सुभाषितरत्नकोश · अध्याय 8
आरक्ताङ्कुर-दन्तुरा कमलिनी नायामिनी यामिनी स्तोकोन्मुक्त-तुषारम् अम्बर-मणेर् ईषत् प्रगल्भं महः
अप्य् एते सहकार-सौरभ-मुचो वाचालिताः कोकिलैर् आयान्ति प्रिय-विप्रयुक्त-युवती-मर्म-च्छिदो वासराः ॥
नैवैके वयम् एव कोकिल-वधू-कण्ठोच्चरत्-पञ्चम स्थानोद्बोधित-पञ्च-मार्गण-गुणास्फालेन रोमाञ्चिताः
पश्यैते तरवो ऽपि सुन्दरि जरत्-पत्र-व्ययानन्तरोद् भिन्न-पाटल-कोटि-संपुट-दल-प्रादुर्भवत्-कुड्मलाः ॥
मलय-मही-धर-पवनः कल-कण्ठ-कल-ध्वनिर् निकुञ्ज-लताः ।
उत्कलिका उत्कलिकाश् चेतसि जनयन्ति लोकस्य ॥
कान्तेन प्रहितो नवः प्रिय-सखी-वर्गेण बद्ध-स्पृहश् चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना
आमृष्टो मुहुर् ईक्षितो मुहुर् अभिघ्रातो मुहुर् लोठितः प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ॥
द्विस् त्रिः कोकिलया रुतं त्रि-चतुरैश् चूताङ्कुरैर् उद्गतं कोषाद् बोभ्रति किंशुका मधुकर-श्रेणी-जुषः पञ्चषान्
क्वापि क्वापि मदाकुलाकुलतया कान्तापराध-ग्रह ग्रन्थि-च्छेद-समुद्यतं च हृदयं दोलायते सुभ्रुवाम् ॥
जम्बूनां कुसुमोदरेष्व् अतिरसादाबद्ध-पानोत्सवाः कीराः पक्व-फलाशया मधु-करीश् चुम्बन्ति मुञ्चन्ति च
एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्न-त्विषां पुष्प-भ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥
दृश्यन्ते मधुमत्त-कोकिल-वधू-निर्धूत-चूताङ्कुर प्राग्-भार-प्रसरत्-पराग-सिकता-दुर्गास् तटी-भूमयः
याः कृच्छ्राद् अभिलङ्घ्य लुब्धक-भयात् तैर् एव रेणूत्करैर् धारा-वाहिभिर् अस्ति लुप्त-पदवी-निःशङ्कम् एणी-कुलम् ॥
अशिथिल-परिस्पन्दः कुन्दे तथैव मधुव्रतो नयन-सुहृदो वृक्षाश् चैते न कुड्मल-शालिनः
दलति कलिका चौती नास्मिन् तथा मृग-चक्षुषां अथ च हृदये मान-ग्रन्थिः स्वयं शिथिलायते ॥
कान्तां हित्वा विरह-विधुरारम्भ-खेदालसाङ्गीं मां उल्लङ्घ्य व्रजतु पथिकः कापि यद्य् अस्ति शक्तिः
इत्य् आशोकी जगति सकले वल्लरी चीरिकेव प्राप्तारम्भे कुसुम-समये काल-देवेन दत्ता ॥
मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिल-व्याहृतैः संस्कुर्वन्ति वन-स्थलीः किसलयोत्तंसिर् निषण्णालिभिः
चन्द्रं सुन्दरयन्ति मुक्त-तुहिन-प्रावारया ज्योत्स्नया वर्धन्ते च विवर्धयन्ति च मुहुस् ते ऽमी स्मरं वासराः ॥
हृद्य-स्निग्धैः परभृत-रुतैर् मुक्त-दीर्घ-प्रवासः प्रत्यावृत्तो मधुर् इति वदन् दक्षिणो गन्धवाहः
शिञ्जल्-लोल-भ्रमर-वलयः काननाली-वधूनां सद्यः कुन्द-स्मित-बृहतिकाः पूर्ण-पात्री-करोति ॥
लोलैः कोकिल-मण्डलैर् मधु-लिहां चञ्चूर्यमाणैर् गणैर् नीरन्ध्रैर् गृह-वाटिका-परिसरेष्व् अङ्गारितैः किंशुकैः
प्रारब्धे तिमिरे वसन्त-समय-क्षोणीपतेर् भ्राम्यतः प्रस्निग्धा परितो धृतेव कलिका-दीपावलिश् चम्पकैः ॥
च्युत-सुमनसः कुन्दाः पुष्पोद्गमेष्व् अलसा द्रुमा मनसि च गिरं ग्रथ्नन्तीमे किरन्ति न कोकिलाः
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जठरताम् आलम्बन्ते क्लमोदय-दायिनीम् ॥
साम्यं संप्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर् वाह्लीकी-दशन-व्रणारुण-तलैः पत्रैर् अशोकोर्चितः
भृङ्गा-लङ्घित-कोटि किंशुकम् इदं किंचिद् विवृन्तायते माञ्जिष्ठैर् मुकुलैश् च पाटलितरोर् अन्यैव काचिल् लिपिः ॥
गर्भ-ग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा वाञ्छा-मात्र-परिग्रहः पिक-वधू-कण्ठोदरे पञ्चमः
किं च त्रीणि जगन्ति जिष्णु-दिवसैर् द्वित्रैर् मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेद् अभ्यास-वश्यं धनुः ॥
शीतास् तैर् इव भग्न-शैशिर-निशा-भागैर् अहः स्फायते गर्भं बिभ्रति किंशुका इव दिशां तापाय वह्न्य्-अङ्कुरम्
किं च स्वाश्रय-संभृत-प्रथिमसु च्छायातपाङ्गेष्व् अयं लोकः स्तोक-रसो ऽद्य न क्वचिद् अपि स्वच्छन्दम् आनन्दति ॥
उद्भिन्न-स्तवकावतंस-सुभगाः प्रेङ्खन्-मरुन्-नर्तिताः पुष्पोद्गीर्ण-पराग-पांशुल-लसत्-पत्र-प्रकाण्ड-त्विषः
गम्भीर-क्रम-पञ्चमोन्मद-पिक-ध्वानोच्छलद्-गीतयः प्रत्युज्जीवित-मन्मथोत्सव इव क्रीडन्त्य् अमू भूरुहः ॥
प्राग् एव जैत्रम् अस्त्रं सहकार-लता स्मरस्य चापभृतः ।
किं पुनर् अनल्प-निपतित-मधुकर-विष-कल्क-लेपेन ॥
स्वस्ति श्री-मलयाचलात् स्मर-सखः श्रीमान् वसन्तानिलः क्रीडा-वेश्मसु कामिनः कुशलयत्य् एतच् च वक्तीतरत्
एषो ऽहं मुदितालि-कोकिल-कुलं कुर्वन् वनं प्राप्तवान् युष्माभिः प्रिय-कामिनी-परिगतैः स्थातव्यम् अस्माद् इति ॥
एते नूतन-चूत-कोरक-घन-ध्वानातिरेकी-भवत् कण्ठ-ध्वान-जुषो हरन्ति हृदयं मध्ये वनं कोकिलाः
येषाम् अक्षि-निभेन भान्ति भगवद्-भूतेश-नेत्रानल ज्वाला-जाल-करालि-तासमशराङ्गार-स्फुलिङ्गा इव ॥
किंशुक-कलिकान्तर्-गत-चन्द्र-कला-स्फर्धि केशरं भाति ।
रक्त-निचोलक-पिहितं धनुर् इव जतु-मुद्रितं वितनोः ॥
वापी दन्तुरितोदरा कमलिनी पत्राङ्कुर-ग्रन्थिभिश् चूतानां कलिकामिलन् मधुलिहां कापि स्थितिर् वर्तते
किं चान्यत् कुसुमायुधो ऽद्य भगवान् धत्ते स-गर्वं धनुर् ज्याम् उन्मार्ष्टि च पञ्चभिश् च विशिखैर् जेतुं जगद् वाञ्छति ॥
आरक्तैर् नव-पल्लवैर् विटपिनो नेत्रोत्सवं तन्वते तान् धुन्वन्न् अयम् अभ्युपैति मधुरामोदो मरुद् दक्षिणः
तेनालिङ्गित-मात्र एव विधिवत् प्रादुर्-भवन् निर्भर क्रीडा-कूत-कषायितेन मनसा लोको ऽयम् उन्माद्यते ॥
काप्य् अन्या मुकुलाधिकार-मिलिता लक्ष्मीर् अशोकद्रुमे माकन्दस् समयोचितेन विधिना धत्ते ऽभिजातं वपुः
किं चाषाढ-गिरेर् अनङ्ग-विजय-प्रस्तावना-पण्डितः स्वैरं सर्पति बाल-चन्दन-लता-लीला-सखो मारुतः ॥
वह्निर् मन्ये हिम-जल-भयात् संश्रितः किंशुकेषु श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः
संतापार्थं कथम् इतरथा पान्थ-सीमन्तिनीनां पुष्प-व्याजाद् विसृजति शिखा-श्रेणिम् उद्गाढ-शोणाम् ॥
श्रोण्यां चित्रः कुरु-बक-गुणः कर्णयोर् मुग्धचूतं रक्ताशोकं प्रणयि कुचयोर् माधवी मूर्धजेषु
सर्वाङ्गीणो बकुल-रजसा पिञ्जरेणोपरागः स्त्रैणो यूनां भवतु रतये वेश-सर्वाभिसारः ॥
मुघाताम्रैर् नव-किशलयैः संभृतोदार-शोभं प्रादुर्-भूत-भ्रमर-सरणी-यौवनोद्भेद-चिह्नम्
सीमन्तिन्यः कुसुम-धनुषा बद्ध-सख्यस्य मासः स्निग्ध-स्मेरैर् मुखम् अधिगुणं दृष्टिपातैः पिबन्ति ॥
शिकी-मुखैर् अद्य मनोज्ञ-पक्षैर् विषोपलेपाद् इव कज्जलाभैः ।
नितान्त-पूर्णा मुचकुन्दकोषा विभान्ति तूणा इव मन्मथस्य ॥
स्नेहं स्रवन्ति तरवः पञ्चापि क्षिपति मार्गणान् मदनः ।
परिमुक्त-कण्ठ-रोधः पर-पुष्टः क्षरति माधुर्यम् ॥
संकुचिता इव पूर्वं दुर्वार-तुषार-जनित-जडि-मानः ।
संप्रत्य् उपरमति हिमे क्रमशो दिवसाः प्रसार-जुषः ॥
दुःश्लिष्ट-दुर्लक्ष्य-पलाश-संधीन्य् आपाटलाग्राणि हरिन्ति मूले ।
कुशेशयानां शुकशावभांसि प्रादुर्बभूवुर् नवकुड्मलानि ॥
उपनयति कपोले लोल-कर्ण-प्रवाल क्षण-मुकुल-निवेशान्दोलनव्यापृतानाम्
परिमलित-हरिद्रान् संप्रति द्राविडीनां नव-नख-पद-तिक्तान् आतपः स्वेदबिन्दून् ॥
सद्यस् तप्तो भ्रमति रजनीं वासरः खण्डयित्वा क्षीण-क्षीणा तद् अनु भजते सापि संयक्-प्रसादम्
एको लोके कथयति नरस्येष्ट-जाते निसर्गं नार्याः पुंसि स्थितिम् अनुगुणां शंसति स्पष्टम् अन्या ॥
इदानीं प्लक्षाणां जठर-दल-विश्लेष-चतुरः स्थितीनाम् आबन्धः स्फुटति शुक-चञ्चू-पुट-निभः
ततः स्त्रीणां हन्त क्षमम् अधर-कान्तिं कलयितुं समन्तान् निर्याति स्फुट-सुभग-रागं किसलयम् ॥
उद्गच्छत्य् अलि-झंकृतिः स्मर-धनुर् ज्या-मञ्जु-गुञ्जा-रवैर् निर्याता विष-लिप्त-भल्लि-विषमाः कङ्केल्लि-फुल्ल-च्छटाः
रे संप्रत्य् अपवित्रम् अत्र पथिकाः सारम्भम् उज्जृम्भते चूतो दूत इवान्तकस्य कलिका-जाल-स्फुरत्-पल्लवः ॥
मिथः क्रीडा-लोल-भ्रमर-भर-भङ्गाङ्कुर-रस प्रेसेक-प्रोन्मीलत्-परिमल-समालब्ध-पवनः
इतो ऽस्त्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः प्रयच्छत्य् उन्मादान् अहह सहकार-द्रुम-युवा ॥
अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकरे ।
अङ्कुरितः पल्लवितः कोरकितो विकसितश् च मदनो ऽसौ ॥
उत्फुल्ला नव-मालिका मदयति घ्राणेन्द्रियाह्लादिनी जातं धूसरम् एव किंशुक-तरोर् आश्यामलं जालकम्
आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः स्त्रीणां पीन-घन-स्तनेषु कणवान् स्वेदः करोत्य् आस्पदम् ॥
सपदि सखीभिर् निभृतं विरहवतीस् त्रातुम् अत्र भज्यन्ते ।
सहकार-मञ्जरीणां शिखोद्गम-ग्रन्थयः प्रथमे ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0