सुभाषितरत्नकोश · अध्याय 44
चञ्चत्-पक्षाभिधात-ग्लपित-हुतभुजः प्रौढ-धाम्नश् चितायाः क्रोध आकृष्ट-मूर्तेर् अहम् अहमिकया चण्ड-चञ्चु-ग्रहेण
सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्ध-दग्धं पश्यान्तः प्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्र-सङ्घः ॥
उद्बुद्धेभ्यः सुदूरं घन-रजनि-तमः-पूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य पाद-द्वितय-धृत-भुवः श्रेणयः फेरवाणाम्
उल्कालोकैः स्फुरद्भिर्निज-वदन-गुहोत्सर्पिभिर् वीक्षितेभ्यश् च्योतत्-सान्द्रं वसाम्भः क्वथित-शव-वपुर्-मण्डलेभ्यः पिबन्ति ॥
उत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ पृथूच्छोफ-भूयांसो मांसान्य् अङ्ग-स्फिक्-पृष्ठ-पिण्डाद्य्-अवयव-सुलभान्य् अग्र-पूतीनि जग्ध्वा
आत्त-स्र्नाय्व्य्व्-अन्त्र-नेत्रः प्रकटित-दशनः प्रेत-रङ्गः करङ्काद् अङ्क-स्थाद् अस्थि-संस्थ-स्थपुट-गतम् अपि क्रव्यम् अव्यग्रम् अत्ति ॥
कर्णाभ्यर्ण-विदीर्ण-सृक्-कवि-कट-व्यादान-दीप्ताग्निभिर् दंष्ट्रा-कोटि-विसंकटैर् इत इतो धावद्भिर् आकीर्त्यते
विद्युत्-पुञ्ज-निकाश-केश-नयन-भ्रू-श्मश्रु-जालैर् नभो लक्ष्यालक्ष्य-विशुष्क-दीर्घ-वपुषाम् उल्का-मुखानां मुखैः ॥
अन्त्रैः कल्पित-मङ्गल-प्रतिसराः स्त्री-हस्त-रक्तोत्पल व्यक्तोत्तंस-भृतः पिनह्य सहसा हृत्-पुण्डरीक-स्रजः
एताः शोणित-पङ्क-कुङ्कुम-कुषः संभूय कान्तैः पिबन्त्य् अस्थि-स्नेह-सुराः कपाल-चषकैः प्रीताः पिशाचाङ्गनाः ॥
एतत् पूतन-चक्रम् अक्रम-कृत-श्वासार्ध-मुक्तैर् वृकान् उत्पुष्णद् उत्पुष्णत् परितो नृ-मांस-विघसैर् आदर्दरं क्रन्दतः
खर्जूर-द्रुम-दध्न-जङ्घम-सित-त्वङ्-नद्ध-विष्वक्तत स्नायु-ग्रन्थि-घनास्थि-पञ्जर-जरत्-कङ्कालम् आलोक्यते ॥
गुञ्जत्-कुञ्ज-कुटीर-कौशिक-घटा-घूत्कार-संवल्लित क्रन्दत्-फेरव-चण्ड-हात्कृति-भृति-प्राग्-भार-भीमैस् तटैः
अन्तः-शीर्ण-करङ्क-कर्कर-तरत्-संरोधि-कूलङ्कष स्रोतो-निर्गम-घोर-घर्घर-रवा पारे-श्मशानं सरित् ॥
अत्रास्थः पिशितं शवस्य कठिनैर् उत्कृत्य कृत्स्नं नखैर् नग्न-स्नायु-कराल-घोर-कुहरैर् मस्तिष्क-दिग्धाङ्गुलिः
संदश्यौष्ठ-पिटेन भुग्न-वदनः प्रेतश् चिताग्नि-द्रुतं सूत्कारैर् नलकास्थि-कोटर-गतं मज्जानम् आकर्षति ॥
चञ्चच्-चञ्चूद्वृतार्ध-च्युत-पिशित-लव-ग्रास-संवृद्ध-गर्धैर् गृध्रैर् आरब्ध-पक्ष-द्वितय-विधुतिभिर् बद्ध-सान्द्रान्धकारे
वक्त्रोद्वान्ताः पतन्त्यश् छिमिति-शिखि-शिखा-श्रेणयो ऽस्मिन् शिवानां अस्र-स्रोतस्य् अजस्र-स्रुत-बहल-वसा वास-विस्रे स्वनन्ति ॥
विदूराद् अभ्यस्तैर् वियति बहुशो मण्डल-शतैः उदञ्चत्-पुच्छाग्र-स्तिमित-विततैः पक्षति-पुटैः
पतन्त्य् एते गृध्राः शव-पिशित-लोलानन-गुहा गलल्-लाला-क्लेद-स्नपित-निज-चञ्चू-भय-पुटाः ॥
पिबत्य् एको ऽन्यस्माद् घन-रुधिरम् आछिद्य चषकं ललज्-जिह्वो वक्त्राद् गलितम् अपरो लेढु पिबतः
ततः स्त्यानाः कश्चिद् भुवि निपतिताः शोणित-कणाः क्षणाद् उच्च-ग्रीवो रसयति लसद्-दिर्घ-रसनः ॥
चिताग्नेर् आकृष्टं नलक-शिखर-प्रोतम् असकृत्द् स्फुरद्भिर् निर्वाप्य प्रबल-पवनैः स्फूत्कृत-शतैः
शिरो नारं प्रेतः कवलयति तृष्णा-वश-वलत् करालास्यः प्लुष्यद्-वदन-कुहरस् तूद्गिरति च ॥
अन्यादानाकुलान्तः-करण-वश-विपद्-बाधित-प्रेत-रङ्कं ग्रास-भ्रश्यत्-कराल-श्लथ-पिशित-शवाग्र-ग्रहे मुक्तनादम्
सर्वैः क्रामद्भिर् उल्कानन-कवल-रस-व्यात्त-वक्त्र-प्रभाभिर् व्यक्तैस् तैः संवलद्भिः क्षणम् अपरम् इव व्योम्नि वृत्तं श्मशानम् ॥
नेत्राकुञ्चन-सारण-क्रम-कृत-प्रव्यक्त-नक्तन्दिनो दिक्-चक्रान्त-विसर्पि-सल्लरिसटा-भारावरुद्धाम्बरः
हस्त-न्यस्त-कपाल-कन्दर-दरी-मुक्ताभ्र-धाराः पिबन्न् उन्मुक्त-ध्वनि-भिन्न-कर्ण-कुहरः क्रव्याद् अयं नृत्यति ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0