सुभाषितरत्नकोश · अध्याय 47
गुञ्जत्-कुञ्ज-कुटीर-कौशिक-घटा-घूत्कारवत्-कीचक स्तम्बाडम्बर-मूक-मौकुलि-कुलः क्रौञ्चावतो ऽयं गिरिः
एतस्मिन् प्रचलाकिनां प्रचलताम् उद्वेजिताः कूजितैर् उद्वेल्लन्ति पुराण-रोहण-तरु-स्कन्धेषु कुम्भी-नसाः ॥
एते चन्द्र-शिला-समुच्चय-मयाश् चन्द्रातप-प्रस्फुरत्-द् सर्वाङ्गीण-पयः-प्रवृत्त-सरितो झात्कुर्वते पर्वताः
येषाम् उन्मद-जागरूक-शिखिनि प्रस्थे नमेरु-स्थिताः श्यामाम् एव गभीर-गद्गद-गिरः स्कन्दन्ति कोयष्टयः ॥
आधत्ते दनु-सूनु-सूदन-भुजा-केयूर-वज्राङ्कुर व्यूहोल्लेख-पदावली-वलि-मयै रत्नैर् मुदं मन्दरः
आधारीकृत-कूर्म-पृष्ठ-कषण-क्षीणोरु-मूलो ऽधुना जानीमः परतः पयोधि-मथनाद् उच्चैस्तरो ऽयं गिरिः ॥
तत् तादृक् फणिराज-रज्जु-कषणं संरूढ-पक्ष-च्छिदा घातारुन्तुदम् अप्य् अहो कथम् अयं मन्थाचलः सोढवान्
एतेनैव दुरात्मना जलनिधेर् उत्थाप्य पापाम् इमां लक्ष्मीम् ईश्वर-दुर्गत-व्यवहृति-व्यस्तं जगन् निर्मितम् ॥
सो ऽयं कैलास-शैलः स्फटिक-मणि-भुवाम् अंशु-जालैर् ज्वलद्भिश्ः छाया पीतापि यत्र प्रतिकृतिभिर् उपस्थाप्यते पादपानाम्
यस्योपान्तोपसर्पत्-तपन-कर-धृतस्यापि पद्मस्य मुद्रां उद्दामानो दिशन्ति त्रिपुर-हर-शिरश्-चन्द्रलेखा-मयूखाः ॥
गिरिः कैलासो ऽयं दश-वदन-केयूर-विलसन् मणि-श्रेणी-पत्राङ्कुर-मकर-मुद्राङ्कित-शिलः
अमुष्मिन् आरुह्य स्फटिक-मय-सर्वाङ्ग-सुभगे निरीक्षन्ते यक्षाः फणि-पति-पुरस्यापि चरितम् ॥
दशमुख-भुज-दण्ड-मण्डलीनां दृढ-परिपीडन-पीत-मेखलो ऽयम्
जल-गृहक-वितर्दिकासुखानि स्फटिक-गिरिर् गिरिशस्य निर्मिमीते ॥
कैलासाद्रि-तटीषु धूर्जटि-जटालंकार-चन्द्राङ्कुर ज्योत्स्ना-कन्दलिताभिर् इन्दु-दृषदाम् अद्भिर् नदी-मातृकाः
गौरी-हस्त-गुण-प्रवृद्ध-वपुषः पुष्यन्ति धात्रेयक भ्रातृ-स्नेह-सहोढ-षण्मुख-शिशु-क्रीडा-सुखाः शाखिनः ॥
नक्तं रत्न-मयूख-पाटव-मिलत्-काकोल-कोलाहल त्रस्यत्-कौशिक-भुक्त-कन्दर-तमाः सो ऽयं गिरिः स्मर्यते
यत्राकृष्ट-कुचांशुके मयि रुषा वस्त्राय पत्राणि ते चिन्वत्यो वन-देवतास् तरु-लताम् उच्चैर् व्यधुः कौतुकात् ॥
एते ऽक्ष्णोर् जनयन्ति काम-विरुजं सीता-वियोगे घनाः वाताः शीकरिणो ऽपि लक्ष्मण दृढं संतापयन्त्य् एव माम्
इत्थं वृद्ध-परम्परा-परिणतैर् यस्मिन् वचोभिर् मुनीन् अद्याप्य् उन्मनयन्ति कानन-शुकाः सो ऽयं गिरिर् माल्यवान् ॥
करि-कवलन-शिष्टैः शाखि-शाखाग्र-पत्रैर् अरुण-सरणयो ऽमी सर्वतो भीषयन्ते ऽग्रकुञ्जैः ।
चलित-शबर-सेना-दत्त-गो-शृङ्ग-चण्ड-ध्वनि-चकित-वराह-व्याकुला विन्ध्य-पादाः ॥
इमास् ता विन्ध्याद्रेः शुक-हरित-वंशी-वन-घना भुवः क्रीडालोलद्-विरद-दशनाभुग्न-तरवः
लता-कुञ्जे यासाम् उपनदि रत-क्लान्त-शबरी कपोल-स्वेदाम्भः-कण-चय-नुदो वान्ति मरुतः ॥
स्निग्ध-श्यामाः क्वचिद् अपरतो भीषणाभोग-रूक्षाः स्थाने स्थाने मुखर-ककुभो झात्कृतैर् निर्झराणाम्
एते तीर्थाश्रम-गिरि-सरिद्-गर्त-कान्तार-मिश्राः संदृश्यन्ते परिचय-भुवो दण्डकाविन्ध्य-पादाः ॥
निष्कूज-स्तिमिताः क्वचित् क्वचिद् अपि प्रोच्चण्ड-सत्त्व-स्वनाः स्वेच्छा-सुप्त-गभीर-घोर-दुरगाश्वास-प्रदीप्ताग्नयः
सीमानः प्रदरोदरेषु विवरेष्व् अल्पाम्भसो यास्व् अयं तृष्यद्भिः प्रतिसूर्यकैर् अजगर-स्वेद-द्रवः पीयते ॥
दधति कुहर-भाजाम् अत्र भल्लूक-यूनाम् अनुरसित-गुरूणि स्त्यानम् अम्बूकृतानि
शिशिर-कटु-कषायः स्त्यायते शल्लकीनाम् इभ-दलित-विकीर्ण-ग्रन्थि-निष्यन्द-गन्धः ॥
इह सम-दश-कुन्ताक्रान्त-वानीर-मुक्त प्रसव-सुरभि-शीत-स्वच्छ-तोया भवन्ति
फल-भर-परिणाम-श्याम-जम्बू-निकुञ्ज स्खलन-मुखर-भूरि-स्रोतसो निर्झरिण्यः ॥
एताः स्थान-परिग्रहेण शिवयोर् अत्यन्त-कान्त-श्रियः प्रालेयाचल-मेखला-वन-भुवः पुष्णन्ति नेत्रोत्सवम्
व्यावल्गद्-बल-वैरि-वारण-वर-प्रत्यग्र-दन्ताहति श्वभ्र-प्रस्रवद्-अभ्र-सिन्धु-सवन-प्रस्निग्ध-देव-द्रुमाः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0