भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 4

4.1*(30)

शिल्पं त्रीणि जगन्ति यस्य कविता यस्य त्रिवेदी गुरोर् यश् चक्रे त्रिपुर-व्ययं त्रिपथगा यन्-मूर्ध्नि माल्यायते
त्रीन् कालान् इव वीक्षितुं वहति यो विस्फूर्जद्-अक्ष्णां त्रयं स त्रैगुण्य-परिच्छेदो विजयते देवस् त्रिशूलायुधः ॥

4.2*(31)

वाणीभूत-पुराण-पूरुष-धृति-प्रत्याशया धाविते निद्राति क्षण-जाशु-शुक्षणि-कण-क्लान्ते शकुन्तेश्वरे
नम्रोन्नम्र-भुजङ्ग-पुङ्गव-गुण-व्याकृष्ट-बाणासन क्षिप्तास्त्रस्य पुरद्रुहो विजयते संधान-सीमाश्रमः ॥

4.3*(32)

पीयूष-द्रव-पान-दोहद-रस-व्यग्रोरग-ग्रामणी दष्टः पातु शशी महेश्वर-शिरो-मेपथ्य-रत्नाङ्कुरः
यो बिम्ब-प्रतिपूरणाय विधृतो निष्पीड्य संदंशिका यन्त्रे शैव-ललाट-लोचन-शिखा-ज्वालाभिर् आबर्ह्यते ॥

4.4*(33)

भद्रं चन्द्र-कले शिवं सुरनदि श्रेयः कपालआवले कल्याणं भुजगेन्द्र-वल्लि कुशलं विश्वे शटा-संतते
इत्य् आहुर् मिलिताः परस्परम् अमूर् यस्मिन् प्रशान्तिं गते कपान्तार-भटी-नटस्य भवतात् तद् वः श्रिये ताण्डवम् ॥

4.5*(34)

देवि त्वद्-वदनोपमान-सुहृदाम् एषां सरोजन्मनां पश्य व्योमनि लोहितायति शनैर् एषा दशा वर्तते
इत्थं संकुचद्-अम्बजानुकरण-व्याजोपनीताञ्जलेः शम्भोर् वञ्चित-पार्वती-कमुचितम् संध्यार्चनं पातु वः ॥

4.6*(35)

कस्मात् पार्वति निष्ठुरासि सहज शैलीद्भवानाम् इदं निःस्नेहासि कुतो न भस्म-परुषः स्नेहं क्वचिन् निन्दति
कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् इत्थं निर्वचनीकृतो दयितया शम्भुः शिवायास् तु वः ॥

4.7*(36)

वपुः प्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान्
नमन् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रे ऽप्य् अनतिभाङ् महेश क्षन्तव्यं तद् इदम् अपराध-द्वयम् अपि ॥

4.8*(37)

किं वाच्यो महिमा महा-जल-निधेर् यस्येन्द्र-वज्राहतस् त्रस्तो भू-भृद् अमज्जद् अम्बु-निचये कौलील-पोताकृतिः
मैनाको ऽपि गभीर-नीर-विलुठन् पाठीन-पृष्ठोच्छलच् छैवालाङ्कुर-कोटि-कोटर-कुटी-कुड्यान्तरे निर्वृतः ॥

4.9*(38)

तादृक्-सप्त-समुद्र-मुद्रित-मही भूभृद्भिर् अभ्रं-कषैस् तावद्भिः परिवारिता पृथु-पृथु-द्वीपैः समन्ताद् इयम्
यस्य स्फार-फणा-मणौ निलयनात् तिर्यक्-कलङ्काकृतिः शेषः सो ऽप्य् अगमद् यद्-अङ्गद-पदं तस्मै नमः शम्भवे ॥

4.10*(39)

गाढ-ग्रन्थि-प्रफुल्लद्-गल-विकल-फणा-पीठ-निर्यद्-विषाग्नि ज्वालानिष्टप्त-चन्द्र-द्रवद्-अमृत-रस-प्रोषित-प्रेत-भावाः
उज्जृम्भा बभ्रु-नेत्र-द्युतिम् असकृद्-असृक्-तृष्णयालोकयन्त्यः पान्तु त्वां नाग-नाल-ग्रथित-शव-शिरः-श्रेणयो भैरवस्य ॥

4.11*(40)

बभ्रु-भ्रू-श्मश्रु-केशं शिखरम् इव गिरेर् लग्न-दावाग्नि-मालं नेत्रैः पिङ्गोग्र-तारैस् त्रिभिर् इव रविभिश् छिद्रितः काल-मेघः
दंष्ट्राचन्द्र-प्रभाभिः प्रकटित-सुबृहत्तालु-पाताल-मूलं शम्भोर् वक्त्रं सुवक्त्र-त्रितय-भय-करं हन्त्व् अधं दक्षिणं वः ॥

4.12*(41)

उद्दाम-दन्त-रुचि-पल्लवितार्ध-चन्द्र ज्योत्स्ना-निपीत-तिमिर-प्रकरावरोधः
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भोर् अम्भोधरावलि-घन-ध्वनिर् अट्टहासः ॥

4.13*(42)

त्वङ्गद्-गङ्गम् उदञ्चद्-इन्दु-शकलं भ्रश्यत्-कपालावलि क्रोड-भ्राम्यद्-अमन्द-मारुत-चय-स्फारीभवद्-भाङ्कृति
पायाद् वो घन-ताण्डव-व्यतिकर-प्राग्-भार-खेद-स्खलद् भोगीन्द्र-श्लथ-पिङ्गलोत्कट-जटाजूटं शिरो धूर्जटेः ॥

4.14*(43)

नख-दर्पण-संक्रान्त प्रतिमा-दशकान्वितः
गौरी-पादानतः शम्भुर् जयत्व् एकादशः स्वयम् ॥

4.15*(44)

चूडापीड-कपाल-संकुल-पतन्-मन्दाकिनी-वारयो विद्युत्-प्राय-ललाट-लोचन-पुट-ज्योतिर्-विमिश्र-त्विषः
पान्तु त्वाम् अकठोर-केतक-शिखा-संदिग्ध-मुग्धेन्दवो भूतेशस्य भुगङ्ग-वल्लि-वलय-स्रङ्-नद्ध-जूटा जटाः ॥

4.16*(45)*

स जयति गाङ्ग-जलौघः शम्भोर् उत्तुङ्ग-मौलि-विनिविष्टः ।
मज्जति पुनर् उन्मज्जति चन्द्र-कला यत्र शफरीव ॥

4.17*(46)

स वः पायाद् इन्दुर् नव-विसलताकोटि-कुटिलः स्मरारेर् यो मूर्ध्नि ज्वलन-कपिशे भाति निहितः
स्रवन्-मन्दाकिन्याः प्रति-दिवस-सिक्तेन पयसा कपालेनोन्मुक्तः स्फटिक-धवलेनाङ्कुर इव ॥

4.18*(47)

च्युताम् इन्दोर् लेखां रतिकलह-भग्नं च वलयं द्वयं चक्रीकृत्य प्रहसित-मुखी शैल-तनया
अवोचद् यं पश्येद्त्य् अवतु स शिवः सा च गिरिजा स च क्रीडा-चन्द्रो दशन-किरणापूरित-कलः ॥

4.19*(48)

नमस् तुङ्ग-शिरश् चुम्बि चन्द्र-चामर-चारवे
त्रैलोक्य-नगरारम्भ मूल-स्तम्भाय शम्भवे ॥

4.20*(49)

क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानो ऽंशुकान्तं गृह्णन् केशेष्व् अपास्तश् चरण-निपतितो नेक्षितः संभ्रमेण
आलिङ्गन् यो ऽवधूतस् त्रिपुर-युवतिभिः साश्रु-नेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥

4.21*(50)

संध्या-ताण्डव-डम्बर-व्यसनिनो भीमस्य चण्ड-भ्रमि व्यानृत्यद्-भुज-दण्ड-मण्डल-भुवो झञ्झानिलाः पान्तु वः
येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् उड्डीनेषु विडौजसा पुनर् असौ दम्भोलिर् आलोकितः ॥

4.22*(51)

केशेषु प्राक्-प्रदीपस् त्वचि विकट-चटत्कार-सारो ऽतिमात्रं मांसे मन्दायमानः क्षरद्-असृजि सृजन्न् अस्थिषु ष्ठात्कृतानि
मज्ज-प्राये ऽङ्ग-भागे झगिति रति-पतेर् जाज्वलन् प्रोज्ज्वल-श्रीर् अश्रेयो व्यस्यताद् वस्त्रिनयन-नयनोपान्तवान्तो हुताशः ॥

4.23*(52)

पायात् पार्वण-सान्ध्य-ताण्डव-विधौ यस्योल्लसत्-काननो हेमाद्रिः करणाङ्ग-हार-वलनैः सार्धेन्दुर् आन्दोलितः
धत्ते ऽत्यद्भुत-विस्मयेन धरया धूतस्य कान्त-त्विषो लोलत्-कुन्तल-कुण्डलस्य शिरसः शोभां स वो धूर्जटिः ॥

4.24*(53)

कपाले गम्भीरः कुहरिणि जटा-सन्धिषु कृशः समुत्तालश् चूडाभुजग-फण-रत्न-व्यतिकरे
मृदुर् लेखाकोणे रय-वश-विलोलस्य शशिनः पुनीयाद् दीर्घं स्वो हर-शिरसि गङ्गा-कल-कलः ॥

4.25*(54)

शान्त्यै वो ऽस्तु कपाल-दाम जगतां पतुर् यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति पदशो नाति-प्रसिद्धाक्षरम्
विश्वं स्रक्ष्यति रक्षति क्षितिम् अपाम् ईशिष्यते शिष्यते नागौ रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति ॥

4.26*(55)

ज्वालेवोर्ध्व-विसर्पिणी परिणतस्यान्तस् तपस् तेजसो गङ्गा-तुङ्ग-तरङ्ग-सर्प-वसतिर् वल्मीक-लक्ष्मीर् इव
संध्येवार्द्र-मृणाल-कोमल-तनोर् इन्दोः सहस्थायिनी पायाद् वस् तरुणारुणांशु-कपिशा शम्भोर् जटा-संहतिः ॥

4.27*(56)

मौलौ वेगाद् उदञ्चत्य् अपि चरण-भर-न्यञ्चद्-उर्वीतलत्वाद् अक्षुण्ण-स्वर्ग-लोक-स्थिति-मुदित-सुर-श्रेष्ठ-गोष्ठी-स्तुताय
संत्रासान् निःसरन्त्याप्य् अविरत-विसरद्-दक्षिणार्धानु-बन्धाद् अत्यक्तायाद्रि-पुत्र्या तिर्पुरहर-जगत्-क्लेश-हन्त्रे नमस् ते ॥

4.28*(57)

पर्यङ्काश्लेष-बन्ध-द्विगुणित-भुजग-ग्रन्थि-संवीत-जानोर् अन्तः-प्राणावरोधाद् उपरत-सकल-ध्यान-रुद्धेन्द्रियस्य
आत्मन्य् आत्मानम् एव व्यपगत-करणं पश्यतस् तत्त्व-दृष्ट्या शम्भोर् वः पातु शून्य-क्षण-घटित-लय-ब्रह्म-लग्नः समाधिः ॥

4.29*(58)

पायाद् वारेन्दु-मौलेर् अनवरत-भुजावृत्ति-वातोर्मि-वेग भ्राम्यद्-रुद्रार्क-तारा-गण-रचित-महा-लात-चक्रस्य लास्यम्
न्यञ्चद्भूत्सर्पद्-अग्नि-स्खलद्-अखिल-गिरित्वङ्गद्-उत्ताल-मौलि स्फूर्जच्-चन्द्रांशु-निर्यन्-नयन-रुचिर-सज्जाह्नवी-निर्झरः वः ॥

4.30*(59)

मातर् जीव किम् एतद् अञ्जलि-पुटे तातेन गोपायितं वत्स स्वादु-फलं प्रयच्छति न मे गत्वा गृहाण स्वयम्
मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य संध्याञ्जलिं शम्भोर् भग्न-समाधि-रुद्ध-रभसो हास्योद्गमः पातु वः ॥

4.31*(60)

एवं स्थापय सुभ्रु बाहु-लतिकाम् एवं कुरु स्थानकं नात्युच्चैर् नम कुञ्चिताग्र-चरणं मां पश्य तावत् क्षणम्
गौरीं नर्तयतः स्व-वक्त्र-मुरजेनाम्भोधर-ध्वानिना शम्भोर् वः सुखयन्तु लम्भित-लयच्छेदाहतास् तालिकाः ॥

4.32*(61)

संव्यानांशुक-पल्लवेषु तरलं वेणी-गुणेषु स्थिरं मन्दं कञ्चुक-सन्धिषु स्तन-तटोत्सङ्गेषु दीप्तार्चिषम्
आलोक्य त्रिपुरावरोधन-वधू-वर्गस्य धूम-ध्वजं हस्त-स्रस्त-शरासनो विजयते देवो दयार्द्रेक्षणः ॥

4.33*(62)

जटा-गुल्मोत्सङ्गं प्रविशति शशी भस्म-गहनं फणीन्द्रो ऽपि स्कन्धाद् अवतरति लीलाञ्चित-फणः
वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं यदा शम्भुश् चुम्बत्य् अचल-दुहितुर् वक्त्र-कमलम् ॥

4.34*(63)

नाना-वेग-विनिःसृत-त्रिपथगा-वारि-प्रवाहाकुलः शीघ्र-भ्रान्ति-वशाल्-ललाट-नयनाकालातपाद् भीषणः
मुण्डाली-कुहर-प्रसर्पद्-अनिलास्फाल-प्रमुक्त-ध्वनिः प्रावृट्-काल इवोदितः शिव-शिरो-मेघः शिवायास्तु वः ॥

4.35*(64)

स पातु विश्वम् अद्यापि यस्य मूर्ध्नि नवः शशी
गौरी-मुख-तिरस्कार लज्जयेव न वर्धते ॥

4.36*(65)

दिग्-वासा इति सत्रपं मनसिज-द्वेषीति मुग्ध-स्मितं साश्चर्यं विषमेक्षणो ऽयम् इति च त्रस्तं कपालीति च
मौलि-स्वीकृत-जाह्नवीक इति च प्राप्ताभ्यसूयं हरः पार्वत्या सभयं भुजङ्ग-वलयीत्य् आलोकितः पातु वः ॥

4.37*(66)*

फणिनि शिखि-ग्रह-कुपिते शिखिनि च तद्-देह-वलयिताकुलिते ।
अवताद् वो हर-गुहयोर् उभय-परित्राण-कातरता ॥

4.38*(67)

सिन्दूर-श्रीर् ललाटे कनक-रस-मयः कर्ण-पाशावतंसो वक्त्रे ताम्बूल-रागः पृथु-कुच-कलसे कुङ्कुमस्यानुलेपः
दैत्याधीशाङ्गनानां जघन-परिसरे लाक्षिक-क्षौम-लक्ष्मीर् अश्रेयांसि क्षिणोतु त्रिपुर-हर-शरोद्गार-जन्मानलो वः ॥

4.39*(68)

पायाद् वः सुर-जाह्नवी-जल-रय-भ्राम्यज्-जटा-मण्डली वेग-व्याकुल-नागनायक-फणा-फूत्कार-वातोच्छलम्
सप्ताम्भोनिधि-जन्म-चण्ड-लहरी-मज्जन्-नभो-मण्डल त्रास-त्रस्त-सुराङ्गना-कलकल-व्रीडा-विलक्षो हरः ॥

4.40*(69)

पुरस्ताद् आनम्र-त्रिदशपति-गारुत्मत-मणेर् वतंस-त्रासार्तेर् अपसरति मौञ्जी-फणि-पतौ
पुरारिः संवृण्वन् विगलद्-उपसंव्यानम् अजिने पुनीताद् वः स्मेर-क्षिति-धर-सुतापाङ्ग-विषयः ॥

4.41*(70)

जीर्णे ऽप्य् उत्कट-काल-कूट-कवले दग्धे हठान् मन्मथे नीते भासुर-भाल-नेत्र-तनुतां कल्पान्त-दावानले
यः शक्त्या समलंकृतो ऽपि शशिनं श्री-शैलजां स्वर्धुनीं धत्ते कौतुक-राज-नीति-निपुणः पायात् स वः शङ्करः ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc