भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 5

5.1*(71)

देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे हर्षाद् भृङ्गरिटावयाचित-गिरा चामुण्डयालिङ्गिते
अव्याद् वो हत-दुन्दुभि-स्वन-घन-ध्वानातिरिक्तस् तयोर् अन्योन्य-प्रचलास्थित्-पञ्जर-रणत्-कङ्काल-जन्मा रवः ॥

5.2*(72)*

रक्षतु वः स्तन-युगलं हरि-करि-कुम्भानुकारि गिरि-गुहितुः ।
शङ्कर-दृढ-कण्ठ-ग्रह-पीडन-भस्माङ्ग-राग-विच्छुरितम् ॥

5.3*(73)

सावष्टम्भ-निशुम्भ-संभ्रमनमद्-भूगोल-निष्पीडन न्यञ्चत्-कर्पर-कूर्म-कम्प-विचटद्-ब्रह्माण्ड-खण्ड-स्थिति
पाताल-प्रतिमल्ल-गल्ल-विवर-प्रक्षिप्त-सप्तार्णवं वन्दे नन्दित-नीलकण्ठ-परिषद्-व्यक्त-र्द्धि वः क्रीडितम् ॥

5.4*(74)

भो भो दिक्-पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनि प्रविशत क्षोणी-तलं क्ष्माभृतः
ब्रह्मन्न् उन्नय दूरम् आत्म-सदनं देवस्य मे नृत्यतः शम्भोः संकटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः ॥

5.5*(75)

स्वेदस् ते कथम् ईदृशः प्रियतमे त्वन्-नेत्र-वह्नेर् विभो कस्मात् कम्पितम् एतद् इन्दुवदने भोगीन्द्र-भीतेर् भव
रोमाञ्चः कथम् एष देवि भगवन् गङ्गाम्भसां शीकरर् इत्थं भर्तरि भाव-गोपन-परा गौरी चिरं पातु वः ॥

5.6*(76)

आर्द्रां कण्ठे मुखाब्ज-स्रजम् अवनमयत्य् अम्बिका जानुलम्बां स्थाने कृत्वेन्दुलेखां निबिडयति जटाः पन्नगेन्द्रेण नन्दी
कालः कृत्तिं निबध्नात्य् उपनयति करे काल-रात्रिः कपालं शम्भोर् नृत्यावतारे परिषद् इति पृथग् व्यापृता वः पुनातु ॥

5.7*(77)

शृङ्गं भृङ्गिन् विमुञ्च त्यज गज-वदन त्वं च लाङ्गूल-मूलं मन्दानन्दो ऽसि नन्दिन्न् अलम् अबल महाकाल कण्ठ-ग्रहेण
इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वती-पाद-मूले पश्यन्न् अक्षैर् विलक्षं वलित-गल-चलत्-कम्बलं त्र्यम्बकं वः ॥

5.8*(78)

गौरी-विभज्यमानार्ध संकीर्णे हर-मूर्धनि
अम्ब द्विगुण-गम्भीरे भागीरथि नमो ऽस्तु ते ॥

5.9*(79)

देवस्याम्बुज-संभवस्य भवनाद् अम्भोधिम् आगामुका सेयं मौलि-विभूषणं भगवतो भर्गस्य भागीरथी
उद्यातान् अपहाय विग्रहम् इह स्रोतः-प्रतीपान् अपि स्रोतस् तीव्रतरत्वरा गमयति द्राग् ब्रह्मलोकं जनान् ॥

5.10*(80)

प्रातः कालाञ्जन-परिचितं वीक्ष्य जामातुर् ओष्ठं कन्यायाश् च स्तन-मुकुलयोर् अङ्गुली-भस्म-मुद्राः
प्रेमोल्लासाज् जयति मधुरं सस्मिताभिर् वधूभिर् गौरी-मातुः किम् अपि किम् अपि व्याहृतं कर्ण-मूले ॥

5.11*(81)

लाक्षा-रागं हरति शिखराज् जाह्नवी-वारि येषां ये तत्वन्ति स्रजम् अधिजटा-मण्डलं मालतीनाम्
प्रत्युत्सर्पद्-विमल-किरणैर् यैस् तिरोधानम् इन्दोर् देव्याः स्थाणौ चरण-पतिते ते नखाः पान्तु विश्वम् ॥

5.12*(82)

मिश्रीभूतां तव तनुलतां बिभ्रतो गौरि कामं देवस्य स्याद् अविरल-परीरम्भ-जन्मा प्रमोदः
किन्तु प्रेम-स्तिमित-मधुर-स्निग्ध-मुग्धा न दृष्टिर् दृष्टेत्य् अन्तःकरणम् असकृत् ताम्यति त्र्यम्बकस्य ॥

5.13*(83)

अव्याद् वो वलिकाङ्घ्रि-पात-विचलद्-भूगोल-हेलोन्मुख भ्राम्यद्-दिक्-करि-कल्पितानुकरणो नृत्यद्-गण-ग्रामणीः
यस्योद्दण्डित-शुण्ड-पुष्कर-मरुद्-व्याकृष्ट-सृष्टं मुहुस् तारा-चक्रं उदक्त-शीकर-पृषल्-लीलाम् इवाभ्यस्यति ॥

5.14*(84)

सानन्दं नन्दि-हस्ताहत-मुरज-रवाहूत-कौमार-बर्हि त्रासान् नासाग्र-रन्ध्रं विशति फणि-पतौ भोग-संकोच-भाजि
गण्डोड्डीनालि-माला-मुखरित-ककुभस् ताण्डवे शूल-पाणेर् वैनायक्यश् चिरं वो वदन-विधुतयः पान्तु चीत्कार-वत्यः ॥

5.15*(85)

यद् अम्बा तातो वा द्वयम् इदम् अगाद् एक-तनुतां तद्-अर्धं चार्धं च क्व नु गतम् अथार्यः कथयतु
जगत् तत् तज् जातं सकल-नर-नारी-मयम् इति प्रतीतिं कुर्वाणो जयति शिखि-भर्तुर् गज-मुखः ॥

5.16*(86)*

भव-जलधि-जलावलम्ब-यष्टिर् महिष-महासुर-शैल-वज्र-धारा ।
हर-हृदय-तडाग-राज-हंसी दिशतु शिवं जगतश् चिरम् ॥

5.17*(87)*

शूलाहत-महिषासुर-रुधिर-च्छुरिताधराम्बरा गौरी ।
पुष्पवतीव स-लज्जा हसित-हर-निरीक्षिता जयति ॥

5.18*(88)

प्रत्यासन्न-विवाह-मङ्गल-विधौ देवार्चन-व्यस्तया दृष्ट्वाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम्
उन्माद-स्मित-रोष-लज्जितम् असौ गौर्या कथंचिच् चिराद् वृद्ध-स्त्री-वचनात् प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥

5.19*(89)*

शिखिपतिर् अतिदुर्लडितः पित्रोर् अभिलषति मध्यम् अधिशयितुम् ।
ताव् अप्य् एक-शरीराव् इति विषमाशश् चिरं जयति ॥

5.20*(90)

अम्बेयं नेयम् अम्बा न हि खर-कपिशं श्मश्रु तस्या मुखार्धे तातो ऽयं नैष तातः स्तनं उरसि पितुर् दृष्टवान् नाहम् अत्र
केयं को ऽयं किं एतद् युवतिर् अथ पुमान् वस्तु किं स्यात् तृतीयं शम्भोः संवीक्ष्य रूपाद् अपसरति गुहः शङ्कितः पातु युष्मान् ॥

5.21*(91)

स्वेच्छा-रम्यं लुठित्वा पितुर् उरसि चिता-भस्म-धूली-चिताङ्गो गङ्गा-वारिण्य् अगाधे झटिति हर-जटा-जूटतो दत्त-झम्पः
सद्यः सीत्कार-कारी जल-जडिम-रण-हन्त-पङ्क्तिर् गुहो वः कम्पी पायाद् अपायाज् ज्वलित-शिखि-शिखे चक्षुषि न्यस्त-हस्तः ॥

5.22*(92)

हंस-श्रेणि-कुतूहलेन कलयन् भूषा-कपालावलीं बालाम् इन्दुकलां मृणाल-रभसाद् आन्दोलयन् पाणिना
रक्ताम्भोज-धिया च लोचन-पुटं लालाटम् उद्घाटयन् पायाद् वः पितुर् अङ्क-भाक् शिशु-जन-क्रीडोन्मुखः षण्-मुखः ॥

5.23*(93)

कपोलाद् उड्डीनैर् भय-वश-विलोलैर् मधुकरैर् मदाम्भः-संलोभाद् उपरि पतितुं बद्ध-पटलैः
चलद्-बर्ह-च्छत्र-श्रियम् इव दधानो ऽतिरुचिराम् अविघ्नं हेरम्बो जगद्-अघ-विघातं घटयतु ॥

5.24*(94)

एकः स एव परिपालयताज् जगन्ति गौरी-गिरीश-चरितानुकृतिं दधानः
आभाति यो दशन-शून्य-मुखैक-देश देहार्ध-हारित-वधूक इवक-दन्तः ॥

5.25*(95)

अर्चिष्मन्ति विदार्य वक्त्र-कुहराण्य् आसृक्-क्वणो वासुकेस् तर्जन्या विष-कर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान्
एकं त्रीणि नवाष्ट सप्त षड्-अतिव्यस्तास्त-संख्या-क्रमा वाचः शक्तिधरस्य शैशव-कलाः कुर्वन्तु वो मङ्गलम् ॥

5.26*(96)

सुप्तं पक्ष-पुटे निलीन-शिरसं सृष्ट्वा मयूरं पुरः कृत्तं केन शिरो ऽस्य तात कथम् इत्य् आक्रन्दतः शैशवात्
अन्तर्हास-पिनाकि-पाणि-युगल-स्फालोल्लसच्-चेतसस् तन्-मूर्धेक्षण-तर्पितस्य हसितं पायात् कुमारस्य वः ॥

5.27*(97)

चर्चायाः कथम् एष रक्षति सदा सद्यो नृ-मुण्ड-स्रजं चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि
इत्य् अन्तःपरिभावयन् भगवतो दीर्घं धियः कौशलं कूष्माण्डो धृति-संभृताम् अनुदिनं पुष्णाति तुन्द-श्रियम् ॥

5.28*(98)

कस्मात् त्वं तात गेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता देव्या देवो जितः किं वृष-डमरु-चिता-भस्म-भोगीन्द्र-चन्द्रान्
इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृ-भिक्षा विभूषा वैगुण्योद्वेग-जन्मा जगद् अवतु चिरं हारवो भृङ्गिरीटेः ॥

5.29*(99)

स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाण-क्षमस् तेनैकस्य ममैव तत्र कशिपु-प्राप्तिः परा दृश्यते
इत्य् आदौ परिचिन्तितं प्रतिमुहुस् तद्-भृङ्गि-कूष्माण्डयोर् अन्योन्य-प्रतिकूलम् ईश-शिवयोः पाणिग्रहे पातु वः ॥

5.30*(100)

ज्याकृष्टि-बद्ध-खटकामुख-पाणि-पृष्ठ प्रेङ्खन्-नखांशु-चय-संवलितो ऽम्बिकायाः
त्वां पातु मञ्जरित-पल्लव-कर्णपूर लोभ-भ्रमद्-भ्रमर-विभ्रम-भृत्-कटाक्षः ॥

5.31*(101)

यातस् ते ऽधर-खण्डनात् परिभवः कापालिकाद् अम्ब यः स ब्रह्मादिषु कथ्यताम् इति मुहुर् वाणीं गुहे जल्पति
गौरीं हस्त-युगेन षण्-मुख-वचो रोद्धुं निरीक्ष्याक्षमां वैलक्ष्याच् चतुरास्य-निष्फल-परावृत्तिश् चिरं पातु वः ॥

5.32*(102)

गोनासाय वियोजितागदरजाः सर्पाय बद्धौषधिः पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती
भर्तुर् भूत-गणाय गोत्र-जरती-निर्दिष्ट-मन्त्राक्षरा रक्षत्व् अद्रि-सुता विवाह-समये प्रीता च भीता च वः ॥

5.33*(103)

दिग्-वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना भस्माङ्गस्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम्
इत्य् अन्योन्य-विरुद्ध-चेष्टितम् इदं पश्यन् निज-स्वामिनो भृङ्गी सान्द्र-शिरावनद्ध-परुषं धत्ते ऽस्थि-शेषं वपुः ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc