भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकोश · अध्याय 3

3.1*(25)

अङ्गामोद-समोच्छलद्-घृणि-पतद्-भृङ्गावली-मालित स्फूर्जल्-लञ्छन-सूत्र-गुम्फित-मिलन्-नीलोत्पल-श्रीर् इव
निर्यत्-पाद-नखोन्मुखांशु-विसर-स्रग्-दन्तुरः स्मर्यतां मञ्जुश्रीः सुर-मुक्त-मञ्जरि-शिखा-वर्षैर् इवाभ्यर्चितः ॥

3.2*(26)

शस्त्रोद्यद्-बाहु-देह-स्फुरद्-अनल-मिलद्-धूम-कल्पान्त-पुञ्जः शृङ्गान्तानन्त-विश्वार्पित-महिष-शिरो-मक्षिका-लीवि-कल्पः
त्रास-त्यक्त-स्व-पर्णास्तृत-सुर-घृणयेवालसत्-पाद-वृन्दस् तारौघ-प्लुष्ट-भानुर् जगद् अवतु नटद्-भैरवात्मा कुमारः ॥

3.3*(27)

खड्गी स-शब्दम् अथ पुस्तकवान् स-चिन्तं बालः स-खेलम् अभिराम-तमः स-कामम्
नाना-विधं सुर-वधूभिर् इतीक्षितो वः पायाच् चिरं सुगत-वंश-धरः कुमारः ॥

3.4*(28)

मुग्धाङ्गुली-किशलयाङ्घ्रि-सुवर्ण-कुम्भ वान्तेन कान्ति-पयसा धुसृणारुणेन
यो वन्दमानम् अभिषिञ्चति धर्म-राज्ये जागर्तु वो हित-सुखाय स मञ्जु-वज्रः ॥

3.5*(29)

अमीषां मञ्जुश्री-रुचिर-वदन-श्री-कृत-रुचां श्रुतं नो नामापि क्व नु खलु हिमांशु-प्रकृतयः
ममाभ्यर्णे धार्ष्ट्याच् चरति पुनर् इन्दीवरम् इति क्रुधेवेदं प्रान्तारुणम् अवतु वो लोचन-युगम् ॥

मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc