सुभाषितरत्नकोश · अध्याय 50
सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते धृतिर् दाक्षी-पुत्रे हरति हरिचन्द्रो ऽपि हृदयम्
विशुद्धोक्तिः शूरः प्रकृति-सुभगा भाव-विगिरस् तथाप्य् अन्तर् मोदं कम् अपि भवभूतिर् वितनुते ॥
तातः सृष्टिम् अपूर्व-वस्तु-विषयाम् एको ऽत्र निर्व्यूढवान् निष्णातः कवि-कुञ्जरेन्द्र-चरिते मार्गे गिरां वागुरः
रेवा विन्ध्य-पुलीन्द्र-पामर-वधू-झञ्झानिल-प्रेषित प्राये ऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥
पातु कर्ण-रसायनं रचयितुं वाचः सतां संमतां व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रस-स्रोतसः
भोक्तुं स्वादु फलं च जीवित-तरोर् यद्य् अस्ति ते कौतुकं तद् भ्रातः शृणु राजशेखर-कवेः सूक्तीः सुधा-स्यन्दनीः ॥
देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं जानीते नितराम् असौ गुरुकुल-क्लिष्टो मुरारिः कविः
आब्धर् लङ्घित एव वानर-भटैः किं त्व् अस्य गम्भीरताम् आपाताल-विलग्न-पीवर-वपुर् जानाति मन्थाचलः ॥
तत् तादृग्-उज्ज्वल-ककुत्स्थ-कुल-प्रशस्ति सौरभ्य-निर्भर-गभीर-मनो-हराणि
वाल्मीकि-वाग्-अमृत-कूप-निपात-लक्ष्मीम् एतानि बिभ्रति मुरारि-कवेर् वचांसि ॥
धिग् धिक् तान् समयान् परिश्रम-रुजो धिक् ता गिरो निष्फला यत्रामूर् निभवन्ति वल्लण-गुणोत्खातामृत-प्रीतयः
रोम्णां नृत्य-भुवो विलोचन-पयः-पूराब्धि-चन्द्रोदयाः साहित्य-प्रतिगण्ड-गर्व-गलनं ग्लानि-क्रिया-हेतवः ॥
उत्तानोल्लपित-प्रतारित-नव-श्रोत्रैः कथं भाव्यतां वाक्-प्रत्यंश-निवेशिताखिल-जगत्-तत्त्वा कवीनां कला
रथ्या-गर्त-विगाहनाद्भुत-कृतैर् गाह्यः क्व रत्नाकरो यस्यान्तः-शफरावमानन-तटी-मज्जद्-गिरीन्द्राः श्रियः ॥
अनुद्घुष्टः शब्दैर् अथ च घटनातः स्फुट-रसः पदानाम् अर्थात्मा रमयति न तूत्तानित-रसः
यथा किंचित् किंचित् पवन-चल-चीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रित-तनुः ॥
अस्तंगत-भार-विरवि काल-वशात् कालि-दास-विधु-विधुरम् ।
निर्वाण-बाण-दीपं जगद् इदम् अद्योति रत्नेन ॥
जानकी-हरणं कर्तुं रघुवंशे पुरः-स्थिते
कविः कुमार-दासो वा रावणो वा यदि क्षमः ॥
शब्दास् ते न तथा-विधाः पथि धियां लोकस्य ये नासते नार्थात्मापि स को ऽपि धावति गिरां भूपाल-मार्गे न यः
अस्त्य् अन्यस् तु स संनिवेश-शिशिरः शब्दार्थयोः संगमो येनामी स्व-वशेन दग्ध-कवयो मथ्नन्ति चेतांसि नः ॥
जयति कवि-कण्ठ-हरः श्री-रघु-कारः प्रमेय-केदारे ।
यन्-मति-दात्र-विलूने शिलोञ्छम् इव कुर्वते कवयः ॥
कवीनाम् अगलद् दर्पो नूनं वासव-दत्तया
शक्त्येव पाण्डु-पुत्राणां गतया कर्ण-गोचरम् ॥
कीर्तिः प्रवर-सेनस्य प्रयाता कुसुमोज्ज्वला
समुद्रस्य परं पारं कपिसेनेव सेतुना ॥
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे
उत्पादका न बहवः कवयः शरभा इव ॥
कवयः कालि-दासाद्याः कवयो वयम् अप्य् अमी
पर्वते परमाणौ च वस्तुत्वम् उभयोर् अपि ॥
सौजन्याङ्कुर-कन्द-सुन्दर-कथा-सर्वस्व सीमन्तिनी चित्ताकर्षण-मन्त्र-मन्मथ-सरित्-कल्लोल-वाग्-वल्लभ
सौभाग्यैक-निवेश पेशल-गिराम् आधार धैर्याम्बुधे धर्माद्रि-द्रुम राजशेखर-सखे दृष्टो ऽसि यामो वयम् ॥
यद् एतद् वाग्-अर्थ-व्यतिकर-मयं किंचिद् अमृतं प्रमोद-प्रस्यन्दैः सहृदय-मनांसि स्नपयति
इदं काव्यं तत्त्वं स्फुरति तु यद् अत्राणु परमं तद् अन्तर्-बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥
सुवर्णालंकारा प्रकटितरसाश्लेष-निपुणा स्फुरद्-वैदर्भोक्तिर् ललित-पद-बन्ध-क्रम-गतिः
लसद् भूयो भावा मृदुर् अपि विमर्दोचित-तनुः कवीन्द्र त्वद्-वाणी हरति हरिणाक्षीव हृदयम् ॥
अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् नाना-चाटु-मुखी स दुर्लडितवान् खेलाभिर् उच्छृङ्खलः
जिह्वा-दुर्व्यसनैर् उपद्रव-रुजः कुर्वन्ति ये दुःसुताः तान् दृष्ट्वार्थम् इतस् ततो निखनति स्वं निःस्वम् आतन्वती ॥
अविदित-गुणापि सत्-कवि-भणितिः कर्णेषु वमति मधु-धाराम् ।
अनधिगत-परिमलापि हि हरति दृशं मालती-माला ॥
बभूव वल्मीक-भवः पुरा कविस् ततः प्रपेदे भुवि भर्तृ-मेठताम्
पुनः स्थितो यो भव-भूति-रेखया स वर्तते संप्रति राजशेखरः ॥
उच्छ्वासो ऽपि न निर्याति बाणे हृदय-वर्तिनि
किं पुनर् विकटाटोप पद-बन्धा सरस्वती ॥
यल् लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति ।
तद् अपि कवेः किम् उ काव्यं काण्डो वा धन्विनां किम् असौ ॥
कथंचित् कालिदासस्य कालेन बहुना मया
अवगाढेव गम्भीर मसृणौघा सरस्वती ॥
कश्चिद् वाचं रचयितुम् अलं श्रोतुम् एवापरस् तां कल्याणी ते मतुर् उभयतो विस्मयं नस् तनोति
न ह्य् एकस्मिन् अतिशयवतां संनिपातो गुणानां एकः सूते कनकम् उपलस् तत्-परीक्षा-क्षमो ऽन्यः ॥
प्रयोग-व्युत्पत्तौ प्रतिपद-विशेषार्थ-कथने प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थ-घटने
अगम्यायाम् अन्यैर् दिशि परिणतेश् चार्थ-वचसोर् मतं चेद् अस्माकं कविर् अमर-सिंहो विजयते ॥
इयं गौर् उद्दामा तव निविड-बन्धापि हि कथं न वैदर्भाद् अन्यत् चरति सुलभत्वे ऽपि हि कथम्
अवन्ध्या च ख्याता भुवि कथम् अगम्या कवि-वृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥
शैलैर् बन्धयति स्म वानर-हृतैर् वाल्मीकिर् अम्भोनिधिं व्यासः पार्थ-शरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते
वाग् अर्थौ च तुलाधृताव् इव तथाप्य् अस्मन्-निबन्धानयं लोको दूषयितुं प्रसारित-मुखस् तुभ्यं प्रतिष्ठे नमः ॥
हा कष्टं कवि-चक्र-मौलि-मणिना दक्षेण यन् नेक्षितः श्रीमान् उत्पल-राज-देव-नृपतिर् विद्या-वधू-वल्लभः
तस्याप्य् अर्थि-जनैकरोहण-गिरेर् लक्ष्मीर् वृथैवाभवद् दक्षस्यास्य न येन सुन्दर-गिरः कर्णावतंसी-कृताः ॥
यस्य यथा विज्ञानं तादृक् तस्येह हृदय-सद्-भावः ।
उन्मीलति कवि-पुङ्ग-वचने च पुराण-पुरुषे च ॥
वहति न पुरः कश्चित् पश्चान् न को ऽप्य् अनुयाति मां न च नव-पद-क्षुण्णो मार्गः कथं न्व् अहम् एककः
भवति विदितं पूर्व-व्यूढो ऽधुना खिलतां गतः स खलु बहुलो वामः पन्था मया स्फुटम् उर्जितः ॥
विद्या-वधूम् अपरिणीय कुलानुरूपां श्लाघ्यां सुताम् इव ततः श्रियम् अप्रसूय
तां चार्थिने प्रणय-पेशलम् अप्रदाय धिक् तं मनुष्य-पदम् आत्मनि यः प्रयुङ्क्ते ॥
ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां जानन्ति ते किम् अपि तान् प्रति नैष यत्नः
उत्पत्स्यते तु मम को ऽपि समान-धर्मा कालो ह्य् अयं निरवधिर् विपुला च लक्ष्मीः ॥
निधानं विद्यानां कुल-गृहम् अपारस्य यशसः शुचि क्ष्मा-पालानां सुचरित-कथा-दर्पण-तलम्
कला-संपद्-रत्न-व्रतति-विटपानां सुर-तरुः प्रकृत्या गम्भीरः कविर् इह स-शब्दो विजयते ॥
उन्नीतो भव-भूतिना प्रतिपदं बाणे गते यः पुरा यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः
यः श्री-वाक्पतिराज-पाद-रजसां संपर्क-पूतश् चिरं दिष्ट्या श्लाघ्य-गुणस्य कस्यचिद् असौ मार्गः समुन्मीलति ॥
परमाद्भुत-रस-धामन्य् उत्सलिते जगति वल्लनाम्भोधौ ।
विश्रान्तो रस-भागस् तिमितयति यथा गभीरिमा को ऽपि ॥
आढ्य-राज-कृतारम्भैर् हृदयस्थैः स्मृतैर् अपि
जिह्वान्तः कृष्यमाणेव न कवित्वे प्रगल्भते ॥
वाल्मीकेर् मुकुलीकृतैव कविता कः स्तोतुम् अस्त्य् आदरो वैयासानि वचांसि भारवि-गिरां भूतैव निर्भर्त्सना
काव्यं चेद् अवतंस-भूपम् अभजद् धर्मायणं कर्णयोस् तातः किं बहु वर्ण्यते स भगवान् वैदर्भ-गर्भेश्वरः ॥
वामाङ्गं पृथुल-स्तन-स्तवकितं यावद् भवानी-पतेर् लक्ष्मी-कण्ठ-हठ-ग्रह-व्यसनिता यावच् च दोष्णां हरेः
यावच् च प्रति-साम-सारण-विधि-व्यग्रौ करौ ब्रह्मणः स्थेयासुः श्रुति-शुक्ति-लेह्य-मधवस् तावत् सतां सूक्तयः ॥
कीर्त्या समं त्रिदिव-वासम् उपस्थितानां मर्त्यावतीर्ण-मरुताम् अपि सत्-कवीनाम्
जग्रन्थ दुर्लभ-सुभाषित-रत्न-कोषं विद्याकरः सुकृति-कण्ठ-विभूषणाय ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0