भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 45

45.1*(1542)

श्रुत्वा दाशरथी सुवेल-कटके सानन्दम् अर्धे धनुष् टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान्
अभ्यस्यन्ति तथैव चित्र-फलके लङ्का-पतेस् तत् पुनर् वैदेही-कुच-पत्र-वल्लि-वलना-वैदग्ध्यम् अर्धे कराः ॥

45.2*(1543)

संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूल-दोर्-मण्डल क्रीडा-कृत्त-पुनः-प्ररूढ-शिरसो वीरस्य लिप्सोर् वरम्
याच्ञा-दैन्य-पराञ्चि यस्य कलहायन्ते मिथस् त्वं वृणु त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते ॥

45.3*(1544)

एको भवान् मम समं दश वा नमन्ति ज्या-घोष-पूरित-वियन्ति शरासनानि
तल् लोक-पाल-सहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् ॥

45.4*(1545)

रे वृद्ध-गृध्र किम् अकाण्डम् इह प्रवीर दावानले शलभतां लभसे प्रमत्त
लक्पावसान-पवनोल्लसितस्य सिन्धोर् अम्भो रुणद्धि किम् उ सैकत-सेतुबन्धः ॥

45.5*(1546)

आस्कन्धावधि कण्ठ-काण्ड-विपिने द्राच् चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यच्-छिरासंततौ
अस्मेरं गलिताश्रु-गद्गद-पदं भिन्न-भ्रुवा यद्य् अभूद् वक्त्रेष्व् एकम् अपि स्वयं स भगवान् तन् मे प्रमाणं शिवः ॥

45.6*(1547)

देवो यद्य् अपि ते गुरुः स भगवान् अर्धेन्दु-चूडामणिः क्षोणी-मण्डलम् एकविंशतिम् इदं वारान् जितं यद्य् अपि
द्रष्टव्यो ऽस्य् अमुम् एव भार्गव-बटः कण्ठे कुठारं वहन् पौलस्त्यस्य पुरः प्रणाम-रचित-प्रत्यग्र-सेवाञ्जलिः ॥

45.7*(1548)

रुद्रादेस् तुलनं स्वकण्ठ-विपिन-च्छेदो हरेर् वासनं कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः
सो ऽहं दुर्जय-बाहु-दण्ड-सचिवो लङ्केश्वरस् तस्य मे का श्लाघा घुण-जर्जरेण धनुषा कृष्टेन भग्नेन वा ॥

45.8*(1549)

वीर-प्रसूर् जयति भार्गव-रेणुकैव यत् त्वां त्रिलोक-तिलकं सुतम् अभ्यसूत
शक्रेभ-कुम्भ-तट-खण्डन-चण्ड-धामा येनैष मे न गणितो युधि चन्द्रहासः ॥

45.9*(1550)

रामे रुद्र-शरासनं तुलयति स्मित्वा स्थितं पार्थिवैः शिञ्जा-सञ्जन-तत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः
आरोप्य प्रचलाङ्गुली-किसलये म्लानं गुणास्फालने स्फाराकर्षण-भग्न-पर्वणि पुनः सिंहासने मूर्च्छितम् ॥

45.10*(1551)

पृथ्वि स्थिरा भव भुजङ्गम धारयैनां त्वं कूर्मराज तद् इदं द्वितयं दधीथाः
दिक्-कुञ्जराः कुरुत तत्-त्रितये दिधीर्षां रामः करोतु हर-कार्मुकम् आततज्यम् ॥

45.11*(1552)

लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः
उत्तीर्णो ऽम्बु-निधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः ॥

45.12*(1553)

यो यः कृत्तो दशमुख-भुजस् तस्य तस्यैव वीर्यं लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः
यद्य् अच्छिन्नं दशमुख-शिरस् तस्य तस्यैव कान्तौ संक्रामन्त्याम् अतिशयवती शेष-वक्त्रेषु लक्ष्मीः ॥

45.13*(1554)

भग्नं देव समस्त-वानर-भटैर् नष्टं च यूथाधिपैः किं धैर्येण पुरो विलोकय दशग्रीवो ऽयम् आराद् अभूत्
इत्थं जल्पति संभ्रमोल्बण-मुखे सुग्रीव-राजे मुहुस् तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता ॥

45.14*(1555)

भ्रमण-जव-समीरैः शेरते शाल-षण्डा मम नख-कुलिशाग्रैर् ग्राव-गर्भाः स्फुटन्ति
अजगरम् अपि चाहं मुष्टि-निष्पिष्ट-वक्त्रं निज-भुज-तरु-मूलस्यालवालं करोमि ॥

45.15*(1556)

कृष्टा येन शिरोरुहेषु रुदती पाञ्चाल-राजात्मजा येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः
यस्योरः-स्थल-शोणितासवम् अहं पातुं प्रतिज्ञातवान् सो ऽयं मद्-भुज-पञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥

45.16*(1557)

कपोले जानक्याः करि-कलभ-दन्त-द्युति-मुषि स्मर-स्मेरं गण्डोड्डमर-पुलकं वक्त्र-कमलम्
मुहुः पश्यन् श्रुत्वा रजनि-चर-सेना-कलकलं जटा-जूट-ग्रन्थिं द्रढयति रघूणां परिवृढः ॥

45.17*(1558)*

हरिर् अलस-विलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् ।
अधिगत-पति-विक्रमास्त-भीतिस् तु दयितापि विलोकयाञ्चकार ॥

45.18*(1559)

भूयः काञ्चन-केनिपात-निकर-प्रोत्क्षिप्त-दूरोद्गतैर् यत् संख्येषु चकार शीकर-कणैर् एव द्विषां दुर्दिनम्
किं चाकाण्ड-कृतोद्यमस् त्रिपथगासञ्चारिनौका-गणोअः गीर्वाणेन्द्र-फणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः ॥

45.19*(1560)

मैनाकः किम् अयं रुणद्धि गगने मन्-मार्गम् अव्याहतं शक्तिस् तस्य कुतः स वज्र-पतनाद् भीतो महेन्द्राद् अपि
तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं वाञ्छति ॥

45.20*(1561)

पुत्रस् त्वं त्रिपुर-द्रुहः पुनर् अहं शिष्यः किम् एतावता तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्ड-दीक्षा-विधिः
तत्राधार-निबन्धनो यदि भवेद् आधेय-धर्मोदयस्ः तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् ॥

45.21*(1562)

द्राङ् निष्पेष-विशीर्ण-वज्र-शकल-प्रत्युप्त-रूढ-व्रण ग्रन्थ्य्-उद्भासिनि भङ्गं ओघम् अघवन् मातङ्ग-दन्तोद्यमे
भर्तुःन्र् नन्दन-देवता-विरचित-स्रग्-दाम्नि भूमेः सुता वीर-श्रीर् इव यस्य वक्षसि जगद्-वीरस्य विश्राम्यतु ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc