भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 46

46.1*(1563)

यद्-वर्ग्याभिर् जग्राहे पृथु-शकुल-कुलास्फालन-त्रास-हास व्यस्तोरु-स्तम्भिकाभिर् दिशि दिशि सरितां दिग्-जय-प्रक्रमेषु
अम्भो गम्भीर-नाभी-कुहर-कवलनोमुक्त-पर्यस्त-लोलत् कल्लोलाबद्ध-मुग्ध-ध्वनि-चकित-कणत्-कुक्कुभं कामिनीभिः ॥

46.2*(1564)

मज्जत्य् आमज्ज-मज्जन्-मणि-मसृण-फणा-चक्रवाले फणीन्द्रे यत् सेनोद्दाम-हेला-भर-चलित-महा-शैल-कीलां बभार
कृच्छ्रात् पाताल-मूलाविल-बहुल-निरालम्ब-जम्बाल-निष्ठः पृष्ठाष्ठील-प्रतिष्ठाम् अवनिम् अवनमत् कर्परः कूर्मराजः ॥

46.3*(1565)

यस्योद्योगे बलानां सकृद् अपि चलताम् उज्जिहानै रजोभिर् जम्बालिन्य् अम्बरस्य स्रवद्-अमर-सरित्-तोय-पूरेण मार्गे
संसीदच्-चक्र-शल्याकुल-तरणिकरोत् पीडिताश्वीय-दत्त द्वित्रावस्कन्द-मन्दः कथम् अपि चलति स्यन्दनो भानवीयः ॥

46.4*(1566)

देवे दिशां विजय-कौतुक-सुप्रयाते निर्यन्त्रण-प्रसर-सैन्य-भरेण यत्र
प्रत्यूप्यमान-मणि-कीलक-गाढ-बन्ध प्राणः . . फणपतिर् वसुधां दधाति ॥

46.5*(1567)

गुञ्जत्-कुञ्ज-कुटीर-कुञ्जर-घटा-विस्तीर्ण-कर्ण-ज्वराः प्राक्-प्रत्यग्-धरणीन्द्र-कन्दर-दरी-पारीन्द्र-निद्रा-द्रुहः
लङ्काङ्क त्रिककुत्-प्रतिध्वनि-घनाः पर्यन्त-यात्रा-जये यस्य भ्रेमुरमन्दमन्दर-रवैर् आशा-रुधो घोषणाः ॥

46.6*(1568)

त्वं सर्वदा नृपति-चन्द्र जय-श्रियो ऽर्थी स्वप्ने ऽपि न प्रणयिनी भवतो ऽहम् आसम्
इत्थं श्रिया कुपितयेव रिपून् व्रजन्त्या संजघ्निरे समर-केलि-सुखानि यस्य ॥

46.7*(1569)

ते पीयूष-मयूख-शेखर-शिरः-संदान-मन्दाकिनी कल्लोल-प्रतिमल्ल-कीर्ति-लहरी-लावण्य-लिप्ताम्बराः
सर्व-क्षत्र-भुजोष्म-शातन-कला-दुःशील-दोः-शालिनो वंशे तस्य बभूवुर् अद्भुत-गुणा धारा-धरित्री-भुजः ॥

46.8*(1570)

यन् निस्त्रिंश-हतोद्गतैर् अरि-शिरश् चक्रैर् बभूव क्षणं लोके चान्द्रमसे विधुंतुद-घटावस्कन्द-कोलाहलः
किं चामीभिर् अपि स्फुरन्-मणितया चण्डांशुकोटि-भ्रमं बिभ्राणैर् उदपादि राहु-भुवने भूयान् सुभिक्षोत्सवः ॥

46.9*(1571)

तेनेदं सुर-मन्दिरं घटयता टङ्कावली-निर्दलत् पाषाण-प्रकरः कृतो ऽयम् अखिलः क्षीणो गिरीणां गणः
अर्थिभ्यो वसु वर्षता पुनर् असौ संरूढ-रत्नाङ्कुर श्रेणि-स्मेर-शिरः-सहस्र-शिखरः संवर्धितो रोहणः ॥

46.10*(1572)

सुराणां पातासौ स पुनर् अतिपुण्यैक-हृदयो ग्रहस् तस्यास्थाने गुरुर् उचित-मार्गे स निरतः
करस् तस्यात्यर्थं वहति शतकोटि-प्रणयितां स सर्वस्वं दाता तृणम् इव सुरेशं विजयते ॥

46.11*(1573)

जीवाकृष्टिं स चक्रे मृध-भुवि धनुषः शत्रुर् आसीद् गतासुर् लक्षाप्तिर् मार्गणानाम् अभवद् अरि-बले तद्-यशस् तेन लब्धम्
मुक्ता तेन क्षमेति त्वरितम् अरि-गणैर् उत्तमाङ्गैः प्रतीष्ठा पञ्चत्वं द्वेषि-सैन्ये स्थितम् अवनि-पतिर् नाप संख्यान्तरं सः ॥

46.12*(1574)

येषां कल्प-महीरुहां मरकत-व्याजेन तैर् अर्थिभिर् व्यक्रीयन्ते शलाटवो ऽपि मणयस् ते पद्मरागादयः
तेषु प्रौढ-फलोपमर्दवि-नमच्-छाखा-मुखारोहिभिस् त्यागाद्वैतम् अहर्निशं सुकृतिनो यस्यामरैर् गीयते ॥

46.13*(1575)

यो मौर्वीकिण-कैतवेन सकल-क्ष्मापाल-लक्ष्मी-बलात् कारोपग्रह-वाच्यतामकिनितौ बिभ्रद् भुजौ भूपतिः
लोकान् वाचयति स्म विक्रम-मयिम् आख्यायिकाम् आत्मनः क्वापि क्वाप्य् अनुगच्छद्-अर्जुन-कथा-संभार-लम्भावतीम् ॥

46.14*(1576)

क्रुध्यद्-गन्ध-करीन्द्र-दन्त-मुषल-प्रेङ्खोल-दीप्तानल ज्वाला-पातित-कुम्भ-मौक्तिक-फल-व्युत्पन्न-लाजाञ्जलौ
हस्तेनासिम-यूख-दर्भ-लतिका-बद्धेन युद्धोत्सवैः राज्ञा येन सलीलम् उत्कल-पतेर् लक्ष्मीः पुनर्-भूः कृता ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc