सुभाषितरत्नकोश · अध्याय 42
धन्यानां गिरि-कन्दरोदर-भुवि ज्योतिः परं ध्यायताम् आनन्दाश्रु-जलं पिबन्ति शकुना निःशङ्कम् अङ्के स्थिताः
अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तट क्रीडा-कानन-केलि-मन्दिर-सदाम् आयुः परं सीदति ॥
आस्वाद्य स्वयम् एव वच्मि महतीःम्र् मर्म-च्छिदो वेदनाः मा भूत् कस्यचिद् अप्य् अयं परिभवो याञ्छेति संसारिणः
पश्य भ्रातर् इयं हि गौरव-जरा-धिक्कार-केलि-स्थली मान-म्लानिमसी गुण-व्यतिकर-प्रागल्भ्य-गर्भ-च्युतिः ॥
पश्य गोभट किं कुर्मः कर्मणां गतिर् ईदृशी
दुषेर् धातोर् इवास्माकं दोष-निष्पत्तये गुणः ॥
अनादृत्याउचित्यं ह्रियम् अविगणय्यातिमहतीं यद् एतस्याप्य् अर्थे धन-लव-दुराशा-तरलिताः
अलीकाहङ्कार-ज्वर-कुटिलित-भ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते धिग् इदम् अतिदुष्पूरम् उदरम् ॥
जातिर् यातु रसातलं गुण-गणस् तस्याप्य् अधो गच्छतु शीलं शैल-तटात् पताव् अभिजनः संदह्यतां वह्निना
शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं येनैकेन विना गुणास् तृण-लव-प्रायाः समस्ता इमे ॥
निष्कन्दाः किम् उ कन्दरोदर-भुवः क्षीणास् तरूणां त्वचः किं शुष्काः सरितः स्फुरद्-गिरि-गुरु-ग्राव-स्खलद्-वीचयः
प्रत्युत्थानम् इतस् ततः प्रतिदिनं कुर्वद्भीर् उद्गीतिभिर् यद् धारार्पित-दृष्टिभिः क्षिति-भुजां विद्वद्भिर् अप्य् आस्यते ॥
अमीषां प्राणानां तुलित-बिसिनी-पत्र-पयसां कृते किं नास्माभिर् विगलित-विवेकैर् व्यवसितम्
यद् ईशानाम् अग्रे द्रविण-कण-मोहान्ध-मनसां कृतं वीत-व्रीडैर् निज-गुण-कथा-पातकम् अपि ॥
यद् एते साधूनाम् उपरि विमुखाः सन्ति धनिनोअः न चैषावज्ञैषाम् अपि तु निज-वित्त-व्यय-भयम्
अतः खेदो नास्मिन् अपरम् अनुकम्पैव भवति स्व-मांस-त्रस्तेभ्यः क इव हरिणेभ्यः परिभवः ॥
नो बद्धं शरद्-इन्दु-धाम-धवलं पाणौ मुहुः कङ्कणं व्रीडा-मन्थर-कोमलं नव-वधू-वक्त्रं च नास्वादितम्
नीतं नैव यशः सुरेन्द्र-भवनं शस्त्रेण शास्त्रेण वा कालो जीर्ण-मठेषु धृष्ट-पिशुनैश् छात्रैः सह प्रेरितः ॥
वयम् अकुशलाः कर्णोपान्ते निवेशयितुं मुखं कृतक-चरितैर् भर्तुश् चेतो न वञ्चयितुं क्षमाः
प्रियम् अपि वचो मिथ्या वक्तुं जडैर् न च शिक्षितं क इव हि गुणो यो ऽस्मान् कुर्यान् नरेश्वर-वल्लभान् ॥
खलोल्लापाः सोढाः कथम् अपि पराराधन-परैर् निगृह्यान्तर् दुःखं हसितम् अपि शून्येन मनसा
कृतो वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिर् अपि त्वम् आशे मोघाशे किम् अपरम् अतो नर्तयसि माम् ॥
जन-स्थाने भ्रान्तं कनक-मृग-तृष्णान्वित-धिया वचो वैदेहीति प्रतिदिशम् उदश्रु प्रलपितम्
कृता लङ्का-भर्तुर् वदन-परिपाटीषु घटना मयाप्तं रामत्वं कुशल-वसुता न त्व् अधिगता ॥
सृजति तावद् अशेष-गुणालयं पुरुष-रत्नम् अलंकरणं भुवः
तद् अनु तत्-क्षण-भङ्गि करोति चेद् अहह कष्टम् अपण्डितता विधेः ॥
सत्-पुरुष-पक्ष-पातिनि भगवति भवितव्यते नमस् तुभ्यम् ।
या त्वं स्वयम् अकृतज्ञं जडम् अकुलीनं न संस्पृशति ॥
दाता बलिः प्रार्थयिता च विष्णुर् दानं मही वाजि-मखस्य कालः
नमो ऽस्तु तस्यै भवितव्यतायै यस्याः फलं बन्धनम् एव जातम् ॥
प्रिया दुहितरो धातुर् विपदः प्रतिभान्ति नः
गुणवत्यः कुलीनेभ्यो दीयन्ते कथम् अन्यथा ॥
भद्रे वाणि विधेहि तावद् अमलां वर्णानुपूर्वीं मुखे चेतः स्वास्थ्यम् उपेहि गच्छ गुरुते यत्र स्थिता मानिनः
लज्जे तिष्ठ पराङ्-मुखी क्षणम् इतस् तृष्णु पुरः स्थीयतां पापो यावद् अहं ब्रवीमि धनिने देहीति दीनं वचः ॥
प्रियां हित्वा बालाम् अभिनव-विसाल-व्यसनिनीं अधीते भिक्षा-भुग्-भुवम् अधिशयानश् चिरतरम्
अपि ज्ञात्वा शास्त्रं कटकम् अटतो जीर्यति वपुस् ततो रे पाण्डित्यं यद् इह न सुखं नो ऽपि च तपः ॥
विद्या-लते तपस्विनि विकसित-सित-कुसुम-वाक्य-संपन्ने ।
विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च ॥
उन्माद-गद्गद-गिरो मद-विह्वलाक्ष्या भ्रश्यन्-निज-प्रकृतयः कृतम् अस्मरन्तः
ऐश्वर्य-सीधु-रस-पान-विघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति ॥
स्वल्प-द्रविण-कणा वयम् अमी च गुणिनो दरिद्रति सहस्रम् ।
दान-व्यसन-लवो हृदि धिग् धातः किं विडम्बयसि ॥
विद्यावान् अपि जन्मवान् अपि तथा युक्तो ऽपि चान्यैर् गुणैर् यन् नाप्नोति मनः समीहित-फलं दैवस्य सा वाच्यता
एतावत् तु हृदि व्यथां वितनुते यत्-प्राक्तनैः कर्मभिर् लक्ष्मीं प्राप्य जडो ऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते ॥
ईश्वर-गृहम् इदम् अत्र हि विषं च वृषभश् च भस्म चाद्रियते ।
यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना ॥
काम-घ्नाद् विष-सदृशो भूत्य्-अवलिप्ताद् भुजङ्ग-सङ्ग-रुचेः ।
को भृङ्गीव न शुष्यति वाञ्छ न फलम् ईश्वराद् अगुणात् ॥
अपि वज्रेण संघर्षम् अपि पद्भ्यां पराभवम्
सहन्ते गुणलोभेन त एव मणयो यदि ॥
लभन्ते कथम् उत्थानम् अस्थानं गुणिनो गताः
दृष्टः किं क्वापि केनापि कर्दमात् कन्दुकोद्गमः ॥
हृत्-पट्टके यद् यद् अहं लिखामि तत् तद् विधिर् लुम्पति सावधानः ।
भूयो विलोपान् मसृणे त्व् इदानीं रेखापि नोदेति मनोरथस्य ॥
कुर्यान् न किं धनवतः स्वजनस्य वार्ता किं तत्-क्रिया नयनयोर् न धृतिं विदध्यात्
माम् एष याचितुम् उपागत इत्य् असत्य संभावना-विकलम् अस्य न चेन् मनः स्यात् ॥
अस्मादृशां नूनम् अपुण्य-भाजां न स्वोपयोगी न परोपयोगी
सन्न् अप्य् असद्-रूपतयैव वेद्यो दारिद्र्य-मुद्रो गुण-रत्न-कोषः ॥
तावत् कथं कथय यासि गृहं परस्य तत्रापि चाटु-शतम् आरभसे कथं च
स्वं वर्णयस्य् अथ कथं कुल-पुत्र मानी हा मुग्ध दग्ध-जठरेण विडम्बितो ऽसि ॥
सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः ।
सरसीव कीर्ति-शेषं गतवति भुवि विक्रमादित्ये ॥
उचित-कर्म तनोति न संपदाम् इतरद् अप्य् असद् एव विवेकिनाम्
इति निरस्त-समस्त-सुखान्वयः कथम् अतो न विषीदतु पण्डितः ॥
छित्त्वा पाशम् अपास्य कूट-रचनां भित्त्वा बलाद् वागुरां पर्यन्ताग्नि-कलाप-जाल-कुटिलान् निर्गत्य दूरं वनात्
व्याधानां शर-गोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः कूपान्तः-पतितः करोतु विगुणे किं वा विधौ पौरुषम् ॥
कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्न-सुलभेन ।
विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः ॥
वसुमति वसुमति बन्धौ धन-लव-लोभेन ये निषीदन्ति ।
तान् च तृणान् इव दधती कलयसि वद गौरवं कस्य ॥
कपोलेभ्यो बद्धः कथम् अखिल-विश्व-प्रभुर् असाव् अनार्यैर् अस्माभिः परम् इयम् अपूर्वैव रचना
यद् इन्दोः पीयूष-द्रव-मय-मयूखोत्कर-किरः कलङ्को रत्नं तु प्रतिफणम् अनर्घं विष-भृताम् ॥
सर्वः प्राण-विनाश-संशय-करीं प्राप्यापदं दुस्तरां प्रत्यासन्न-भयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति
उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं प्राणानां च धनस्य चायम् अधियाम् अन्योन्य-हेतुः पणः ॥
नो मेघायितम् अर्थ-वारि-विरह-क्लिष्टे ऽर्थि-शस्ये मया नोद्धृत्त-प्रतिपक्ष-पर्वत-कुले निर्घात-वातायितम्
नो वा वाम-विलोचनामल-मुखाम्भोजेषु भृङ्गायितं मातुः केवलम् एव यौवन-वन-च्छेदे कुठारायितम् ॥
ये कारुण्य-परिग्रहाद् अपणित-स्वार्थाः परार्थान् प्रति प्राणैर् अप्य् उपकुर्वते व्यसनिनस् ते साधवो दूरतः
विद्वेषानुगमाद् अनर्जित-कृपो रूक्षो जनो वर्तते चक्षुः संहर बाष्प-वेगम् अधुना कस्याग्रतो रुद्यते ॥
नरेन्द्रैः श्री-चन्द्र-प्रभृतिभिर् अतीतं सहृदयैर् अतिक्रान्तं तैस् तैः कविभिर् अभिनन्दादिभिर् अपि
इदानीं वाक् तूष्णीं भव किम् उ मुधैव प्रलपसि क्व पूजा-संभारः क्व च तव गुणोल्लास-रभसः ॥
सुधा-सूतिः क्षीणो गणपतिर् असव् एक-दशनः पद-भ्रष्टा देवी सरिद् अपि सुराणां भगवती
द्वि-जिह्वाद् अन्येषां क्व ननु गुणिनाम् ईश्वर-जुषां त्वया दृष्टो भोगः किम् इह विफलं क्लिश्यसि मनः ॥
गच्छ त्रपे विरम धैर्य धियः किम् अत्र मिथ्या विडम्बयसि किं पुरुषाभिमान
प्रध्वस्त-सर्व-गुणम् अर्जित-दोष-सैन्यं दैन्यं यद् आदिशति तद् वयम् आचरामः ॥
निरानन्दा दारा व्यसन-विधुरो बान्धव-जनोअः जनी-भूतं मित्रं धन-विरह-दीनः परिजनः
असंतुष्टं चेतः कुलिश-कठिनं जीवितम् इदं विधिर् वामारम्भस् तद् अपि च मनो वाञ्छति सुखम् ॥
दुर्वासो मलिनाङ्ग-यष्टिर् अबला दृष्टो जनः स्वे गृहे नीचात् कर्ण-कटु श्रुतं धनम् अदाद् आरुढ-गर्वं वचः
अन्यो मन्दिरम् आगतः परिचयाद् अप्राप्त-कामो गतः खिन्नाः स्मः स्व-परोपकार-करण-क्लीबां वहन्तस् तनुम् ॥
क्व पङ्कः क्वाम्भोजं क्वणद्-अलि-कुलालाप-मधुरं शिरो रौद्रं क्वाहेः स्फुरद्-उरु-मयूखः क्व च मणिः
कलिः क्वायं पापः क्व च गुण-निधेर् जन्म भवतो विधिः सत्यं सत्यं सदृश-विनियोगेष्व् अकुशलः ॥
नमस्यः प्रज्ञावान् परिकलित-लोक-त्रय-गतिः सुखी मूर्खः सो ऽपि स्व-गत-महिमाद्वैत-हृदयः
अयं मा भूत् कश्चित् प्रतनु-मति-किर्मीरित-मनः समाधानोन्मीलत्-सद-सद्-इति-संदेह-विधुरः ॥
अस्माभिश् चतुरम्बु-राशि-रशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर् न स को ऽपि निस्तुष-गुणो दृष्टो विशिष्टो जनः
यस्याग्रे चिर-सञ्चितानि हृदये दुःखानि सौख्यानि वा संजल्प्य क्षणम् एकम् अर्धम् अथवा निःश्वस्य विश्राम्यते ॥
इतो दाव-ज्वालः स्थल-भुव इतो जाल-जटिला इतो व्याधो धावत्य् अयम् अनुपदं वक्रित-धनुः
इतो ऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृत-मुखः क्व यायात् किं कुर्यान् मृग-शिशुर् अयं दैव-वशगः ॥
केनेयं श्री-व्यसन-रुचिना शोण विश्राणिता ते जाने जानु-द्वय-सजल एवाभिरामस् त्वम् आसीः
वेग-भ्रश्यत्-तटरुहवनो दुस्तरावर्त-वीचिः कस्येदानीं कलुष-सलिलः कूलभेदी प्रियो ऽसि ॥
सिन्धोर् अर्णः स्थगित-गगनाभोग-पाताल-कुक्षः पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते
आहो रिक्तः कथम् अपि भवेद् एष दैवात् तदानीं को नाम स्याद् अतट-कुहरालोकनैर् यस्य कल्पः ॥
दैवे समर्प्य चिर-सञ्चित-मोह-भारं स्वस्थाः सुखं वसत किं परयाचनाभिः
मेरुं प्रदक्षिणयतो ऽपि दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिद् अष्टौ ॥
अर्थो न संभृतः कश्चिन् न विद्या काचिद् अर्जिता
न तपः सञ्चितं किंचिद् गतं च सकलं वयः ॥
आजन्मानुगते ऽप्य् अस्मिन् नाले विमुखम् अम्बुजम्
प्रायेण गुण-पूर्णेषु रीतिर् लक्ष्मीवताम् इयम् ॥
दृष्टा साथ कुपीट-योनि-महसा लेलिह्यमानाकृतिः पुष्पोन्मेषवती च किंशुक-लता नीतावनीं वायुना
रम्भे नोपरि पद्मयोःब्र् बिसलते नाग्र-स्फुरत्-पल्लवे सौवर्णौ न घटौ न नूतन-घनासन्नः शशी पार्वणः ॥
तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः स्नानार्थं मृगतृष्णिकोर्मि-तरला भूमिः समालोकिता
दुग्धा सेयम् अचेतनेन जरती दुग्धस्यता गर्दभी कष्टं यत् खलु दीर्घया धन-तृषा नीचो जनः सेवितः ॥
रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु भ्राता सुधारस-मयः पतिर् आद्य-देवः
केनापरेण कमले बत शिक्षितासि सारङ्ग-शृङ्ग-कुटिलानि विचेष्टितानि ॥
अर्थाभावे मृदुता काठिन्यं भवति चार्थ-बाहुल्ये ।
नैकत्रार्थ-मृदुत्वे प्रायः श्लोके च लोके च ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0