सुभाषितरत्नकोश · अध्याय 43
अनङ्ग पलितं मूर्ध्नि पश्यैतद् विजय-ध्वजम्
इदानीं जितम् अस्माभिस् तवाकिंचित्-कराः शराः ॥
अनुचितम् इदम् अक्रमश् च पुंसां यद् इह जरास्व् अपि मान्मथा विकाराः
यद् अपि च न कृतं नितम्बिनीनां स्तन-पतनावधि जीवितं रतं वा ॥
प्रायश्चित्तं न गृह्णीतः कान्तायाः पतितौ स्तनौ
अत एव तयोः स्पर्शे लोको ऽयं शिथिलादरः ॥
धिग् वृद्धतां विषलताम् इव धिक् तथापि वाम-भ्रुवाम् उपरि स-स्पृहताम् अतन्वीम्
को ऽत्रापराध्यति विधिश् च शठः कुठार योग्यः कठोर-हृदयः कुसुमायुधश् च ॥
स्वस्ति सुखेभ्यः संप्रति सलिलाञ्जलिर् एष मन्मथ-कथायाः ।
ता अपि माम् अतिवयसं तरल-दृशः सरलम् ईक्षन्ते ॥
क्षणात् प्रबोधम् आयाति लङ्घ्यते तमसा पुनः
निर्वास्यतः प्रदीपस्य शिखेव जरतां मतिः ॥
पलितेष्व् अपि दृष्टेषु पुंसः का नाम कामिता
भैषज्यम् इव मन्यन्ते यद् अन्यमनसः स्त्रियः ॥
एक-गर्भोषिताः स्निग्धा मूर्ध्ना सत्-कृत्य धारिताः
केशा अपि विरज्यन्ते जरया किम् उताङ्गनाः ॥
गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां कुर्वन्न् अयं प्रहसनस्य नटः कृतो ऽस्मि
नो वेद्मि मां पलित-वर्णक-भाजम् एतं नाट्येन केन नटयिष्यति दीर्घम् आयुः ॥
अविविक्ताव् अतिस्तब्धौ स्तनव् आढ्याव् इवादृतौ
विविक्तव् आनतव् एव दरिद्राव् इव गर्हितौ ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0