सुभाषितरत्नकोश · अध्याय 37
असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनु-धनः प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम्
विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां सतां केनोद्दिष्टं विषमम् असि-धारा-व्रतम् इदम् ॥
प्रिय-प्राया वृत्तिर् विनय-मधुरो वाचि नियमः प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः
पुरो वा पश्चाद् वा तद् इदम् अविपर्यासित-रसं रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते ॥
निन्दन्तु नीति-निपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम्
अद्यैव वा मरणम् अस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥
निर्मलानां कुतो रन्ध्रं कथंचिद् अपविध्यते
विधीयते गुणैर् एव तच् च मुक्ता-मणेर् इव ॥
यदा किंचिज्-ज्ञो ऽहं गज इव मदान्धः समभवं तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः
यदा किंचित् किंचिद् बुध-जन-सकाशाद् अधिगतं तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥
अनुहरतः खल-सुजनाव् अग्रिम-पाश्चात्य-भागयोः सूच्योः ।
एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति ॥
पुण्ड्रेक्षु-काण्ड-सुहृदो मधुराम्बु-भावाः सन्तः स्वयं यदि नमन्ति नमन्ति कामम्
आन्दोलितास् तु नमन-स्पृहया परेण भज्यन्त एव शतधा न पुनर् नमन्ति ॥
जतुपङ्कायते दोषः प्रविश्यैवासतां हृदि
सतां तु न विशत्य् एव यदि वा पारदायते ॥
कुसुम-स्तवकस्येव द्वयी वृत्तिर् मनस्विनः
सर्व-लोकस्य वा मूर्ध्नि शीर्यते वन एव वा ॥
राजा त्वं वयम् अप्य् उपासित-गुरु-प्रज्ञाभिमानोन्नताः ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः
इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः ॥
उदन्वच्छिन्ना भूः स च निधिरपां योजन-शतं सदा पान्थः पूषा गगन-परिमाणं कलयति
इति प्रायो भावाः स्फुरद्-अवधि-मुद्रा-मुकुलिताः सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥
सत्-पक्षासृजवः शुद्धाः सफला गुण-सेविनः
तुल्यैर् अपि गुणैश् चित्रं सन्तः सन्तः शराः शराः ॥
विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्-पटुता युधि विक्रमः
यशसि चाभिरतिर् व्यसनं श्रुतौ प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥
स साधुर् यो विपन्नानां साहाय्यम् अधिगच्छति
न तु दुर्विहितातीत वस्तु-पालन-पण्डितः ॥
सत्यं गुणा गुणवतां विधि-वैपरीत्याद् यत्नार्जिता अपि कलौ विफला भवन्ति
साफल्यम् अस्ति सुतराम् इदम् एव तेषां यत् तापयन्ति हृदयानि पुनः खलानाम् ॥
अपूर्वः को ऽपि कोपाग्निः सज्जनस्य खलस्य च
एकस्य शाम्यति स्नेहाद् वर्धते ऽन्यस्य वारितः ॥
छायां कुर्वन्ति चान्यस्य तापं तिष्ठन्ति वातपे
फलन्ति च परार्थाय पादपा इव सज्जनाः ॥
अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम्
सदा लोकहिते सक्ता रत्न-दीपा इवोत्तमाः ॥
लक्ष्मीं तृणाय मन्यन्ते तद्-भरेण नमन्ति च
अहो किम् अपि चित्राणि चरित्राणि महात्मनाम् ॥
अञ्जलि-स्थानि पुष्पाणि वासयन्ति कर-द्वयम्
अहो सुमनसां वृत्तिर् वाम-दक्षिणयोः समा ॥
पर-गुण-तत्त्व-ग्रहणं स्व-गुणावरणं पर-व्यसन-मौनम् ।
मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् ॥
विचिन्त्यमानो हि करोति विस्मयं विसारिणा सच्-चरितेन सज्जनः
यदा तु चक्षुः-पथम् एति देहिनां तदामृतेनेव मनांसि सिञ्चति ॥
संपर्केण तमो-भिदां जगद्-अघ-प्रध्वंसिनां धीमतां क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम्
यत् तृष्णा-ग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् उज्झत्य् अम्बुधरोदर-स्थितम् अपां पत्युः पयः क्षारताम् ॥
क्वाकराणारुषां संख्या संख्याताः कारण-क्रुधः
कारणे ऽपि न कुप्यन्ति ये ते जगति पञ्चषाः ॥
सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जु-वाक् ।
यदि चन्द्र-कराः स-वह्नयो ननु जायेत सुधा कृतो ऽन्यतः ॥
ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः श्रान्ता ये च परोपकार-करणे हृष्यन्ति ये याचिताः
स्वस्थाः सत्य् अपि यौवनोदय-महा-व्याधि-प्रकोपे ऽपि ये ते भू-मण्डल-मण्डनैक-तिलकाः सन्तः कियन्तो जनाः ॥
यशो रक्षन्ति न प्राणान् पापाद् बिभति न द्विषः
अन्विष्यन्त्य् अर्थिनो नार्थान् निसर्गो ऽयं महात्मनाम् ॥
यथा यथा परां कोटिर् गुणः समधिरोहति
सन्तः कोदण्ड-धर्माणो विरमन्ति तथा तथा ॥
अयं निजः परो वेति गणना लघु-चेतसाम्
उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥
ये प्राप्ते व्यसने ऽप्य् अनाकुल-धियः संपत्सु नैवोन्नताः प्राप्ते नैव पराङ्-मुखाः प्रणयिनि प्राणोपयोगैर् अपि
ह्रीमन्तः स्व-गुण-प्रशंसन-विधाव् अन्य-स्तुतौ पण्डिता धिग् धात्रा कृपणेन येन न कृताः कल्पान्त-दीर्घायुषः ॥
करे श्लाघ्यस् त्यागः शिरसि गुरु-पाद-प्रणयिता मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः
हृदि स्वच्छा वृत्तिर् विजयि-भुजयोर् वीर्यम् अतुलं विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् ॥
वज्राद् अपि कठोराणि मृदूनि कुसुमाद् अपि
लोकोत्तराणां चेतांसि को हि विज्ञातुम् अर्हति ॥
आ परितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् ।
बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥
पुराणम् इत्य् एव न साधु सर्वं न चापि काव्यं नवम् इत्य् अवद्यम्
सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः पर-प्रत्यय-हार्य-बुद्धिः ॥
गुह्य-पिधानैक-परः सुजनो वस्त्रायते सदा पिशुनम् ।
भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु ॥
ब्रूत नूतन-कूष्माण्ड फलानां के भवन्त्य् अमी
अङ्गुली-कथनाद् एव यन् न जीवन्ति मानिनः ॥
यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्ज-भूः सक्न्दो द्वादशभिस् न वा न मघवा चक्षुः-सहस्रेण वा
संभूयापि जगत्-त्रयस्य नयनैर् द्रष्टुं न यत् शक्यते प्रत्यादिश्य दृशौ समाहित-धियः पश्यन्ति तत्-पण्डिताः ॥
नीरसान्य् अपि रोचन्ते कर्पासस्य फलानि नः
येषां गुणमयं जन्म परेषां गुह्य-गुप्तये ॥
गुणवत्-पात्र मात्रैक हार्य-निर्यासम् आशयन्
आत्मनावैति ते लोकः स्व-बन्धुर् इति धावति ॥
सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु ।
अतिथि-जन-शेषम् अश्नति सज्जन-जिह्वे कृताथासि ॥
यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु ।
घण्टा-ध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0