सुभाषितरत्नकोश · अध्याय 41
देव त्वद्-विजय-प्रयाण-समये काम्बोज-वाहावली विङ्खोल्लेल्ख-विसर्पिणि क्षिति-रजः-पूरे वियच् चुम्बति
भानोर् वाजिभिर् अङ्ग-कर्षण-रसास्वादः समासादितो लब्धः किं च नभस्-तलामर-धुनी-पङ्केरुहैर् अन्वयः ॥
त्वद्-यन्त्राणां प्रयाणेष्व् अनवरत-वलत्-कर्ण-ताल-प्रकीर्णैर् आकीर्णे व्योम्नि सर्प-समदगज-घटा-कुम्भ-सिन्दूर-पूरैः
बिभ्राणाः पारि-भद्र-द्रुम-कुसुम-रुचो रश्मयः पत्युर् अह्नां मध्याह्ने ऽप्य् अस्त-संध्या-भ्रम-चकित-दृशश् चक्रिरे चक्रवाकान् ॥
स्फीतो धाम्ना समर-विजयी श्री-कटाक्ष-प्रदीर्घः स्निग्ध-श्यामः कुवलय-रुचिर् युद्ध-मल्ल त्वदीयः
वर्षे ऽमुष्मिन् प्रतिनृप-यशः-पूर-गौरे परीक्षा क्षीर-न्यस्तं तुलयति महा-नील-रत्नं कृपाणः ॥
दिग्-दन्तिनः स्व-कर-पुष्कर-लेखनीभिर् गण्ड-स्थलान् मदमसिं मुहुर् आददानाः ।
श्री-चन्द्र-देव तव तोय-निधि-तीर-ताडी-पत्रोदरेषु विजय-स्तुतिम् आलिखन्ति ॥
सत्सु रक्तो द्विषां कालः पीतः स्त्रीणां विलोचनैः
शुभ्र-कीर्त्यासि तत् सत्यं चतुर्-वर्णाश्रमो भवान् ॥
न जनयसि कंस-हर्षं वहसि शरीरं यशोदया जुष्टम् ।
त्यजसि न सत्योन्मुखताम् इति सत्यं वासुदेवो ऽसि ॥
न लोपो वर्णानां न खलु परतः प्रत्यय-विधिर् विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः
गुणो वा वृद्धिर् वा सततम् उपकाराय जगतां मुनेर् दाक्षी-पुत्राद् अपि तव समर्थः पद-विधिः ॥
सत्यं त्वद्-गुण-कीर्तनेन सुखयत्य् आखण्डलं नारदः किं तु श्रोत्र-कटु क्वणन्ति मधुपास् तत्-पारिजात-स्रजाम्
वार्यन्ते यदि चाप्सरः-परिषदा ते चामराडम्बरैर् उद्वेल्लद्-भुज-वल्लि-कङ्कण-झणत्-कारस् तदा दुःसहः ॥
यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूष-तोयं तस्याश्चर्यैक-मूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्ष्यम् आसीत्
तत्-पीतं त्वद्-यशोभिस् त्रिभुवनम् अभजंस् तानि विश्राम-हेतोस् तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एकः ॥
कर्पासास्थि-प्रचय-निचिता निर्धन-श्रोत्रियाणां येषां वात्याप्रवितत-कुटी-प्राङ्गणान्ता बभूवुः
तत्-सौधानां परिसर-भुवि त्वत्-प्रसादाद् इदानीं क्रीडा-युद्ध-च्छिदुर-युवती-हार-मुक्ताः पतन्ति ॥
लक्ष्मी-वशीकरण-चूर्ण-सहोदराणि त्वत्-पाद-पङ्कज-रजांसि चिरं जयन्ति
यानि प्रणाम-मिलितानि नृणां ललाटे लुम्पन्ति दैव-लिखितानि दुरक्षराणि ॥
त्वं चेन् नाथ कला-निधिः शशधरस् तत् तोयनाथा वयं मर्यादा-निधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः
सर्वाशा-परिपूरको जलधरस् त्वं चेद् वयं भूरुहः सन्-मार्ग-स्थिति-सुन्दरस् त्वम् इति चेच् छाखी वयं चाध्वगाः ॥
पद-हीनान् बिल-वसतीन् भुजगान् इव जात-भोग-संकोचान् ।
व्यथयति मन्त्राक्षरम् इव नाम तवारीन् वनेचरैर् गीतम् ॥
येषां वेश्मसु कम्बु-कर्पर-चलत्-तर्कु-ध्वनिर् दुःश्रवः प्राग् आसीन् नरनाथ संप्रति पुनस् तेषां तवानुग्रहात्
षड्-जादि-क्रम-रङ्गद्-अङ्गुलि-चलत्-पाणि-स्खलत्-कङ्कण श्रेणी-निस्वन-मांसलः कल-गिरां वीणा-रवः श्रूयते ॥
नाथ त्वाम् अनुयाचे प्रसीद विजहीहि संगरारम्भम् ।
उन्नति-भाजः संप्रति सन्ति विपक्षाः परं गिरयः ॥
देवः स्व-स्तुतिर् अस्तु नाम हृदि नः सर्वे वसन्त्य् आगमास् तीर्थं न क्वचिद् ईदृग् अत्र भवति त्वत्-खड्ग-धारा यथा
याम् एकः स्व-शरीर-शुद्धि-रसिको मूर्ध्ना प्रतीच्छन् रिपुर् द्वैविध्याद् अनु पञ्चतां तद् अनु च त्रैदश्यम् आप क्षणात् ॥
मत्-पर्यन्त-वसुन्धरा-विजयिने मुक्तादि-रत्नं मयात् तव्यं ढौकितम् एव तुभ्यम् अधुना जातो ऽस्मि निष्किंचनः
इत्य् उल्लासित-वीचि-बाहुर् उदयान् मार्तण्ड-बिम्ब-च्छलात् प्रातस् तप्त-कुठारम् एष वहते देव त्वद्-अग्रे ऽम्बुधिः ॥
संद्न्दिष्टं मरुभूमि-भूरुह-चयैर् भूपाल भूयाद् भवान् निर्जेता नव-खण्ड-मण्डल-भुवो यत् त्वत्-प्रसादाद् वयम्
प्रत्यासन्न-विपन्न-वारड-वधू-नेत्र-प्रणाली-गलद् बाष्पाम्भः-प्लव-पङ्क-पिच्छिल-तलाः श्री-मुञ्ज मोदामहे ॥
तन्वीम् उज्झित-भूषणां कल-गिरं सीत्कारम् आतन्वतीं वेपन्तीं व्रणिताधरां विवसनां रोमोद्गमं बिभ्रतीम्
हेमन्ते हिम-शीत-मारुत-भयाद् आश्लिष्य दोर्भ्यां तनुं स्वां मूर्तिं दयिताम् इवातिरसिकां त्वद्-विद्विषः शेरते ॥
भू-संपर्क-रजो-निपात-मलिनाः स्वस्माद् गृहाद् प्त् प्रच्युताः सामान्यैर् अपि जन्तुभिः करतलैर् निःशङ्कम् आलिङ्गिताः
निर्लग्नाः क्वचिद् एकताम् उपगता बद्धाः क्वचिन् मोचिताः अक्षाणाम् इव शारयः प्रतिगृहं भ्रान्तास् तवारि-स्त्रियः ॥
वर्षा-संभृत-पीति-सारम् अवशं स्तब्धाङ्घ्रि-हस्त-द्वयं भेकं मूर्ध्नि निगृह्य कज्जल-रजः-श्यामं भुजङ्गं स्थितम्
मुग्धा-व्याध-वधूस् तवारि-नगरे शून्ये चिरात् संप्रति स्वर्णोपस्कृति-मुष्टि-सायक-धिया साकूतम् आदित्सति ॥
पर्यङ्कः शिथिलीकृतो न भवता सिंहासनान् नोत्थितं न क्रोधानल-धूम-राजिर् इव च भ्रू-वल्लिर् उल्लासिता
राज्ञां त्वच्-चरणारविन्दम् अथ च श्रीचन्द्र पुष्पन्त्य् अमूश् चञ्चच्-चारु-मरीचि-सञ्चय-मुचां चूडामणीनां रुचः ॥
द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रसिव्न्न-गण्डैर् गजैर् अन्तः कञ्चुकिभिः स्फूरन् मणिधरैर् अध्यासिता भूमयः
आक्रान्तं महिषीभिर् एव शयनं त्वद्-विद्विषां मन्दिरे राजन् सैव चिरन्तन-प्रणयिनी-शून्ये ऽपि राज्य-स्थितिः ॥
अत्युक्तौ यदि न प्रकुप्यसि मृषा-वादं न चेन् मन्यसे तद् ब्रूमो ऽद्भुत-कीर्तनेषु रसना केषां न कण्डूयते
देव त्वद्-विजय-प्रताप-दहन-ज्वालावली-शोषिताः सर्वे वारिधयस् ततो रिपु-वधू-बाष्पाम्बुभिः पूरिताः ॥
ताडीताडङ्क-मात्राभरण-परिणतीन्य् उल्लसत्-सिन्दु-वार स्रग्-दामानि द्विषां वो घन-जघन-जरद्-भूरि-भूर्जांशुकानि
विन्ध्य-स्कन्धेषु धातु-द्रव-रचित-कुच-प्रान्त-पत्राङ्कुराणि क्रीडन्ति क्रोड-लग्नैः कपि-शिशुभिर् अविश्रान्तम् अन्तः-पुराणि ॥
त्वन्-नासीर-विसारि-वारण-भर-भ्रश्यन्-मही-यन्त्रणाद् अन्तः-खिन्न-भुजङ्ग-भोगविगलल्-लालाभिर् आसीन् नदी
किं चास्यां जलकेलि-लालस-वलन्-नागाङ्गनानां फण श्रेणीभिर् मणि-केशराभिर् अभवत् संभूतिर् अम्भोरुहाम् ॥
संग्रामाङ्गण-संगतेन भवता चापे समारोपिते देवाकर्णय येन येन महसा यद्-यत्-समासादितम्
कोदण्डेन शराः शरै रिपुशिरस् तेनापि भू-मण्डलं तेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोक-त्रयम् ॥
शरैर् व्यर्थं नाथ त्रिभुवन-जयारम्भ-चतुरैस् तव ज्या-निर्घोषं नृपतिर् इह को नाम सहते
यम् उच्चैर् आकर्ण्य त्रिदश-पतिर् अप्य् आहव-भिया ह्रिया पार्श्वं पश्यन् निभृत-निभृतं मुञ्चति धनुः ॥
ऋक्षस्य क्रोड-सन्धि-प्रहित-मुखतया मण्डली-भूत-मूर्तेर् आरात् सुप्तस्य वीर त्वद्-अरि-वर-पुर-द्वारि नीहार-काले
प्रातर् निद्रा-विनोद-क्रम-जनित-मुखोन्मीलितं चक्षुर् एकं व्याधाः पालाल-भस्म-स्थित-दहन-कणाकारम् आलोकयन्ति ॥
ते कौपीन-धनास् त एव हि परं धात्री-फलं भुञ्जते तेषां द्वारि नदन्ति वाजि-निवहास् तैर् एव लब्धा क्षितिः
तैर् एतत् समलंकृतं निज-कुलं किं वा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥
दत्तेन्द्राभय-विभ्रमाद्भुत-भुजा-संभार-गम्भीरया त्वद्-वृत्त्या शिथिली-कृतस् त्रिभुवन-त्राणाय नारायणः
अन्तस्-तोष-तुषार-सौरभ-मय-श्वासानिलापूरण प्राणोत्तुङ्ग-भुजङ्ग-तल्पम् अधुना भद्रेण निद्रायते ॥
वत्से माधवि तात चम्पक शिशो माकन्द कोन्ति प्रिये हा मातर् मदयन्ति हा कुरवक भ्रातः खसर् मालति
इत्य् एवं रिपु-मन्दिरेषु भवतः शृण्वन्ति नक्तंचरा गोलाङ्गूल-विमर्द-संभ्रम-वशाद् उद्यान-देवी-गिरः ॥
वज्रिन् वज्रम् इदं जहीहि भगवन् ईश त्रिशूलेन किं विष्णो त्वं च विमुञ्च चक्रम् अमराः सर्वे त्यजन्त्व् आयुधम्
अद्यायं पर-चक्र-भूम-नृपतेर् वोढुं त्रिलोकी-धुरं प्रौढाराति-घटा-विघट्टन-पटुर् दोर्दण्ड एवोद्यतः ॥
बाणास् ते पर-चक्र-विक्रम-कला-वैलक्ष्य-दीक्षा-गुरोः वीक्षन्ते मिहिरांशु-मांसल-रुचः क्षिप्ताः प्रति-द्वेषिणः
हस्ताहल्लित-हार-वल्लि-तरला युद्धाङ्गणालोकन क्रीडालोल-दिग्-अङ्गना-समुदयोन्मुक्ताः कटाक्षा इव ॥
मन्दोद्वृन्तैः शिरोभिर् मणि-भर-गुरुभिः प्रौढ-रोमाञ्च-दण्ड स्फायन्-निर्मोक-सन्धि-प्रसरद्-अविगलत्-संमद-स्वेद-पूराः
जिह्वा-युग्माभिपूर्णानन्द-विषम-समुद्गीर्ण-वर्णाभिरामं वेला-शैलाङ्क-भाजो भुजग-युवतयस् त्वद्-गुणान् उद्गृणन्ति ॥
जीयासुः कलिकाल-कर्णक-जगद् दारिद्र्य-दारूदर व्याघूर्णद्-धूण-चूर्ण-लङ्गिम-जुषस् त्वत्-पादयोः पांशवः
लक्ष्मी-सद्म-सरोज-रेणु-सुहृदः सेवावनम्री-भवद् भूमीपाल-किरीट-रत्न-किरण-ज्योत्स्ना-नदी-बालिकाः ॥
पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान् महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः
इति सुचरितैर् बिभ्रद् रूपं चिरन्तन-भूभुजां कथम् असि न मान्धाता देव त्रिलोक-विधाय्य् अपि ॥
प्रभुर् असि वयं मालाकार-व्रत-व्यवसायिनो वचन-कुसुमं तेनास्माभिस् तवादर-ढौकितम्
यदि तद् अगुणं कण्ठे मा धास् तथोरसि मा कृथा नवम् इति कियत् कर्णे धेहि क्षणं फलतु श्रमः ॥
भयम् एकम् अनेकेभ्यः शत्रुभ्यो युगपत् सदा
ददाति तच् च तेनास्ति राजन् चित्रम् इदं महत् ॥
सर्वदा सर्वदो ऽसीति मिथ्या संस्तूयसे बुधैः
नारयो लेभिरे पृष्ठं न वक्षः पर-योषितः ॥
अपूर्वेयं धनुर्-विद्या भवता शिक्षिता कुतः
मार्गणौघः समायाति गुणो याति दिग्-अन्तरम् ॥
सालकानन-योगे ऽपि सालकानन-वर्जिता
हारावरुद्ध-कण्ठापि विहारारि-वधूस् तव ॥
कर्षद्भिः सिचयाञ्चलान् अतिरसात् कुर्वद्भिर् आलिङ्गनम् गृह्णानैः कचम् आलिखद्भिर् अधरं विद्रावयद्भिः कुचौ
प्रत्यक्षे ऽपि कलिङ्ग-मण्डल-पतेर् अन्तः-पुराणाम् अहो धिक् कष्टं विटपैर् विटैर् इव वने किं नाम नाचेष्टितम् ॥
गम्भीर-नीर-सरसीर् अपि पङ्कशेषाः कुर्वन्ति ये दिनकरस्य करास् त एव
त्वद्-वैरि-वीर-वनितानयनाम्बु-लेश शोषे कथं प्रतिहता इति मे वितर्कः ॥
त्वत्-सैन्य-ग्लपितस्य पन्नग-पतेर् अच्छिन्न-धारा-क्रमं विस्फारायत-शालिनि प्रतिफणं फेनाम्भसि भ्रश्यति
देव क्ष्मावलय-प्रभो फणि-कुलैः प्रव्यक्तम् एकोत्तर स्थूल-स्तम्भ-सहस्र-धारितम् इव क्ष्मा-चक्रम् आलोक्यते ॥
शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्री-भृतः सिन्धून् धूलि-भरेण कर्दमयितुं तैर् एव रोद्धुं नभः
नासीरे च मुहुर् मुहुश् चलचलेत्य् आलाप-कोलाहलान् कर्तुं नाथ वरुथिनीयम् अवनीं जेतुं पुनस् त्वद्-भुजौ ॥
देव त्वत्-सैन्य-भाराद् अवनिम् अवनतां धर्तुम् उत्तब्ध-देहः स्फूत्कार-क्ष्वेड-मीलत्-फण-शत-निपतत्-पीन-लाला-प्रवाहः
दृष्टः प्रारोह-शाली वट इव फलितो रक्त-मूर्धन्य-रत्नः कूर्मेणोद्धृत्य कण्ठं निज-विपुल-वपुश् चत्वरे सर्पराजः ॥
अम्भः कर्दमताम् उपैति सहसा पङ्क-द्रवः पांशुतां पांशुर् वारण-कर्ण-ताल-पवनैर् दिक्-प्रान्त-नीहारताम्
निम्नत्वं गिरयः समं विषमतां शून्यं जन-स्थानकं निर्याते त्वयि राज्य-पाल भवति त्यक्त-स्वभावं जगत् ॥
असिन्दूरेण सीमन्तो मा भून् नो योषिताम् इति
अतः परिहरन्त्य् आजा वसिं दूरेण ते ऽरयः ॥
देव त्वं किल कुन्तल-ग्रह-रुचिः काञ्चीम् अपासारयन् क्षिप्तः क्षिप्त-कर-ततः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि
इत्य् आकूत-जुषस् तव स्तव-कृता वैतालिकेनोदिते लज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति ॥
भीमे प्रस्थान-भाजि स्फुरद्-असि-जलदापह्नुत-द्वेषि-वह्नौ गृह्णीताह्नाय सर्वे भुवि भुवन-भुजश् चामरं वा दिशो वा
नैवं चेद् वस् तदानीं प्रधन-धृत-धनुर् मुक्त-रावर्ण-विद्धं गृध्रा मूर्धानम् ऊर्ध्वं नभसि रभसिनो लाघवेनोद्धरन्ति ॥
भवान् ईहित-कृन् नित्यं त्वं हिमानी-गिरि-स्थितः ।
अतः शङ्कर एवासि सदा स्कन्दः परं न ते ॥
आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेर् अस्मत्-संकथनेन पार्थिव-सुतः संप्रत्य् असौ लज्जते
इत्थं खिन्न इवात्ययेन यशसा दत्तो ऽवलम्बो ऽम्बुधेर् यातस् तीर-तपो-वनानि भवतो वृद्धो गुणानां गणः ॥
स्तन-युगम् अश्रु-स्नातं समीपतर-वर्ति-हृदय-शोकाग्नेः ।
चरति विमुक्ताहारं व्रतम् इव भवतो रिपु-स्त्रीणाम् ॥
संकल्पे ऽङ्कुरितं द्विपत्रितम् अथ प्रस्थान-वेलागमे मार्गे पल्लवितं पुरं प्रविशतः शाखा-शतैर् उद्गतम्
प्रातर् भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि प्रोत्फुल्लं फलितं च संप्रति मनोराज्य-द्रुमेणाद्य मे ॥
भूति-विभूषित-देहाः कान्ता-रागेण लब्ध-महिमानः ।
त्रिकलिङ्ग-न्यस्त-करा भवद्-अरयस् त्वत्-समार् जाताः ॥
जाने विक्रम-वर्धन त्वयि धनं विश्राणयत्य् अर्थिनां भावी शोण इवोपलैर् उपचितो रत्नैर् अगाधो ऽम्बुधिः
तत् पश्यामि च रोहणो मणि-भरैर् आध्माय-मानोदरः पाकोत्पीडित-दाडिमी-फल-दृशां कैश्चिद् दिनैर् यास्यति ॥
एकस् त्रिधा हृदि सदा वससि स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च
तापं च संमद-रसं च रतिं च तन्वन् शौर्योष्मणा च विनयेन च लीलया च ॥
देव त्वाम् अहम् अर्थये चिरम् असौ वर्षागमो निर्गतस् तीर्थं तीर्थम् इतस् ततो विचरितुं चेतो ऽधुना धावति
तद् विश्रामय वीर वीर्य-निविड-ज्या-बन्धनात् कार्मुकं मा भूद् वैरि-वधू-विलोचन-जलैर् मार्ग-क्रमो दुर्गमः ॥
द्विरूपा समरे राजन्न् एकैवासि-लता-वधूः
दारिकारि-करीन्द्राणां सुभटानां च कुट्टनी ॥
आमृश्य स्तन-मण्डलं प्रतिमुहुः सञ्चुम्ब्य गण्ड-स्थलीं ग्रीवां प्रत्यवलम्ब्य संभ्रम-बलैर् आहन्यमानः करैः
सुप्तस्याद्रि-नदि-निकुञ्ज-गहने मत्तः पयोदानिलैः कर्णान्ते मशकः किम् अप्य् अरि-वधू-सार्थस्य ते जल्पति ॥
लम्बमान-नयनाम्बु-बिन्दवः कन्दरासु गहनासु भूभृताम् ।
आकपोल-तल-लोल-कुन्तलाः सञ्चरन्ति तव वैरि-योषितः ॥
मा ते भवतु शत्रूणां या श्रुतिः श्रूयते क्विपः
सार्धं बन्धुभिर् अङ्गस्य या परस्मैपदे सिचि ॥
तत् कल्प-द्रुम-पुष्प-संस्तरि-रजस् तत् काम-धेनोः पयस्ः तं च त्र्यम्बक-नेत्र-दग्ध-वपुषः पुष्पायुधस्यानलम्
पद्मायाः श्वसितानिलानि च शरत्-कालस्य तच् च स्फुटं व्योमादाय विनिर्मितो ऽसि विधिना काम्बोज तुभ्यं नमः ॥
द्विषो भवन्ति वीरेन्द्र मुखे न तव संमुखाः
भवद्-भुज-बल-प्रौढि परित्याजित-हेतयः ॥
क्षिप्तः क्षीर-गृहे न दुग्ध-जलधिः कोषे न हेमाचलो दिक्पाला अपि पालि-पालन-विधाव् आनीय नारोपिताः
नो वा दिक्करिणः क्वणन् मधुलिहः पर्याय-पर्याणन क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्-जये ॥
वाह-व्यूह-खुराग्र-टङ्क-विहति-क्षुण्णक्षमा-जन्माभिर् धूलिभिः पिहिते विहायसि भवत्-प्रस्थान-कालोत्सवे
दिङ्-मोहाकुल-सूर-सूत-विपथ-भ्राम्यत्-तुरङ्गावली दीर्घायुः कुतवासरं प्रतिदिशं व्यस्तो रविर् ताम्यति ॥
दातैष विश्व-विदितः किम् अयं ददाति सर्वाहितानि जगते ननु वार्तम् एतत्
अस्योदयात् प्रभृति वाञ्छति दान-पात्रं चिन्तामणिर् यदि ददाति ददातु तावत् ॥
पूर्णो ऽग्रे कलसो विलास-वनिताः स्मेराननाः कन्यका दान-क्लिन्न-कपोल-पद्धतिर् इभो गौर-द्युतिर् गौर् वृषः
क्षीर-क्ष्मारुहि वायसो मधुर-वाग्-वामा शिवेति ध्रुवं त्वां प्रत्युच्चलतां नरेन्द्र-तिलक प्रादुर्भवन्त्य् अर्थिनाम् ॥
यतो यतो नृप-वर पद्म-पाटलं विलोचनं चलति तव प्रसीदतः
ततस् ततो नलिन-वनाधिवासिनी तद्-ईप्सया किल कमलानुधावति ॥
रुदितं वनेचरैर् अपि विन्ध्याद्रि-निवासिभिस् तवारि-शिशौ ।
वन-मानुषीषु हस्तं फल-हस्तासु प्रसारयति ॥
आबद्ध-भीम-भृकुटी-स्थपुटं ललाटं बिभ्रत् पराङ्मुख-रिपोर् विधुताधरोष्ठः
आत्मैव संगर-मुखे निज-मण्डलाग्र च्छाया-छलाद् अभिमुखस् तव देव जातः ॥
निज-गृह-मयूर-नामभिर् आहूतानागतेषु वन-शिखिषु ।
बाल-तनयेन रुदता त्वद्-अरि-वधू रोदिता दीर्घम् ॥
ये तृष्णार्तैर् अधिकम् अनिशं भुज्यमानाः प्रसन्नाः अन्तर्भूतार् झटिति गुणिनो यत्र पूर्णा भवन्ति
नम्री-भूतैः फलम् अभिनवं प्राप्यते यद्य् अवश्यं तत् किं कूपाः सुकृत-घटितास् त्वादृशा वा पुमांसः ॥
भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगे त्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे
न स्यास् त्वं यदि देव पङ्गुल-गुङ्दः काले कलाव् उत्कले सो ऽयं पङ्गुर् अवस्थितैक-चरणो धर्मः कथं भ्राम्यति ॥
त्वं धर्म-भूस् त्वम् इह संगर-मूर्ध्नि भीमः कीर्त्यार्जुनो ऽसि नकुलेन तवोपमास्ति
तुल्यस् त्वया यदि परं सहदेव एव दुःशासनस् तव पुनर् ननु को ऽपि शत्रुः ॥
कूर्मः पादो ऽत्र यष्टिर् भुजग-पतिर् असौ भाजनं भूत-धात्री तैलोत्पूरः समुद्रः कनक-गिरिर् अयं वृत्त-वर्ति-प्ररोहः
अर्चिश् तिग्मांशु-रोचिर् गगन-मलिनिमा कज्जलं दह्यमाना शत्रु-श्रेणी पतङ्गा ज्वलति नरपते त्वत्-प्रताप-प्रदीपः ॥
अन्तः-खेदम् इवोद्वहन् यद् अनिशं रत्नाकरो घूर्णते यच् च ध्यानम् इवास्थितो न कनक-क्षोणी-धरः स्यन्दते
जाने दान-विलास दान-रभसं शौर्यं च ते शुश्रुवान् एको मन्थ-विघट्टनास् तद्-अपरष् टङ्का-हतीः शङ्कते ॥
मया तावद् दृष्टो न खलु कलि-कन्दर्प-नृपतेर् गुणैस् तुल्यः को ऽपि क्वचिद् अपि किम् अश्रावि भवता
इति प्रश्न-श्रद्धाकुलितम् इव कर्णान्तिकम् अगान् मृगाक्षीणां चक्षुश् चटुलतर-तारान्त-तरलम् ॥
न दीनस् त्वं पुण्य-प्रभ-वर-मणीनां विलसितैर् विराजच्-छुद्धान्तस् त्वम् अहिम-कर-प्रौढ-महिमा
क्वचिन् न क्रोधस् ते स्वपद-जित-देवस् त्वम् उदधेर् अभिन्नो ऽपि स्वामिन् न किम् असि समुद्रः स्व-विषये ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0