भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 49

49.1*(1638)

तुषार-शैलाञ्जन-शैल-कल्पयोर् अभेद-भाग् ईश्वर-विश्व-रूपयोः
शरत्-पयोद-स्थ-सितार्ध-तारका पथ-प्रतिस्पार्धि वपुर् धिनोतु वः ॥

49.2*(1639)

यद् बद्धोर्ध्व-जटं यद्-अस्थि-मुकुटं यच्-चन्द्र-मन्दारयोर् धत्ते धाम च दाम च स्मित-लसत्-कुन्देन्द्र-नील-श्रियोः
तत् खट्वाङ्ग-रथाङ्ग-सङ्ग-विकटं श्री-कण्ठ-वैकुण्ठयोर् वन्दे नन्दिमहोक्षतार्क्ष्य-परिषन्-नानाङ्कम् एकं वपुः ॥

49.3*(1640)

मा गर्वम् उद्वह कपोल-तले चकास्ति कान्त-स्व-हस्त-लिखिता मम मञ्जरीति
अन्यापि किं न सखि भाजनम् ईदृशीनां वैरी न चेद् भवति वेपथुर् अन्तरायः ॥

49.4*(1641)

चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालंव्यता प्राप्तासौ स्मर-मार्गण-व्रण-परित्राणौषधिः प्रेयसी
यस्याः श्वास-समीर-सौरभ-पतद्-भृङ्गावली-वारण क्रीडा-पाणि-विधूति-कङ्कण-रणत्कारो मुहुर् मूर्च्छति ॥

49.5*(1642)

कथाभिर् देशानां कथम् अपि च कालेन बहुना समायाते कान्ते सखि रजनिर् अर्धं गतवती
ततो यावल्-लीला-कलह-कुपितास्मि प्रियतमे सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ॥

49.6*(1643)*

वितत-करे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः ।
उचितानभिज्ञ-कैरव कैरव-हसितं न ते चरितम् ॥

49.7*(1644)*

पृथुकार्त-स्वर-पात्रं भूषित-निःशेष-परिजनं देव ।
विलसत्-करेणु-गहनं संप्रति समम् आवयोर् भवनम् ॥

49.8*(1645)*

गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा ।
पतति पुरुषस्य धैर्यं विषय-विषाघूर्णिते मनसि ॥

49.9*(1646)*

राजनि विद्वन्-मध्ये वर-सुरत-समागमे वर-स्त्रीणाम् ।
साध्वस-दूषित-हृदयो वाक्-पटुर् अपि कातरी-भवति ॥

49.10*(1647)

किंशुके किं शुकः कुर्यात् फलिते ऽपि बुभुक्षितः
अदातरि समृद्धे ऽपि किं कुर्युर् अनुजीविनः ॥

49.11*(1648)

अहम् इह स्थितवत्य् अपि तावकी त्वम् अपि तत्र वसन्न् अपि मामकः
हृदय-संगतम् एव सुसंगतं न तनु-संगतम् आर्य सुसंगतम् ॥

49.12*(1649)

द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम्
धन्या सा रजनी तद् एव सुदिनं धन्यः स एव क्षणो यत्राझात-चरश्-चिरान् नयनयोः सीमानम् एति प्रियः ॥

49.13*(1650)

तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत्
गाढं मेखलया बलान् नियमितः कर्णोत्पलैस् ताडितः क्षिप्तः पाद-तले तद्-एक-शरणो मन्ये चिरं स्थास्यसि ॥

49.14*(1651)

जाने सासहना स चाहम् अपकृन् मय्य् अङ्गण-स्थे पुनस् तस्याः संभविता स साध्वस-भरः को ऽपि प्रकोपापहः
येनोद्यत्-पुलकैः प्रकम्प-विकलैर् अङ्गैः क्व कर्णोत्पलं कुत्रात्मा क्व च मेखलेति गलति प्रायः स मान-ग्रहः ॥

49.15*(1652)

जातानन्तरम् एव यस्य मधुरां मूर्ति-श्रियं पश्यतः सद्यः पुत्र-महोत्सवागत-वधू-वर्गस्य शृङ्गारिणः
उन्नीयान्य-युवास्य-कालिम-करीं तारुण्य-रम्याम् इमां धन्यं जन्म सहामुनैक-समयं न प्राप्य तप्तं हृदा ॥

49.16*(1653)*

सीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति रोमाञ्चम् ।
नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः ॥

49.17*(1654)

स-व्रीडार्ध-निरीक्षणं यद् उभयोर् यद् दूतिका-प्रेषणं चाद्य-श्वो भविता समागम इति प्रीत्या प्रमोदश् वा यः
प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् एतत्-काम-फलं तद् एव सुरतं शेषः पशूनाम् इव ॥

49.18*(1655)

पश्योदञ्चद् अवाञ्चद् अञ्चित-वपुः पश्चार्ध-पूर्वार्ध-भाक् स्तब्धोत्तानित-पृष्ठ-निष्ठित-मनाग्-भुग्नाग्र-लाङ्गूल-भृत्
दंष्ट्रा-कोटि-विसंकटास्य-कुहरः कुर्वन् सटाम् उत्कटां उत्कर्णः कुरुते क्रमं करि-पतौ क्रूराकृतिः केशरी ॥

49.19*(1656)

एते मेकल-कन्यका-प्रणयिनः पाताल-मूल-स्पृशः संत्रासं जनयन्ति विन्ध्य-भिदुरा वारां प्रवाहाः पुरः
लीलोन्मूलित-नर्तित-प्रतिहत-व्यावर्तित-प्रेरित त्यक्त-स्वीकृत-निह्नुत-प्रचलित-प्रोद्धूत-तीर-द्रुमाः ॥

49.20*(1657)

वातैः शीकर-बन्धुभिः श्रुति-सुखैर् हंसावली-निस्वनैर् प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा परां निर्वृतिम्
पश्चात् क्षीण-धनां बहिर् निज-दशां दृष्ट्वा मृणाल-च्छलाद् अर्थिभ्यः प्रददौ नवेन्दु-विशदान्य् अस्थीनि पद्माकरः ॥

49.21*(1658)

विद्यते स न हि कश्चिद् उपायः सर्व-लोक-परितोष-करो यः
सर्वथा स्वहितम् आचरणीयं किं करिष्यति जनो बहु-जल्पः ॥

49.22*(1659)

चापस्यैव परं कोटि विभवत्वं विराजते
यस्माल् लभन्ते लक्षाणि निर्गुणा अपि मार्गणाः ॥

49.23*(1660)*

कृत्वापि कोष-पानं भ्रमर-युवा पुरत एव कमलिन्याः ।
अभिलषति बकुल-कलिकां मधुलिहि मलिने कुतः सत्यम् ॥

49.24*(1661)

ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते रात्राव् अत्र विवाह-मण्डप-तले पान्थः प्रसुप्तो युवा
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रिया यत्-कृतं तेनाद्यापि करङ्क-दण्ड-पतनाशङ्की जनस् तिष्ठति ॥

49.25*(1662)*

आतपे धृतिमता सह वध्वा यामिनी-विरहिणा विहगेन ।
सेहिरे न किरणा हिम-रश्मेर् दुःखिते मनसि सर्वम् असह्यम् ॥

49.26*(1663)

उन्मुद्री-कृत-विश्व-विस्मय-भरैस् तत् तन् महार्घैर् गुणैर् दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्ति-गङ्गा यदि
विश्व-श्वित्र-मतङ्गिनी-घन-रस-स्यन्दिन्य् अमन्द-ध्वनिर् गङ्गा-सागर-संगमः पुनर् इवापूर्वः समुन्मीलति ॥

49.27*(1664)

एतन् मन्द-विपक्व-तिन्दुक-फल-श्यामोदरापाण्डुर प्रान्तं हन्त पुलिन्द-सुन्दर-कर-स्पर्श-क्षमं लक्ष्यते
तत्-पल्ली-पति-पुत्रि कुञ्जर-कुलं जीवाभयाभ्यर्थना दीनं त्वाम् अनुनाथति स्तन-युगं पत्रावृतं मा कृथाः ॥

49.28*(1665)

ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्म-विषयाम्
सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं प्रिया प्रायेणास्ते हृदय-निहितातङ्क-विधुरा ॥

49.29*(1666)

गुणवद् अगुणवद् वा कुर्वता कर्म-जातं परिणतिर् अवधार्या यत्नतः पण्डितेन
अतिरभस-कृतानां कर्मणाम् आ विपत्तेर् भवति हृदय-दाही शल्य-तुल्यो विपाकः ॥

49.30*(1667)

वर्षाः कर्दम-हेतवः प्रतिदिनं तापस्य मूलं शरद् हेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना
चित्तोन्माद-करो वसन्त-समयो ग्रीष्मो ऽपि चण्डातपः कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता ॥

49.31*(1668)

दृष्टि-रोध-करं यूनां यौवन-प्रभवं तमः
अरत्नालोक-संहार्यम् अवार्यं सूर्य-रश्मिभिः ॥

49.32*(1669)

आपात-मात्र-रसिके सरसीरुहस्य किं बीजम् अर्पयितुम् इच्छसि वापिकायाम्
कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ॥

49.33*(1670)

अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः
दग्ध-मन्दिर-सारे ऽपि कस्य वह्नाव् अनादरः ॥

49.34*(1671)

अयं काणः शुक्रो विषम-चरणः सूर्य-तनयः क्षताङ्गो ऽयं राहुर् विकल-महिमा शीत-किरणः
अजानानस् तेषाम् अपि नियत-कर्म स्वक-फलं ग्रह-ग्राम-ग्रस्ता वयम् इति जनो ऽयं प्रलपति ॥

49.35*(1672)

कनक-भूषण-संग्रहणोचितो यदि मणिस् त्रपुणि प्रतिबध्यते
न स विरौति न चापि न शोभते भवति योजयितुर् वचनीयता ॥

49.36*(1673)

नमस्यामो देवान् ननु हत-विधेस् ते ऽपि वशगा विधिर् वन्द्यः सो ऽपि प्रतिनियत-कर्मैक-फलदः
फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना नमः सत्-कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ॥

49.37*(1674)

यदा विगृह्णाति तदा हतं यशः करोति मैत्रीम् अथ दूषिता गुणाः
स्थितः समीक्ष्योभयता परीक्षकः करोत्य् अवज्ञोपहतं पृथग् जनम् ॥

49.38*(1675)

तृष्णे देवि नमस् तुभ्यं कृत-कृत्यासि साम्प्रतम्
अनन्त-नाम यद् रूपं तत् त्वया वामनी-कृतम् ॥

49.39*(1676)

पुरा याताः केचित् तद् अनु चलिताः केचिद् अपरे विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः
मनः-खेदस् त्व् एवं कथम् अकृत-संकेत-विधयो महा-मार्गे ऽस्मिन् नो नयन-पथम् एष्यन्ति सुहृदः ॥

49.40*(1677)

सन्-मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव
भ्रू-चापाकृष्ट-मुक्ताः श्रवण-पथ-गता नील-पक्ष्माण एते यावल् लीलावतीनां न हृदि धृति-मुषो दृष्टि-बाणाः पतन्ति ॥

49.41*(1678)

अध्वन्य् अस्य वधूर् वियोग-विधुरा भर्तुः स्मरन्ती यदि प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम्
इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि प्रोद्घुष्टं पर-पुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः ॥

49.42*(1679)

अद्राक्षीद् अपनिद्र-कोरक-भर-व्यानम्र-वल्ली-स्खलद् धूली-दुर्दिन-सूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः
आस्थानी-भवनं वसन्त-नृपतेर् देवस्य चेतो-भुवः सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपा-मण्डपम् ॥

49.43*(1680)*

मदन-ज्वरम् अपनेतुं कुरु संप्रति सततम् औषध-द्वितयम् ।
बाला-धर-मधु-पानं कुच-पीडन-मुष्टि-योगं च ॥

49.44*(1681)

उपचार-विधिज्ञो ऽपि निर्धनः किं करिष्यति
निरङ्कुश इवारूढो मत्त-द्विरद-मूर्धनि ॥

49.45*(1682)

कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते
शक्यं दर्शयितुं न पूग-फलवत् कृत्वा द्विधेदं वपुर् यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ॥

49.46*(1683)

खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् भृशं शस्योत्सादैः सकल-नगराख्यात-पटिमा
युगं नैव स्कन्धे वहति नितरां याति धरणीं वरं शून्या शाला न च पुनर् अयं दुष्ट-वृषभः ॥

49.47*(1684)

पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया
शोक-क्षोभे च हृदयं प्रलापैर् अवधार्यते ॥

49.48*(1685)

धिक् चन्दनं कैव सुधा वराकी किम् इन्दुना हारितम् अब्ज-कन्दैः
न वेद्मि तद् वस्तु यद् अत्र लोके सुताङ्ग-धूलेर् उपमान-पात्रम् ॥

49.49*(1686)

यौवनं चलम् अपायि शरीरं गत्वरं वसु विमृश्य विशिष्टः
नान्य-जन्म-गत-तिक्त-विपाकं दृष्ट-सौख्यम् अपि कर्म विधत्ते ॥

49.50*(1687)

अधो ऽधः पश्यतः कस्य महिमा नोपजायते
उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ॥

49.51*(1688)*

तिमिरम् इदम् इन्दु-बिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् अम्बुरुह-कोषात् ।
निन्दितम् अभिजात-मुखाद् यद् अलीकं वचनम् उच्चरति ॥

49.52*(1689)

यो नीवार-तृणाग्र-मुष्टि-कवलैः संवर्धितः शैशवे पीतं येन सरोजिनी-दल-पुटे होमावशिष्टं पयः
तद् दानासव-पान-मत्त-मधुप व्यालोल-गण्डं गजं सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः ॥

49.53*(1690)

पाणि-प्रेङ्खणतो विशीर्ण-शिरसः स्वेदावरुग्ण-श्रियस् ता कृत्याकृति-लेशतो मनसि नः किंचित् प्रतीतं गताः
वैचित्र्यापुनर् उक्त-लाञ्छन-भृतः खण्डेन वाक्येन वा व्याक्षेपं कथयन्ति पक्ष्मल-दृशो लेखाक्षर-श्रेणयः ॥

49.54*(1691)

ताडीदलं यद् अकठोरम् इदं यद् अत्र मुद्रा स्तनाङ्क-घन-चन्दन-पङ्क-मूर्तिः
यद् बन्धनं बिसलतातनुतन्तवश् च कस्याश्चिद् एष गलितस् तद् अनङ्ग-लेखः ॥

49.55*(1692)*

मृणालम् एतद् वलयी-कृतं तया तदीय एवैष वतंस-पल्लवः ।
इदं च तस्याः कदली-दलांशुकं यद् अत्र संक्रान्त इव स्मर-ज्वरः ॥

49.56*(1693)

मधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी स्फुरत्-कामावेशे वयसि वयम् अप्य् आहित-भराः
व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा स्फुटस् तावज् जातः पिशुन-वचसाम् एष विषयः ॥

49.57*(1694)

मुनीन्दोर् वाग्-बिन्दुः प्रवितत-सुधा-पूर-परमो न चेच् चिन्ता-पात्रे मिलति कथम् अप्य् अस्य मनसः
कुतः प्राप्य प्रीतिं तुहिन-गिरि-गर्भ-स्थिति-जुषो ऽप्य् असह्यः सह्येत प्रिय-विरह-दाह-व्यतिकरः ॥

49.58*(1695)

सर्वस्यैव हि लोकस्य बहुमानं यद् आत्मनि
विष्णोर् माया-सहस्रस्य इयम् एका गरीयसी ॥

49.59*(1696)

कृशः काणः खञ्जः श्रवण-विकलः पुच्छ-रहितः क्षुधा-क्षामो जीर्णः पिठरक-कपालार्पित-गलः
व्रणैः पूय-क्लिन्नैः क्रिमि-कुल-चितैर् आचित-तनुः शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः ॥

49.60*(1697)

तरन्तो दृश्यन्ते बहव इह गम्भीर-सरसि स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुक-शतम्
प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् चिरं रुद्ध-श्वासः स खलु पुनर् एतेषु विरलः ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc