सुभाषितरत्नकोश · अध्याय 6
अस्ति श्री-स्तन-पत्र-भङ्गम् अकरी-मुद्राङ्कितोरः-स्थली देवः सर्व-जगत्-पतिर् मधु-वधू-वक्त्राब्ज-चन्द्रोदयः
क्रीडा-क्रोड-तनोर् नवेन्दु-विशदे दंष्ट्राङ्कुरे यस्य भूर् भाति स्म प्रलयाब्धि-पल्वल-तलोत्खातैक-मुस्ताकृतिः ॥
पृष्ठ-भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान् निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः
यत्-संस्कार-कलानुवर्तन-वशाद् वेला-छलेनाम्भसां यातायातम् अयन्त्रितं जल-निधेर् नाद्यापि विश्राम्यति ॥
निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकी-लक्ष्मणः कोक-प्रीति-चकोर-पारण-पटू ज्योतिष्मती लोचने
याभ्याम् अर्ध-विबोध-मुग्ध-मधुर-श्रीर् अर्ध-निद्रायितो नाभी-पल्वल-पुण्डरीक-मुकुलः कम्बोः सपत्नी-कृतः ॥
विरमति महा-कल्पे नाभी-पथैक-निकेतनस् त्रिभुवन-पुरः-शिल्पी यस्य प्रतिक्षणम् आत्मभूः
किम् अधिकरणा कीदृक् कस्य व्यवस्थितिर् इत्य् असा वुदरम् अविशद् द्रष्टुं तस्मै जगन्-निधये नमः ॥
राधे त्वं कुपिता त्वम् एव कुपिता रुष्टासि भूमेर् यतो माता त्वं जगतां त्वम् एव जगतां माता न विज्ञो ऽपरः
देवि त्वं परिहास-केलि-कलहे ऽनन्ता त्वम् एवेत्य् असौ स्मेरो वल्लव-सुन्दरीम् अवनमच् छौरिः श्रियः वः क्रियात् ॥
को ऽयं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं कृष्णो ऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः
मुग्धे ऽहं मधुसूदनो व्रज लतां ताम् एव पुष्पासवाम् इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥
मन्द्र-क्वाणित-वेणुर् अह्नि शिथिले व्यावर्तयन् गोकुलं बर्हापीडकम् उत्तमाङ्ग-रचितं गोधूलि-धुम्रं दधत्
म्लायन्त्या वन-मालया परिगतः श्रान्तो ऽपि रम्याकृतिर् गोप-स्त्री-नयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥
विष्णोर् दानव-वाहिनी-प्रमथ-नेष्ट्यापूरणायादराद् आत्तः पाणि-युगोदरेण करज-श्रेण्या श्रियालम्भितः
निर्यातो वदनेन कुक्षि-वसतेः पत्युस् तलाद् अर्णसां शङ्खो ऽपत्य-परम्परावृत इव श्रेयांसि पुणातु वः ॥
स जयत्य् आदि-वराहो दंष्ट्रानिष्पिष्ट-कुल-गिरि-कसेरुः ।
यस्य पुरः सुर-करिणः साङ्कुर-माषोपमा जाताः ॥
जीयासुः शकुलाकृतेर् भगवतः पुच्छ-च्छटाच्छोटनाद् उद्यन्तः शत-चन्द्रिताम्बर-तलं ते बिन्दवः सैन्धवाः
यैर् व्यावृत्य पतद्भिर् और्व-शिखिनस् तेजो-जटालं वपुः पानाध्मान-वशाद् अरोचक-रुजश् चक्रे चिरस्यास्पदम् ॥
कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित् किम् इच्छसि पद-त्रयं ननु भुवा किम् इत्य् अल्पया
द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः ॥
श्रेयो ऽस्याश् चिरम् अस्तु मन्दर-गिरेर् माघानि पाश्र्वैर् इयं मावष्टम्भि महोर्मिभिः फणिपतेर् माले ऽपि लाला-विषैः
इत्य् आकूत-जुषः श्रियं जल-निधेर् अर्धोत्थितां पश्यतो वाचोन्तः-स्फुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पातु वः ॥
चटच्-चटिनि चर्मणि च्छम् इति चोच्छल-च्छोणिते धगद्-धग् इति मेदसि स्फुटतरो ऽस्थिषु ष्ठाद् इति
पुनातु भवतो हरेर् अमर-वैरि-नाथोरसि क्वणत्करज-पञ्जर-क्रकच-काष-जन्मानलः ॥
वन्दे भुज-भ्रमित-मन्दर-मथ्यमान दुग्धाब्धि-दुग्ध-कण-विच्छुरित-च्छवीकम्
नक्षत्र-कर्बुर-वियत्-प्रतिरोधि-निन्दद् उन्निद्र-कैरव-तडागम् उरो मुरारेः ॥
भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो दहति वितत-ज्वाला-जालो जगन्ति विषानलः
स तु विनिहित-ग्रीवाकाण्डः कटाह-पुटान्तरे स्वपिति भगवान् कूर्मो निद्राभरालस-लोचनः ॥
भक्ति-प्रह्व-विलोकन-प्रणयिनी नीलोत्पल-स्पर्धिनी ध्यानालम्बनतां समाधि-निरतैर् नीते हित-प्राप्तये
लावण्यस्य महा-निधी रसिकतां लक्ष्मी-दृशोस् तन्वती युष्माकं कुरुतां भवार्ति-शमनं नेत्रे तनुर् वा हरेः ॥
पुच्छोदस्त-विसारिणो जलनिधेः स्वर्-गङ्गया संगम श्रद्धाहूत-खलत्-पुरातन-मुनिर् मीनो हरिः पातु वः
यस्मिन्न् उद्धरति श्रुतीः पृथुतराद् ओङ्कार-सार-ध्वनेर् मध्ये-सिन्धु वियन्-मयो जल-मयः स्तम्भस् त्व् अभूद् अम्बरे ॥
जृम्भाविजृम्भित-दृशः प्रथम-प्रबुद्ध लक्ष्मी-कराम्बुरुह-लालन-लालसस्य
गात्रापवृत्ति-भर-खर्वित-शेषम् अव्याद् अव्याहतं मुरजितः कृतक-प्रसुप्तम् ॥
मयान्विष्टो धूर्तः स सखि निखिलाम् एव रजनीम् इह स्याद् अत्र स्याद् इति निपुणम् अन्याम् अभिसृतः
न दृष्टो भाण्डीरे तट-भुवि न गोवर्धन-गिरेर् न कालिन्द्याः कूले न च निचुल-कुञ्जे मुररिपुः ॥
श्यामोच्चन्द्रा स्वपिति न शिशो नैति माम् अम्ब निद्रा निद्राहेतोः शृणु सुत कथां काम् अपूर्वां कुरुष्व
व्यक्तः स्तम्भान् नरहरिर् अभूद् दानवं दारयिष्यन्न् इत्य् उक्तस्य स्मितम् उदयते देवकी-नन्दनस्य ॥
खर्व-ग्रन्थि-विमुक्त-सन्धि-विकसद्-वक्षः-स्फुरत्-कौस्तुभं निर्यन् नाभि-सरोज-कुड्मल-कुटी-गम्भीर-सामएध्वनि
पात्रावाप्ति-समुत्सुकेन बलिना सानन्दम् आलोकितं पायाद् वः क्रम-वर्धमान-महिमाश्चर्यं मुरारेर् वपुः ॥
उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलित-कबरी-भारम् अंशं वहन्त्याः
भूयस् तत्-काल-कान्ति-द्विगुणित-सुरत-प्रीतिना शौरिणा वः शय्याम् आलम्ब्य नीतं वपुर् अलस-लसद्-बाहु लक्ष्म्याः पुनातु ॥
संपूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः कुम्भ-द्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन्-मञ्जरी
इत्थं यद्-वदन-स्तन-द्वय-वलद्-रोमावलीषु भ्रमः क्षीराब्धेर् मथने ऽभवद्-दिविषदां लक्ष्मीर् असाव् अस्तु वः ॥
भ-भ-भ्रमति मेदिनी ल-ल-ल-लन्दते चन्द्रमाः कृ-कृष्ण ववद द्रुतं ह-ह-हसन्ति किं वृष्णयः
सिसीधु मु-मु-मुञ्च मे प-प-प-पान-पात्रे स्थितः मद-स्खलितम् आलपन् हल-धरः श्रियः वः क्रियात् ॥
किं किं सिंहस् ततः किं नर-सदृश-वपुर् देव चित्रं गृहीतो नैवं तत् को ऽत्र जीव द्रुतम् उपनय तं नन्व् अयं प्राप्त एव
चापं चापं न खड्गं त्वरिततरम् अहो कर्कशत्वं नखानाम् इत्थं दैत्याधिराजं निज-नख-कुलिशैर् जघ्निवान् यस् स वो ऽव्यात् ॥
देवस् त्वाम् एक-जङ्घावलयित-लगुडो मूर्ध्नि विन्यस्त-बाहुर् गायन् गो-युद्ध-गीतीर् उपरचित-शिरः-शेखरः प्रग्रहेण
दर्प-स्फूर्जन्-महोक्ष-द्वय-समर-रसाबद्ध-दीर्घानुरागः क्रीडा-गोपाल-मूर्तिर् मुररिपुर् अवताद् आत्त-गोरक्ष-लीलः ॥
जयन्ति निर्दारित-दैत्य-वक्षसो नृसिंह-रूपस्य हरेर् नखाङ्कुराः
विचिन्त्य येषां चरितं सुरारयः प्रिया-नखेभ्यो ऽपि रतेषु बिभ्यति ॥
एते लक्ष्मण जानकी-विरहिणं मां खेदयन्त्य् अम्बुदा मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः
इत्थं व्याहृत-पूर्व-जन्म-विरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥
मिथ्या-कण्डूति-साचीकृत-गल-सरणिर् येषु जातो गरुत्मान् ये निद्रां नाटयद्भिः शयन-फणि-फणैर् लक्षिता न श्रुताश् च
ये च ध्यानानुबन्ध-च्छल-मुकुल-दृशा वेधसा नैव दृष्टास् ते लक्ष्मीं नर्मयन्तो निधुवन-विधयः पान्तु वो माधवस्य ॥
प्रत्यग्रोन्मेष-जिह्मा क्षणम् अनभिमुखी रत्न-दीप-प्रभाणां आत्म-व्यापार-गुर्वी जनित-जललवा जृम्भितैः साङ्ग-भङ्गैः
नागाङ्गं मोक्तुम् इच्छोः शयनं उरु-फणा-चक्रवालोपधानं निद्रा-च्छेदाभिताम्रा चिरम् अवतु हरेर् दृष्टिर् आकेकरा वः ॥
दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्ध-कण्डू-विनोदः सिन्धुष्व् अङ्गावगाहः खुर-कुहर-विशत्-तोय-तुच्छेषु नाप्तः
प्राप्ताः पाताल-पङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते येनोद्धारे धरित्र्याः स जयति विभुता-विघ्नितेच्छो वराहः ॥
पातु त्रीणि जगन्ति पार्श्व-कषण-प्रक्षुण्ण-दिङ्-मण्डलो नैकाब्धि-स्तिमितोदरः स भगवान् क्रीडा-झषः केशवः
त्वङ्गन्-निष्ठुर-पृष्ठ-रोम-खचित-ब्रह्माण्ड-भाण्ड-स्थिते यस्योत्स्फाल-कुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम् ॥
ये संतापित-नाभि-पद्म-मधवो ये स्नापितोरः-स्रजो ये तापात् तरलेन तल्प-फणिना प्रीत-प्रतीपोज्झिताः
ये राधा-स्मृति-साक्षिणः कमलया सासूयम् आकर्णिता गाढान्तर्-दवथोः प्रतप्त-सरलाः श्वासा हरेः पान्तु वः ॥
सेयं द्योस् तद् इदं शशाङ्क-दिन-कृच्-चिह्नं नभः सा क्षितिस् तत्-पाताल-तलं त एव गिरयस् ते ऽम्भोधरास् ता दिशः
इत्थं नाभि-विनिर्गतेन स-शिरः-कम्पाद्भुतं वेधसा यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः ॥
युक्तं मानद माम् अनन्य-मनसं वक्षः-स्थलस्थायिनीं भक्ताम् अप्य् अवधूय कर्तुम् अधुना कान्ता-सहस्रं तव
इत्य् उक्त्वा फण-भृत् फणामणि-गतां स्वाम् एव मत्वा तनुं निद्रा-च्छेद-करं हरेर् अवतु वो लक्ष्म्या विलक्ष-स्मितम् ॥
अग्रे गच्छत धेनु-दुग्ध-कलशान् आदाय गोप्यो गृहं दुग्धे वस्कयणी-कुले पुनर् इयं राधा शनैर् यास्यति
इत्य् अन्य-व्यपदेश-गुप्त-हृदयः कुर्वन् विविक्तं व्रजं देवः कारण-नन्द-सूनुर् अशिवं कृष्णः स मुष्णातु वः ॥
सत्रासर्ति यशोदया प्रिय-गुण-प्रीतेक्षणं राधया लग्नैर् वल्लव-सूनुभिः सरभसं संभावितात्मोर्जितैः
भीतानन्दित-विस्मितेन विषमं नन्देन चालोकितः पायाद् वः कर-पद्म-सुस्थित-महा-शैलः सलीलो हरिः ॥
दंष्ट्रासंकट-वक्त्र-घर्घर-ललज्-जिह्वाभृतो हव्य-भुग् ज्वाला-भासुर-भूरि-केशरि-सटाभारस्य दैत्य-द्रुहः
व्यावल्गद्-वलवद् धिरण्यकशिपु-क्रोड-स्थली-पाटन स्पष्ट-प्रस्फुटद्-अस्थि-पञ्जर-रव-क्रूरा नखाः पान्तु वः ॥
लक्ष्म्याः केश-प्रसव-रजसां बिन्दुभिः सान्द्र-पातैर् उद्वर्ण-श्रीर् घन-निधुवन-क्लान्ति-निद्रान्तरेषु
दोर्-दण्डो ऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि ग्राव-श्रेणिनिकषमसृण-क्षुण्णकेयूर-पत्रः ॥
नख-क्रकच-दारण-स्फुटित-दैत्य-वक्षः-स्थल क्षरत्-क्षत-जनिर् झर-प्रतिविभावित-स्वाकृतेः
हरेर् अपर-केशरि-क्षुभित-चेतसः पातु वः सरोष-ललिताधर-भ्रुकुटि-भङ्ग-भीमं मुखम् ॥
वत्स क्ष्माधर-गह्वरेषु विचरन् चार-प्रचारे गवां हिंस्रान् वीक्ष्य पुरः पुराण-पुरुषं नारायणं ध्यास्यसि
इत्य् उक्तस्य यशोदया मुरारिपोर् अव्याज् जगन्ति स्फुरद् बिम्बोष्ठ-द्वय-गाढ-पीडन-वशाद् अव्यक्त-भावं स्मितम् ॥
देवो हरिर् जयति यज्ञ-वराह-रूपः सृष्टि-स्थिति-प्रलय-कारणम् एक एव
यस्योदर-स्थित-जगत्-त्रय-बीज-कोश निर्गच्छद्-अङ्कुर-शिखेव विभाति दंष्ट्रा ॥
बीजं ब्रह्मैव देवो मधुजल-निधयः कर्णिका स्वर्ण-शैलः कन्दो नागाधिराजो वियद् अपि विपुलः पत्रकोशावकाशः
द्वीपाः पत्राणि मेघा मधुपकुलम् अभूत् तारका-गर्भ-धूलिर् यस्यैतन्-नाभि-पद्मं भुवनम् इति स वः शर्म देवो दधातु ॥
कनक-निकष-स्वच्छे राधा-पयोधर-मण्डले नव-जलधर-श्यामाम् आत्म-द्युतिं प्रतिबिम्बिताम्
असित-सिचय-प्रान्त-भ्रान्त्या मुहुर् मुहुर् उत्क्षिपन् जयति जनित-व्रीडा-नम्र-प्रिया-हसितो हरिः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0