भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 39

39.1*(1304)

प्रातर् बाष्पाम्बु-बिन्दु-व्यतिकर-विगलत्-क्लिन्न-सृक्कः कथंचित् किंचित् संकुब्ज-जङ्घा-जनित-जड-जवो जीर्ण-जानुर् जरार्तः
मुष्ट्य्-आवष्टभ्य यष्टिं कटि-पुट-विचटत्-कर्पटः प्लुष्ट-कन्थः कुन्थन्न् उत्थाय पान्थः पथि परुष-मरुन्-मूर्च्छ्यमानः प्रयाति ॥

39.2*(1305)

पुण्यानौ पूर्ण-वाञ्छः प्रथमम् अगणित-प्लोष-दोषः प्रदोषे पान्थस् तप्त्वा प्रसुप्तः प्रतत-तनु-तृणे धामनि ग्राम-देव्याः
उत्कम्पी कर्पटार्घे जरति पद-हति-च्छिद्रिते च्छिन्न-निद्रो वाते वाति प्रकमं हिम-कणिनि कणन् कोणतः कोणम् एति ॥

39.3*(1306)

पोतान् एतान् अपि गृहवति ग्रीष्म-मासावसानं यावन् निर्वाहयति भवती येन वा केनचिद् वा
पश्चाद् अम्भोधर-जल-परीपातम् आसाद्य तुम्बी कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के ॥

39.4*(1307)

क्षुत्-क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो लिप्ता जर्जर-कर्करी-जल-लवैर् नो मां तथा बाधते
गेहिन्याः स्फुटितांशुकं घटयितुं कृत्वा सकाकु-स्मितं कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ॥

39.5*(1308)

साक्रन्दाः शिशवः स-पत्र-पुटका वप्तुः पुरो-वर्तिनः प्रच्छन्ने च वधूर् विभाग-कुशला मध्ये स्थिता गेहिनी
कट्याच्छादन-बन्धकेन कथम् अप्य् आसादितेनान्धसा सिन्दूरारुण-मण्डले सवितरि प्राणाहुतिर् दीयते ॥

39.6*(1309)

एते दरिद्र-शिशवस् तनु-जीर्ण-कन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः
सूर्य-स्फुरत्-कर-करम्बित-भित्ति-देश -लाभाय शीत-समये कलिम् आचरन्ति ॥

39.7*(1310)

तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम्
एतत् सोढवतो ऽपि दुःस्थ-गृहिणः किं ब्रूमहे दुर्दशाम् अद्य श्वो विजनिष्यमाण-गृहिणी तत्रैव यत् कुन्थति ॥

39.8*(1311)

अद्याशनं शिशु-जनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती
इत्य् अश्रु-पात-मलिनी-कृत-गण्ड-देशा नेच्छेद् दरिद्र-गृहिणी रजनी-विरामम् ॥

39.9*(1312)

सक्तूञ् शोचति संप्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् प्रत्युत्सिञ्चति कर्परेण सलिलं शय्या-तृणं रक्षति
दत्त्वा मूर्धनि शीर्णं शूर्प-शकलं जीर्णे गृहे व्याकुला किं तद् यन् न करोति दुःस्थ-गृहिणी देवे भृशं वर्षति ॥

39.10*(1313)*

जरद्-अम्बर-संवरण-ग्रन्थि-विधौ ग्रन्थ-कार एको ऽहम् ।
परिमित-कदन्न-बण्टन-विद्या-पारं-गता गृहिणी ॥

39.11*(1314)

मा रोदीश् चिरम् एहि वत्स विफलं दृष्ट्वाद्य पुत्रान् इमान् आयातो भवतो ऽपि दास्यति पिता ग्रैवेयकं वाससी
श्रुत्वैवं गृहिणी-वचांसि निकटे कुड्यस्य निष्किंचनो निश्वस्याश्रु-जल-फुतानत-मुखः पान्थः पुनः प्रोषितः ॥

39.12*(1315)

कूष्माण्डी-विटपः फलत्य् अविरतं सिक्तः सुवर्णाम्बुना भूयोभिर् गदितं हितैषिभिर् इतीवास्माभिर् अङ्गीकृतम्
तत् संयाच्य कुतश्चिद् ईश्वर-गृहाद् आनीयमानं शनैः अध्वन्य् एव हि बिन्दुभिर् विगलितं श्राणे शरावोदरे ॥

39.13*(1316)

मातर् धर्म-परे दयां कुरु मयि श्रान्ते च वैदेशिके द्वारालिन्दक-कोणकेषु निभृतं स्थित्वा क्षिपामि क्षपाम्
इत्य् एवं गृहिणी-प्रचण्ड-वदना-वाक्येन निर्भर्त्सितो हस्त-न्यस्त-पलाल-मुष्टि-विभवः पान्थः शनैर् गच्छति ॥

39.14*(1317)

लग्नः शृङ्ग-युगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः पुच्छाग्रे गृहिणी खुरेषु शिशवो लग्ना वधूः कम्बले
एकः शीर्ण-जरद्-गवो विधिवशात् सर्वस्व-भूतो गृहे सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥

39.15*(1318)

शीत-वात-समुद्भिन्न पुलकाङ्कुर-शालिनी
ममाम्बर-विहीनस्य त्वग् एव पटिकायते ॥

39.16*(1319)

सद्यो विभिद्यते नूनं दरिद्र-तनु-पञ्जरम्
यदि न स्यान् मनोराज्य रज्जुभिर् दृढ-संयतम् ॥

39.17*(1320)

प्रायो दरिद्र-शिशवः पर-मन्दिराणां द्वारेषु दत्त-कर-पल्लव-लीन-देहाः
लज्जा-निगूढ-वचसो बत भोक्तु-कामा भोक्तारम् अर्ध-नयनेन विलोकयन्ति ॥

39.18*(1321)

अध्व-श्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर् जरायै
एतानि मे विदधतस् तव सर्वदैव धातस् त्रपा यदि न किं न परिश्रमो ऽपि ॥

39.19*(1322)*

वर्धन-मुखासिकायाम् उदर-पिशाचः किम् इच्छकाम् इच्छन् ।
पर्याकुलयति गृहिणीम् अकिंचनः कृपण-संवासः ॥

39.20*(1323)

वरं मृतो न तु क्षुद्रस् तथापि महद् अन्तरम्
एकस्य बन्धुःन्र् नादत्ते नामान्य् अस्याखिलो जनः ॥

39.21*(1324)

कृपणस्यास्तु दारिद्र्यं कार्पण्यावृति-कारकम्
विभवस् तस्य तद्-दोष घोषणा-पटु-डिण्डिमः ॥

39.22*(1325)

जीवतापि शवेनापि कृपणेन न दीयते
मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥

39.23*(1326)*

श्रीफलं यन् न तद् दीर्घम् इति तावद् व्यवस्थितम् ।
तत्रैकान्त-धृतिर् यस्य मन्यते मुग्ध एव सः ॥

39.24*(1327)*

दृढतर-निबद्ध-मुष्टेः कोष-निषण्णस्य सहज-मलिनस्य ।
कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ॥

39.25*(1328)

पथिक हे विजहीहि वृथार्थितां न खलु वेत्सि नवस् त्वम् इहागतः
इदम् अहि-भ्रमितं पच-मन्दिरं बलिभुजो ऽपि न यान्ति यद्-अन्तिकम् ॥

39.26*(1329)

रवेर् अस्तमये येन निद्रा नेत्रेषु निर्मिता
तेन किं न कृतो मृत्युर् मर्त्यानां विभव-क्षये ॥

39.27*(1330)

येनैवाम्बर-खण्डेन दिवा सञ्चरते रविः
तेनैव निशि शीतांशुर् अहो दौर्गत्यम् एतयोः ॥

39.28*(1331)

मलीमसेन देहेन प्रतिगेहम् उपस्थिताः
आत्मनैवात्म-कथका वयं वायस-वृत्तयः ॥

39.29*(1332)

भूयाद् अतो बहु-व्रीहि शासनाशा मुधैव मे
पूर्वापरापरामर्शाद् विमूढस्येव मे मतिः ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc