सुभाषितरत्नकोश · अध्याय 38
अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः ॥
सद्-गुणालंकृते काव्ये दोषान् मृगयते खलः
वने पुष्प-कलाकीर्णः करभः कण्टकान् इव ॥
मुखरस्याप्रसन्नस्य मित्र-कार्य-विघातिनः
निर्माणम् आशा-नाशाय दुर्जनस्य घनस्य च ॥
निर्वाते व्यजनं मदान्ध-करिणां दर्पोपशान्तौ शृणिः पोतो दुस्तर-वारि-राशि-तरणे दीपो ऽन्धकारागमे
इत्थं तद् भुवि नास्ति यत्र विधिना नोपाय-चिन्ता कृता मन्ये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः ॥
अकारणाविष्कृत-वैर-दारुणाद् असज्जनात् कस्य भयं न जायते
विषं महाहेर् इव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥
खल-वृन्दं श्मशानं च भवत्य् अपचितं यदा
ध्रुवं तदैव लोकानां कल्याणम् अवगम्यते ॥
अन्तर्-मलिन-देहेन बहिर् आह्लाद-कारिणा
महा-काल-फलेनेव कः खलेन न वञ्चितः ॥
सर्वत्रैव खलो जनः सरलता-सद्-भाव-निःसङ्गिनां साधूनां पद-बन्धनाय पिशुन-प्रौढाभिमानोद्यमः
सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं लूता-तन्तु-वितान-जाल-कुटिलं चक्रं करोत्य् अद्भुतम् ॥
देवानाम् अपि पश्यन्तां स श्रिया मेध्यते खलु
वाससापि न योगो ऽस्ति निश्चक्रस्य पिनाकिनः ॥
स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधोगतिम्
अहो न सदृशी वृत्तिस् तुलाकोटेः खलस्य च ॥
आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः ।
अन्यद् प्त् पर-गृहोत्खातात् कर्म येषां न विद्यते ॥
दुर्जन-दूषित-मनसां पुंसां स्वजने ऽपि नास्ति विश्वासः ।
बालः पायस-दग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥
गुणोत्कर्ष-द्वेषाद् प्त् प्रकृति-महताम् अप्य् असदृशं खलः किंचिद् वाक्यं रचयति च विस्तारयति च
न चेद् एवं तादृक् कमल-कलिकार्ध-प्रतिनिधौ मुनेःग्र् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः ॥
प्रिय-सखि विपद्-दण्ड-प्रान्त-प्रपात-परम्परा परिचय-चले चिन्ता-चक्रे निधाय विधिः खलः
मृदम् इव बलात् पिण्डीकृत्य प्रगल्भ-कुलाकवद् भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति ॥
पादाहतो ऽथ धृत-दण्ड-विघट्टितो वा यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः
को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्ग-धर्मा कर्णे परं स्पृशति हन्त्य् अपरं स-मूलम् ॥
परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते ।
पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति ॥
अगम्यो मन्त्राणां प्रकृति-भिषजाम् अप्य् अविषयः सुधा-सारासाध्यो विसदृश-तरारम्भ-गहनः
जगद् भ्रामी-कर्तुं परिणत-धियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृति-विषमो दुर्जन-जनः ॥
यः स्वान् अपि प्रथमम् अस्त-समस्त-साधु वृत्तिर् गुणान् खलतया मलिनी-करोति
तस्यास्य भोगिन इवोग्र-रुषः खलस्य दाक्षिण्यम् अस्ति कथम् अन्य-गुणोपमर्दे ॥
रन्ध्रान्वेषिणि दुष्ट-दृष्टि-विषिणि स्वच्छाशयद्-वेषिणि क्षिप्रे रोषिणि शर्म-शोषिणे विना हेतुं जगत्-प्लोषिणि
स्वार्थार्थं मृदु-भाषिणीष्ट-विहतव् एकान्ततस् तोषिणि श्रेयः क्रुद्ध-भुजङ्ग-भोग-विषमे संविद्यते किं खले ॥
जाड्यं ह्रीमति गण्यते व्रत-रुचौ दम्भः शुचौ कैतवं शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि
तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः ॥
वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् शूरान् द्वेष्टि धन-च्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान्
गुह्यानि प्रकटी-करोति घटयत्य् अन्योन्य-वैराश्रयान् ब्रूते शीघ्रम् अवाच्यम् उज्झित-गुणो गृह्णाति दोषान् खलः ॥
यद् यद् इष्टतरं तत् तद् देयं गुणवते किल
अत एव खलो दोषान् साधुभ्यः संप्रयच्छति ॥
करुणा-द्रवम् एव दुर्जनः सुतरां सत्-पुरुषं प्रबाधते ।
मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते ॥
आरम्भ-गुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्
दिनस्य पूर्वार्ध-परार्ध-भिन्ना छायेव मैत्री खल-सज्जनानाम् ॥
खलानां खर्जूर-क्षितिरुह-कठोरं क्व च मनः क्व चोन्मीलन्-मल्ली-कुसुम-सुकुमाराः कवि-गिरः
इतीमं व्यामोहं परिहर विचित्राः शृणु कथा यथायं पीयूष-द्युतिर् उपल-खण्डं द्रवयति ॥
उपकारिणि शुद्ध-मतौ वार्जने यः समाचरति पापम् ।
तं जनम् असत्य-संधं भगवति वसुधे कथं वहसि ॥
मुखे नीचस्य पतिता अहेर् इव पयः-कणाः
क्षणेन विषतां यान्ति सूक्त-पीयूष-बिन्दवः ॥
मुण्डा-प्रियाद् आयति-दुःख-दायिनो वसन्तम् उत्सार्य विजृम्भित-श्रियः
न कः खलात् तापित-मित्र-मण्डलाद् उपैति पापं तप-वासराद् इव ॥
तुल्योत्पत्ती प्रकृति-धवलाव् अप्य् अमू शङ्ख-सोमौ तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते
शङ्खस् ताप-क्रकच-निचयैर् भिद्यते शङ्ख-कारैः को नामान्तः-प्रकृति-कुटिलो दुर्गतिं नाभियाति ॥
अकलित-निज-पर-रूपः स्वकम् अपि दोषं पर-स्थितं वेत्ति ।
नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते ॥
आश्रयाशः कृष्णवर्त्मा दहनश् चैष दुर्जनः
अग्निर् एव तथाप्य् अस्मिन् स्याद् भस्मनि हुतं हुतम् ॥
वरम् आक्षीणतैवास्तु शशिनो दुर्जनस्य च
न प्रवृद्धिस् तु विस्तारि लाञ्छन-प्रतिपादिनी ॥
सर्वत्र मुखर-चपलाः प्रभवन्ति न लोक-संमता गुणिनः ।
तिष्ठन्ति वारि-राशेःउर् उपरि तरङ्गास् तले मणयः ॥
आरम्भ-रमणीयानि विमर्दे विरसानि च
प्रायो वैरावसानानि संगतानि खलैः सह ॥
गुण-कणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते ।
चन्द्र इव पद्म-लक्ष्मीं न क्षमते पर-गुणं पिशुनः ॥
बिभीमो वयम् अत्यन्तं चाक्रिकस्य गुणाद् अपि
निष्पन्नम् अपि यः पात्रं गुणेनैव निकृन्तति ॥
पर-संतापन-हेतुर् यत्राहनि न प्रयाति निष्पत्तिम् ।
अन्तर्-मना असाधुर् गणयति न तद्-आयुषो मध्ये ॥
दिवसान् तान् अभिनन्दति बहु-मनुते तेषु जन्मनो लाभम् ।
ये यान्ति दुष्ट-बुद्धेः परोपतापाभियोगेन ॥
दया-मृदुषु दुर्जनः पटुतरावलेपोद्धवः परां व्रजति विक्रियां न हि भयं ततः पश्यति
यतस् तु भय-शङ्कया सुकृशयापि संस्पृश्यते विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः ॥
असज्जनाश् चेन् मधुरैर् वचोभिः शक्यन्त एव प्रतिकर्तुम् आर्यैः
तत् केतकी-रेणुभिर् अम्बुराशेर् बन्ध-क्रियायाम् अपि कः प्रयासः ॥
नूनं दर्पात् तुहिन-रुचिना दुर्जनस्य प्रमार्ष्टुं नीतं चेतो न च धवलितं हेलया नार्पितं च
येनेदानीं मलिन-हृदयो लक्ष्यते शीत-रश्मिर् यस्माच् चायं हृदय-रहितो दुर्विधः सर्वदैव ॥
निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे
विशङ्कितान्योन्य-भयं सुदूरान् नमस्क्रियाम् अर्हति सौहृदं तत् ॥
एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् ।
सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति ॥
वृथा-ज्वलित-कोपाग्नेः परुषाक्षर-वादिनः
दुर्जनस्याउषधं नास्ति किंचिद् अन्यद् अनुत्तरात् ॥
चक्र-संभारिणि क्रूरे पर-च्छिद्रानुसारिणि
द्विजिह्वे दृष्ट-मात्रे चेत् कस्य न स्याच् चमत्कृतिः ॥
चक्षुर् आश्रयते कामः कामुकस्य दरिद्रतः
क्रूरस्य चाप्रभवतः पर-द्रोहः सरस्वतीम् ॥
खलं दृष्ट्वैव साधूनां हृदयं काष्ठवद् भवेत्
ततस् तद् दारयत्य् अस्य वाचः क्रकच-कर्कशाः ॥
हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् ।
तत्रापि क्लिष्ट-धियां दोषं वक्ष्यत्य् अतिखलत्वम् ॥
आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः
बद्धेवातनु-रज्जुभिः पर-गुणान् वक्तुं न शक्ता सती जिह्वा लोह-शलाकया खल-मुखे विद्धेव संलक्ष्यते ॥
प्रकृतिर् इह खलानां दोष-चित्तं गुणज्ञे विनय-ललित-भावे द्वेष-रक्ता च बुद्धिः
उभयम् इदम् अवश्यं जायते सर्व-वारं पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0