्योतोन्नमितोपकण्ठ-तरवः पुष्णन्ति गम्भीरताम् आसारोदकमत्त-कीट-पटली-क्वाणोत्तरा रात्रयः ॥

10.39*(253)

हर्षोल्लासित-चारु-चन्द्रक-बृहद्-बर्हैर् वनानाम् अमी जाताः पुष्पित-बाल-शाखिन इवाभोगा भुजङ्गाशिभिः
स्पृष्टाः कोटर-निर्गतार्ध-तनुभिः पातुं पयोदानिलं निर्यद्-वंश-करीर-कोटय इव क्षोणी-भृतो भोगिभिः ॥

10.40*(254)

एताः पङ्किल-कूल-रूढ-नलद-स्तम्भाः क्वणत्-कम्बवः क्रीडत्-कर्कट-चक्रवाल-विलसज्-कम्बाल-तोयाबिलाः
हृल्-लेखं जनयन्त्य् अनूप-सरितां उत्तुण्ड-गण्डूपदो त्कीर्णोद्गीर्णा मृद्-अर्बुद-स्थपुटित-प्रान्तास् तटी-भूमयः ॥

10.41*(255)

नवे धारा-सारे प्रमद-चटुलायाः स्थल-जुषः वराटी-शुभ्रायाः शफर-सरणेर् एभिर् उपरि
कुलीरैर् भ्राम्यद्भिर् गणयितुम् इव व्यापृत-कराः मनः क्रीणन्तीव प्रकट-विभवाः पल्वल-भुवः ॥

10.42*(256)*

विन्ध्याद्रि-महा-लिङ्गं स्नपयति पर्यन्य-धार्मिकः शुचिभिः ।
जलदेन्द्रनील-गड्डूशतोज्झितैः संप्रति पयोभिः ॥

10.43*(257)*

पिबति व्योम-कटाहे संसक्त-चलत्-तडिल्-लता-रसनः ।
मेघ-महा-मार्जारः संप्रति चन्द्रातप-क्षीरम् ॥

10.44*(258)*

अर्धोद्गतेन कदली मृदु-ताम्र-तलेन गर्भ-कोषेण ।
पिबति निदाघ-ज्वरिता घन-धारां कर-पुटेनैव ॥

10.45*(259)

आरोह-वल्लीभिर् इवाम्बु-धारा राजीभिर् आभूमि-विलम्बिनीभिः
संलक्ष्यते व्योम वट-द्रुमाभम् अम्भोधर-श्याम-दल-प्रकाशम् ॥

10.46*(260)

नीपैः काञ्ची-कृत-विरचनैः पिञ्जरं श्रोणिबिम्बं मिश्राव् अंसौ श्रवसि वसता कन्दली-कुड्मलेन
पाण्डिच्छायः स्तन-परिसरो यूथिका-कण्ठ-सूत्रैर् इत्य् आकल्पः प्रकृति-ललितो वल्लभः सुन्दरीणाम् ॥

10.47*(261)

लूने कालाञ्जन-परिचये शीकरैः कामम् अक्ष्णोर् एकी-भूते कुच-कलशयोर् वाससि श्याम-सूक्ष्मे
दृष्टे स्वाभाविक-तनु-गुणे दुर्दिन-स्वैरिणीनां धन्यो वेषान्तर-विरचनं प्रत्युदास्ते कृतार्थः ॥

10.48*(262)

असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि लिखित-प्रोञ्छितम् इव
अहर् वा रात्रिर् वा द्वयम् अपि विलुप्त-प्रविचयं घनैर् बद्ध-व्यूहैः किम् इदम् इति घोरं व्यवसितम् ॥

10.49*(263)

तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावन् विक्षिप्तौ तावद् अङ्घ्री पथि पथिक-जनैर् लम्बिता तावद् आशा
फुल्लद्-धारा-कदम्बस् तव कवलयिता यावद् एते न दृष्टा निर्मुक्त-व्याल-नील-द्युति-नव-जलद-व्याकुला विन्ध्य-पादाः ॥

10.50*(264)

कामं कूले नदीनाम् अनुगिरि महिषी-यूथ-नीडोपकण्ठे गाहन्ते शष्प-राजीर् अभिनव-शलभ-ग्रास-लोका बलाकाः
अन्तर्-विन्यस्त-वीरुत्-तृण-मय-पुरुष-त्रास-विघ्नं कथंचित् कापोतं कोद्रवाणां कवलयति कणान् क्षेत्र-कोणैक-देशे ॥

10.51*(265)

अमुष्मिन् संनद्धे जल-मुचि समभ्यस्य कतिचिद् ककारान् पर्यन्त-द्वि-गुण-मत-रेफ-प्रसविनः
स माध्यन्दात्यूहश् चल-विपुल-कण्ठः प्रसरति क्रमोदञ्चत्-तारः क्रम-वश-नमन् मन्द-मधुरः ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc