भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 40

40.1*(1333)

कालिन्द्या दलितेन्द्र-नील-शकल-श्यामाम्भसो ऽन्तर्जले मग्नस्याञ्जन-पुञ्ज-सञ्चय-निभस्याहेः कुतो ऽन्वेषणा
ताराभाः फण-चक्रवाल-मणयो न स्युर् यदि द्योतिनो यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस् तैर् एव यान्त्य् आपदम् ॥

40.2*(1334)

भग्नाशस्य करण्ड-पिण्डित-तनोर् म्लानेन्द्रियस्य क्षुधा कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः
तृप्तस् तत्-पिशितेन सत्वरम् असौ तेनैव यातः पथा स्वस्थास् तिष्ठत दैवम् एव जगतः शान्तौ क्षये चाकुलम् ॥

40.3*(1335)

यस्याः कृते नृपतयस् तृणवत् त्यजन्ति प्राणान् प्रियान् अपि परस्पर-बद्ध-वैराः
तेषाम् असृक् पिबति सैव मही हतानां श्रीः प्रायशो विकृतिम् एति बहूपभुक्ता ॥

40.4*(1336)

रथस्यैकं चक्रं भुजग-यमिताः सप्त तुरगाः निरालम्बो मार्गश् चरण-रहितः सारथिर् अपि
रविर् यात्य् एवान्तं प्रतिदिनम् अपारस्य नभसः क्रिया-सिद्धिः सत्त्वे भवति महतां नोपकरणे ॥

40.5*(1337)

पौलस्त्यः कथम् अन्य-दार-हरणे दोषं न विज्ञातवान् काकुत्स्थेन कथं न हेम-हरिणस्यासंभवो लक्षितः
अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं प्रत्यासन्न-विपत्ति-मूढ-मनसां प्रायो मतिः क्षीयते ॥

40.6*(1338)

अकार्ये तथ्यो वा भवति वितथः कामम् अथवा तथाप्य् उच्चैर् धाम्नां हरति महिमानं जन-रवः
तुलोत्तीर्णस्यापि प्रकट-निहताशेष-तमसोअः रवेस् तादृक् तेजो न हि भवति कन्यां गत इति ॥

40.7*(1339)

कृतो यद् अह्नस् तनिमा हिमागमे लघीयसी यच् च निदाघ-शर्वरी
अनेन दृष्टान्त-युगेन गम्यते सद्-अर्थ-संकोच-समुद्यतो विधिः ॥

40.8*(1340)

पीताम्बराय तनयां प्रददौ पयोधिस् तत्-कालकूट-गरलं च दिगम्बराय
तत्रानयोर् वदत कस्य गुणातिरेकः प्रायः परिच्छद-कृतादर एव लोकः ॥

40.9*(1341)

किं जन्मना जगति कस्यचिद् ईक्षितेन शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम्
शक्ता हि कूपम् अपि शोषयितुं न कुम्भाः कुम्भोद्भवेन पुनर् अम्बुधिर् एव पीतः ॥

40.10*(1342)

पुंसः स्वरूप-विनिरूपणम् एव कार्यं तज्-जन्म-भूमि-गुण-दोष-कथा वृथैव
कः कालकूटम् अभिनन्दति सागरोत्थं को वारविन्दम् अभिनिन्दति पङ्कजातम् ॥

40.11*(1343)

खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि छायाम् आतप-वैरिणीम् अनुसरन् बिल्वस्य मूलं गतः
तत्राप्य् आशु कदाचिद् एव पतता बिल्वेन भग्नं शिरः प्रायो गच्छति यत्र भाग्य-रहितस् तत्रापदां भाजनम् ॥

40.12*(1344)

अलंकारः शङ्काकर-नरक-पालः परिकरः प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहु-वयाः
अवस्थेयं स्थाणोर् अपि भवति यत्रामर-गुरोर् विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनर् अमी ॥

40.13*(1345)

न संबन्दोपाधिं दधत इह दाक्षिण्य-निधयः प्रहृष्ट-प्रेमाणां स हि सहज एषाम् उदयते
क एते संबन्धान् मलय-मरुतश् चूत-तरवो यद् एतान् आलभ्य प्रतिपरुरुदानं जनयति ॥

40.14*(1346)

लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां पुंसः कुलं न हि निमित्तम् उदात्ततायाः
वातापितापन-मुनेः कलशात् प्रसूतिर् लीलायितं पुनर् अमुष्य समुद्र-पानम् ॥

40.15*(1347)

स्थलीनां दग्धानाम् उपरि मृगतृष्णानुसरणात् तृषार्तः शारङ्गो विरमति न खिन्ने ऽपि वपुषि
अजानानस् तत्त्वं न स मृगयते ऽन्यां च सरसीम् अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते ॥

40.16*(1348)

किं कूर्मस्य भर-व्यथा न वपुषि क्ष्मां न क्षिपत्य् एष यत् किं वा नास्ति परिश्रमो दिन-करस्यास्ते न यन् निश्चलः
किं त्व् अङ्गीकृतम् उत्सृजन् कृपणवद् श्लाघ्यो जनो लज्जते निर्व्यूढिः प्रतिपन्न-वस्तुषु सताम् एकं बताहो व्रतम् ॥

40.17*(1349)

स्वच्छाशयो भवति को ऽपि जनः प्रकृत्या सङ्गः सताम् अभिजनश् च न हेतुर् अत्र
दुग्धाब्धि-लब्ध-जननो हर-कन्धरा-स्थः स्वां कालतां त्यजति जातु न कालकूटः ॥

40.18*(1350)

वासश् चर्म विभूषणं शव-शिरो भिक्षाणतेनाशनं गौर् एकः स च लाङ्गले ऽप्य् अकुशलस् तन्-मात्र-सारं धनम्
शर्वस्येत्य् अवगम्य याति विमुखी रत्नालयं जाह्नवी कष्टं दुर्गतिकस्य जीवितम् अहो दारैर् अपि त्यज्यते ॥

40.19*(1351)

कैवर्त-कर्कश-कर-ग्रहण-च्युतो ऽपि जाले पुनर् निपतितः शफरो वराकः
दैवात् ततो ऽपि गलितो गिलितो बकेन वामे विधौ वद कथं व्यसनस्य शान्तिः ॥

40.20*(1352)

खनति न खुरैः क्षोणी-पृष्ठं न नर्दति सादरं प्रकृति-पुरुषं दृष्ट्वैवाग्रे न कुप्यति गाम् अपि
वहति तु धुरं धुर्यो धैर्याद् अनुद्धत-कन्धरो जगति कृतिनः कार्यौदार्याद् प्त् परान् अतिशेरते ॥

40.21*(1353)

शिरः शार्वं स्वर्गाद् प्त् पशुपति-शिरस्तः क्षिति-भृतं महीध्राद् उत्तुङ्गाद् अवनि-तलम् अस्माच् च जलधिम्
अधो ऽधो गङ्गावद् वयम् उपगता दूरम् अथवा पद-भ्रंशेतानां भवति विनिपातः शतमुखः ॥

40.22*(1354)

क्वापि कस्य च कुतो ऽपि कारणाच् चित्त-वृत्तिर् इह किं गुणागुणैः
उन्नतं यद् अवधीर्य भूधरं नीचम् अब्धिम् अभियाति जाह्नवी ॥

40.23*(1355)

सरसि बहुशस् तारा-च्छायां दशन् परिवञ्चितः कुमुद-विटपान्वेषी हंसो निशासु विचक्षणः
न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं कुहक-चकितो लोकः सत्ये ऽप्य् अपायम् अवेक्षते ॥

40.24*(1356)*

अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् ।
बालाद् अन्यः को ऽम्भसि जिघृक्षतीन्दोः स्फुरद्-बिम्बम् ॥

40.25*(1357)*

निर्गुणम् अप्य् अनुरक्तं प्रायो न समाश्रितं जहति सन्तः ।
सह-वृद्धि-क्षय-भाजं वहति शशाङ्कः कलङ्कम् अपि ॥

40.26*(1358)*

अविकारिणम् अपि सज्जनम् अनिशम् अनार्यः प्रबाधते ऽत्यर्थम् ।
कमलिन्या किम् अपकृतं हिमस्य यस् तां सदा दहति ॥

40.27*(1359)

भयं यद् धनुर् ईश्वरस्य शिशिना यज् जामदग्न्यो हतस् त्यक्ता येन गुरोर् गिरा वसुमती बद्धो यद् अम्भोनिधिः
एकैकं दशकन्धर-क्षय-कृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सो ऽपि सहसा नीतः कथा-शेषताम् ॥

40.28*(1360)

शशिनम् उदितं लेखा-मात्रं नमन्ति न चेतरं गगन-सरितं धत्ते मूर्ध्ना हरो न नगात्मजाम्
त्रिभुवन-पतिर् लक्ष्मीं त्यक्त्वा हरिः प्रिय-गोपिकः परिचित-गुण-द्वेषी लोको नवं नवम् इच्छति ॥

40.29*(1361)

उपशम-फलाद् विद्या-बीजाद् प्त् फलं धनम् इच्छतां भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम्
नियत-विषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुम् अलं शालेर् बीजं न जातु जवाङ्कुरम् ॥

40.30*(1362)

तृषार्तैः सारङ्गैः प्रति-जलधरं भूरि विरुतं घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः
खगानां के मेघाः क इह विहगा वा जल-मुचाम् अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ॥

40.31*(1363)

पयस् तेजो वायुर् गगनम् अवनिर् विश्वम् अपि वा स्वयं विष्णुस् तस्य त्रिदश-जयिनः किं न सुकरम्
छलान् नीतो ऽधस्ताद् बलिर् अणुक-रूपेण तद् अपि स्वभावाच् चक्री यः प्रगुणम् अपि चक्रेण सृजति ॥

40.32*(1364)

किं नोज्ज्वलः किम् उ कलाः सकला न धत्ते दत्ते न किं नयनयोर् मुदम् उन्मयूखः
राहोस् तु चक्र-पतितो ऽस्तमितो ऽयम् इन्दुः सत्यं सताम् अहृदयेषु गुणास् तृणानि ॥

40.33*(1365)

लूनास् तिलास् तद्-अनु शोषम् उपागतास् ते शोषाद् हि शुद्धिम् अथ तापम् उपेतवन्तः
तापात् कठोरतर-यन्त्र-निपीडनानि स्नेहो निमित्तम् इति दुःख-परंम्परायाः ॥

40.34*(1366)*

दुग्ध मुग्धम् अस्ति यस् त्वया धृतः स्नेह एष विपद्-एक-कारणम् ।
यत्-कृते त्वम् अपवासितं पुनश् छिन्नम् उन्मथितम् अग्नि-सात्कृतम् ॥

40.35*(1367)

मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी कर्णान्ते च परापकार-चतुरो न्यस्तो द्विजिह्वाधिपः
नन्दी द्वारि बहिष्कृतो गुणनिधिः कष्टं किम् अत्रोच्यतां पात्रापात्र-विचारणास्व् अनिपुणः प्रायो भवेद् ईश्वरः ॥

40.36*(1368)

काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्ध-घटना क्वोत्तीर्य लङ्काजयः
पार्थस्यापि पराभवं यदि रिपुःन्र् नादात् क्व तादृक् तपो नीयन्ते रिपुभिः समुन्नति-पदं प्रायः परं मानिनः ॥

40.37*(1369)

शम्बूकाः किल निर्गतार् जलनिधेस् तीरेषु दावाग्निना दह्यन्ते मणयो वणिक्-कर-तलैर् आयान्ति राज्ञां शिरः
स्थान-प्रच्युतिर् अल्पकस्य विपदे सन्तस् तु देशान्तरं यान्तो यान्ति सदा समर्पित-गुणाः श्लाघ्याः पराम् उन्नतिम् ॥

40.38*(1370)

य एको लोकानां परम-सुहृद् आनन्द-जनकः कला-शाली श्रीमान् निधुवन-विधौ मङ्गल-घटः
सुधा-सूतिः सो ऽयं त्रिपुर-हर-चूडामणिरहो प्रयात्य् अस्तं हन्त प्रकृति-विषमा दैव-गतयः ॥

40.39*(1371)

अपेताः शत्रुभ्यो वयम् इति विषादो ऽयम् अफलः प्रतीकारस् त्व् एषाम् अनिशम् अनुसंधातुम् उचितः
जरासंधाद् भग्नः सह हलभृता दानव-रिपुर् जघानैनं पश्चान् न किम् अनिल-सूनुः प्रिय-सखः ॥

40.40*(1372)

चन्द्रः क्षयी प्रकृति-वक्र-तनुर् जडात्मा दोषाकारः स्फुरति मित्र-विपत्ति-काले
मूर्ध्ना तथापि विधृतः परमेश्वरेण नैवाश्रितेषु महतां गुण-दोष-चिन्ता ॥

40.41*(1373)

शुक्लीकरोति मलिनानि दिगन्तराणि चन्द्रो न शुक्लयति चात्म-गतं कलङ्कम्
नित्यं यथार्थ-घटनाहित-मानसानां स्वार्थोद्यमो भवति नो महतां कदाचित् ॥

40.42*(1374)

गृह्णाति युक्तम् इतरच् च जहाति धीमान् एष स्वभाव-जनितो महतां विवेकः
अन्योन्य-मिश्रितम् अपि व्यतिरिच्य शुद्धं दुग्धं पिबत्य् उदकम् उज्झति राजहंसः ॥

40.43*(1375)

प्रायो भवत्य् अनुचित-स्थिति-देश-भाजः श्रेयः स्व-जीव-परिपालन-मात्रम् एव
अन्तः-प्रतप्त-मरु-सैकत-दह्यमान मूलस्य चम्पक-तरोः क विकाश-चिन्ता ॥

40.44*(1376)*

ग्रह-परिकवलित-तनुर् अपि रविर् इह बोधयति पद्म-षण्डानि ।
भवति विपद्य् अपि महताम् अङ्गीकृत-वस्तु-निर्वाहः ॥

40.45*(1377)

प्रणत्या बहु-लाभो ऽपि न सुखाय मनीषिणः
चातकः स्वल्पम् अप्य् अम्बु गृह्णात्य् अनन्त-कन्धरः ॥

40.46*(1378)

कस्योपयोग-मात्रेण धनेन रमते मनः
पद-प्रमाणम् आधारम् आरूढः को न कम्पते ॥

40.47*(1379)

उपैति क्षाराब्धिं सहति बहु-वात-व्यतिकरं पुरो नाना-भङ्गान् अनुभवति पश्यैष जलदः
कथंचिल् लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दान-व्यसनिता ॥

40.48*(1380)

सुधा-धाम्नः कान्तिं ग्लपयति विलुम्पत्य् उडु-गणं किरत्य् उष्णं तेजः कुमुद-वन-लक्ष्मीः शमयति
रविर् जानात्य् एव प्रतिदिवसम् अस्ताद्रि-पतनं तथापि प्रत्यग्राभ्युदय-तरलः किं न कुरुते ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc