भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 48

48.1*(1594)

यद् एतत् स्वच्छन्दं विरहणम् अकार्पण्यम् अशनं सहार्यैः संवासः श्रुतम् उपशमैक-श्रम-फलम्
मनो मन्द-स्पन्दं विहरति चिरायाभिविमृशन् न जाने कस्यैषा परिणतिर् उदारस्य तपसः ॥

48.2*(1595)

हरिण-चरण-क्षुण्णोपान्ताः स-शाद्वल-निर्झराः कुसुम-शबलैर् विष्वग्-वातैस् तरङ्गित-पादपाः
मुदित-विहग-श्रेणी-चित्र-ध्वनि-प्रतिनादिता मनसि न मुदं कस्या दध्युः शिवा वन-भूमयः ॥

48.3*(1596)

पूरयित्वार्थिनाम् आशां प्रियं कृत्वा द्विषाम् अपि
पारं गत्वा श्रुतौघस्य धन्या वनम् उपासते ॥

48.4*(1597)

ते तीक्ष्ण-दुर्जन-निकार-शरैर् न भिन्ना धीरास् त एव शम-सौख्य-भुजस् त एव
सीमन्तिनी-विष-लता-गहनं व्युदस्य ये ऽवस्थिताः शम-फलेषु तपो-वनेषु ॥

48.5*(1598)

वासो वल्कलमास्तरः किसलयान्योकस् तरूणां तलं मूलानि क्षतये क्षुधां गिरि-नदी-तोयं तृषा-शान्तये
क्रीडा मुग्ध-मृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने ऽपि धने तथापि कृपणा याचन्त इत्य् अद्भुतम् ॥

48.6*(1599)

गतः कालो यत्र प्रिय सखि मयि प्रेम-कुटिलः कटाक्षः कालिन्दी-लघु-लहरि-वृत्तिः प्रभवति
इदानीम् अस्माकं जरठ-कमठी-पृष्ठ-कठिना मनो-वृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि ॥

48.7*(1600)*

मातर् जरे मरणम् अन्तिकम् आनयन्त्याप्य् अन्तस् त्वया वयम् अमी परितोषिताः स्मः ।
नाना-सुख-व्यसन-भङ्गुर-पर्व-पूर्वं धिग् यौवनं यद् अपनीय तवावतारः ॥

48.8*(1601)

एकं वा कुपित-प्रिया-प्रणयिनीं कृत्वा मनो-निर्वृतिं तिष्ठामो निज-चारु-पीवर-कुच-क्रीडा-रसास्वादने
अन्यद् वा सुर-सिन्धु-सैकत-तटी-दर्भाष्टक-स्रस्तर स्थाने ब्रह्म-पदं समाहित-धियो ध्यायन्त एवास्महे ॥

48.9*(1602)

यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा नैषां गर्व-गिरः शृणोषि न पुनः प्रत्याशया धावसि
काले बाल-तृणानि खादसि सुखं निद्रासि निद्रागमे तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥

48.10*(1603)

क्वचिद् वीणा-गोष्ठी क्वचिद् अमृत-कीर्णाः कवि-गिरः क्वचिद् व्याधि-क्लेशः क्वचिद् अपि वियोगश् च सुहृदाम्
इति ध्यात्वा हृष्यन् क्षणम् अथ विघूर्णन् क्षणम् अहो न जाने संसारः किम् अमृत-मयः किं विषमयः ॥

48.11*(1604)

आत्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्त्य् अहो दुष्करं यन् मुञ्चन्त्य् उपभोग-भाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः
न प्राप्तानि पुरा न संप्रति न च प्राप्तौ दृढ-प्रत्ययोअः वाञ्छा-मात्र-परिग्रहाण्य् अपि वयं त्यक्तुं न तानि क्षमाः ॥

48.12*(1605)

अग्रे गीतं सरस-कवयः पार्श्वयोर् दाक्षिणात्याः पश्चाल् लीलावलय-रणितं चामर-ग्राहिणीनाम्
यद्य् अस्त्य् एवं कुरु भव-रसे लम्पटत्वं तदानीं नो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥

48.13*(1606)

आस्तां स-कण्टकम् इदं वसुधाधिपत्यं त्रैलोक्य-राज्यम् अपि देव तृष्णाय मन्ये
निःशङ्क-सुप्त-हरिणी-कुल-संकुलासु चेतः परं वलति शैल-वन-स्थलीषु ॥

48.14*(1607)

ददाति तावद् अमी विषयाः सुखं स्फुरति यावद् इयं हृदि मूढता
मनसि तत्त्व-विदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ॥

48.15*(1608)

सत्यं मनोहरा रामाः सत्यं रम्या विभूतयः
किं तु मत्ताङ्गनापाङ्ग भङ्गि-लोकं हि जीवितम् ॥

48.16*(1609)

धिग् धिक् तान् कृमि-निर्विशेष-वपुषः स्फूर्जन्-महा-सिद्धयो निष्कन्दी-कृत-शान्ति ये ऽपि च तपः-कारा गृहेष्व् आसने
तं विद्वांसम् इह स्तुमः कर-पुटीभिक्षाल्प-शाके ऽपि वा मुग्धावक्त्र-मृणालिनी-मधुनि वा यस्याविशेषो रसः ॥

48.17*(1610)

बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं प्रायो बन्धुभिर् अध्वनीव पथिकैर् सङ्गो वियोगावहः
हातव्यो ऽयम् असंस्तवाय विसरः संसार इत्य् आदिकं सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ॥

48.18*(1611)

यद् आसीद् अज्ञानं स्मर-तिमिर-संस्कार-जनितं तदा दृष्टं नारी-मयम् इदम् अशेषं जगद् अपि
इदानीम् अस्माकं पटुतर-विवेकाञ्जन-जुषां समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ॥

48.19*(1612)

मातर् लक्ष्मि भजस्व कञ्चिद् अपरं मत्-काङ्क्षिणी मा स्म भूर् भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि
सद्यः-स्यूत-पलाश-पत्र-पुटिका-पात्री-पवित्री-कृतैः भिक्षा-सक्तुभिर् एव संप्रति वयं वृत्तिं समीहामहे ॥

48.20*(1613)

धर्मस्योत्सव-वैजयन्ति-मुकुट-स्रग्-वेणि-गौरीपतेस् त्वां रत्नाकर-पत्नि जह्नु-तनये भागीरथि प्रार्थये
त्वत्तोयान्त-शिला-निषण्ण-वपुषस् त्वद्-वीचिभिः प्रेङ्खतस् त्वन्-नाम स्मरतस् तद्-अर्पित-दृशः प्राणाः प्रयास्यन्ति मे ॥

48.21*(1614)

तडिन्-मालालोक्लं प्रतिविरति-दत्तान्ध-तमसं भवत्-सौख्यं हित्वा शम-सुखम् उपादेयम् अनघम्
इति व्यक्तोद्गारं चटुल-वचसः शून्य-मनसो वयं वीत-व्रीडाः शुक इव पठामः परम् अमी ॥

48.22*(1615)

विषय-सरितस् तीर्णाः कामं रुजो ऽप्य् अवधीरिता विषय-विरह-ग्लानिः शान्ता गता मलिनाथ धीः
इति चिर-सुख-प्राप्तः किंचिन्-निमीलित-लोचनो व्रजति नितरां तुष्टिं पुष्टः श्मशान-गतः शवः ॥

48.23*(1616)

कामं शीर्ण-पलाश-संहति-कृतां कन्थां वसानो वने कुर्याम् अम्बुभिर् अप्य् अयाचित-सुखैः प्राणावबन्ध-स्थितिम्
साङ्ग-ग्लानि स-वेपितं स-चकितं सान्तर्-निदाघ-ज्वरं वक्तुं न त्व् अहम् उत्सहेय कृपणं देहीत्य् अवद्यं वचः ॥

48.24*(1617)

अवश्यं यातारश् चिरतरम् उषित्वापि विषया वियोगे को भेदस् त्यजति न जनो यत् स्वयम् अमून्
व्रजन्तः स्वातन्त्र्याद् अतुल-परितापाय मनसः स्वयं त्यक्ता ह्य् एते शम-सुखम् अनन्तं विदधति ॥

48.25*(1618)

भाग्यं नः क्व नु तादृग् अल्प-तपसां येनाटवी-मण्डनाः स्यामः क्षोणिरुहो दहत्य् अविरतं यान् एव दावानलः
येषां धूम-समूह-बद्ध-वपुषः सिन्धोर् अमी बन्धवो निर्व्याजं परिपालयन्ति जगतीर् अम्भोभिर् अम्भोमुचः ॥

48.26*(1619)

एतत् तद् वक्त्रम् अत्र क्व तद् अधर-मधु क्वायातास् ते कटाक्षाः क्वालापाः कोमलास् ते क्व स मदन-धनुर्-भङ्गुरो भ्रू-विलासः
इत्थं खट्वाङ्ग-कोटौ प्रकटित-दशनं मञ्जु-गुञ्जत्-समीरं रागान्धानाम् इवोच्चैर् उपहसितम् अहो मोह-जालं कपालम् ॥

48.27*(1620)

इयं बाला मां प्रत्य् अनवरतम् इन्दीवर-दल प्रभा-चौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया
गतो मोहो ऽस्माकं स्मर-शबर-बाण-व्यतिकर ज्वर-ज्वाला शान्ता तद् अपि न वराकी विरमति ॥

48.28*(1621)

शिशुत्वं तारुण्यं तद्-अनु च दधानाः परिणतिं गताः पांशु-क्रीडां विषय-परिपाटीम् उपशमम्
लसन्तो ऽङ्के मातुः कुवलय-दृशां पुण्य-सरितां पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ॥

48.29*(1622)

वहति निकटे काल-स्रोतः समस्त-भयावहं दिवस-रजनी-कुल-च्छेदैः पतद्भिर् अनारतम्
इह हि पततां नास्त्य् आलम्बो न वापि निवर्तनं तद् अपि महतां को ऽयं मोहो यद् एवम् अनाकुलाः ॥

48.30*(1623)*

भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धु-वर्गो मे ।
इति मे मे कुर्वन्तं पशुम् इव बद्ध्वा नयति कालः ॥

48.31*(1624)

दिशो वासः पात्रं कर-कुहरम् एणाः प्रणयिनः समाधानं निद्रा शयनम् अवनी मूलम् अशनम्
कदैतत् संपूर्णं मम हृदय-वृत्तेर् अभिमतं भविष्यत्य् अत्युग्रं परम-परितोषोपचितये ॥

48.32*(1625)

शरद्-अम्बुधर-च्छाया गत्वर्यो यौवन-श्रियः
आपात-रम्या विषयाः पर्यन्त-परितापिनः ॥

48.33*(1626)

कुरङ्गाः कल्याणं प्रति-विटपम् आरोग्यम् अटवि स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रम् उपलाः
निशान्ताद् अस्वन्तात् कथम् अपि विनिष्क्रान्त-मधुना मनो ऽस्माकं दीर्घाम् अभिलषति युष्मत्-परिचितिम् ॥

48.34*(1627)

मन्-निन्दया यदि जनः परितोषम् एति नन्व् अप्रयत्न-जनितो ऽयम् अनुग्रहो मे
श्रेयार्थिनो हि पुरुषाः पर-तुष्टि-हेतोर् दुःखार्जितान्य् अपि धनानि परित्यजन्ति ॥

48.35*(1628)

कृमि-कुल-चितं लाला-क्लिन्नं विगन्धि जुगुप्सितं निरुपम-रस-प्रीत्या खादन् नरास्थि निरामिषम्
सुर-पतिम् अपि श्वा पार्श्व-स्थं स-शङ्कितम् ईक्षते गणयति न हि क्षुद्रो लोकः परिग्रह-फल्गुताम् ॥

48.36*(1629)

विवेकः किं सो ऽपि स्वरस-वलिता यत्र न कृपा स किं योगो यस्मिन् भवति न परानुग्रह-रसः
स किं धर्मो यत्र स्फुरति न पर-द्रोह-विरतिः श्रुतं तत् किं साक्षाद् उपशम-पदं यन् न नयति ॥

48.37*(1630)

गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्मासनस्य ब्रह्म-ध्यानाभ्यसन-विधिना योग-निद्रां गतस्य
किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः संप्राप्स्यन्ते जरठ-हरिणाः शृङ्ग-कण्डू-विनोदम् ॥

48.38*(1631)

प्रेम्णा पुरा परिगृहितम् इदं कुटुम्बं चेल् लालितं तद्-अनुपालितम् अद्य यावन्
संप्रत्य् अपिस्तिमित-वस्त्रम् इवाङ्ग-लग्नम् एतज् जिहासुर् अपि हातुम् अनीश्वरो ऽस्मि ॥

48.39*(1632)

क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न संतोषतः सोढा दुःसह-शीत-वात-तपन-क्लेशा न तप्तं तपः
ध्यातं वित्तम् अहर्निशं न च पुनस् तत्त्वान्तरं शाश्वतं तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ॥

48.40*(1633)

भिक्षाशनं भवनम् आयतनैक-देशः शय्या भुवः परिजनो निज-देह-भारः
वासश् च कीर्ण-पट-खण्ड-निबद्ध-कन्था हा हा तथापि विषयान् न जहाति चेतः ॥

48.41*(1634)

रेतः-शोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् मृत्योर् आमिषम् आस्पदं गुरु-शुचां रोगस्य विश्राम-भूः
जानन्न् अप्य् अवशो विवेक-विरहान् मज्जन्न् अविद्याम्बुधौ शृङ्गारीयति पुत्र-काम्यति बत क्षेत्रीयति स्त्रीयति ॥

48.42*(1635)

यदा पूर्वं नासीद् उपरि च यदा नैव भविता तदा मध्यावस्था-तनु-परिचयो भूत-निचयः
अतः संयोगे ऽस्मिन् परवति वियोगे च सहजे किम् आधारः प्रेमा किम् अधिकरणाः सन्तु च शुचः ॥

48.43*(1636)

गोमायवः शकुनयश् च शुनां गणो ऽयं लुम्पन्ति कीट-कृमयः परितस् तथैव
स्वां संपदं सकल-सत्त्व-कृतोपकारान् नो दृष्टवान् यद् असि तच् छव वञ्चितो ऽसि ॥

48.44*(1637)

धूर्तैर् इन्द्रिय-नामभिः प्रणयिताम् आपादयद्भिः स्वयं संभोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः
तैः शेषे कृत-कृत्यताम् उपगतैर् औदास्यम् आलम्बितं संप्रत्य् एष विधेर् नियोग-वशगः कर्मान्तरैर् बध्यते ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc