सुभाषितरत्नकोश · अध्याय 36
तद्-ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् ते द्वीपान्तर-शालिनो जलधयः क्वापि क्वचित् भूभृतः
आश्चर्यं गगनस्य को ऽपि महिमा सर्वैर् अमीभिः स्थितैर् दूरे पूरणम् अस्य शून्यम् इति यन्-नामापि नाच्छादितम् ॥
आपीयमानम् असकृद् भ्रमरायमाणैर् अम्भोधरैः स्फुरित-वीचि-सहस्र-पत्रम्
क्षीराम्बु-राशिम् अवलोकय शेष-नालम् एकं जगत्-त्रय-सरः-पृथु-पुण्डरीकम् ॥
विष्णुर् बभार भगवान् अखिलां धरित्रीं तं पन्नगस् तम् अपि तत्-सहितं पयोधिः
कुम्भोद्भवस् तु तम् अपीयत हेलयैव सत्यं न कश्चिद् अवधिर् महतां महिम्नः ॥
किं ब्रूमो जलधेः श्रियं स हि खलु श्री-जन्म-भूमिः स्वयं वाच्यः किं महिमापि यस्य हि नव-द्वीपं महीति श्रुतिः
त्यागः को ऽपि स तस्य बिभ्रति जगन्त्य् अस्यार्थिनो ऽप्य् अम्बुदाः शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥
एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः
अस्मान् मन्दर-कूट-कोटि-घटना-भीति-भ्रमत् तारकां प्राप्यैकां जल-मानुषीं त्रि-भुवने श्रीमान् अभूद् अच्युतः ॥
आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् यत्-कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते
एकस्याश्रय-घस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पो ऽपि तोय-व्ययः ॥
निपीतो येनायं तटम् अधिवसत्य् अस्य स मुनिर् दधानो ऽन्तर्दाहं स्रज इव स चाउर्वो ऽस्ति दहनः
तथा सर्वस्वार्थे बहु-विमथितो येन स हरिः स्वपित्य् अङ्के श्रीमान् अहह महिमा को ऽपि जलधेः ॥
अन्यः को ऽपि स कुम्भ-संभव-मुनेर् आस्तां शिखी जाठरो यं सञ्चिन्त्य दुकूल-वह्नि-सदृशः संलक्ष्यते वाडवः
वन्द्यं तज्-जठरं स मीन-मकर-ग्राहावलिस् तोयधिः पश्चाद् प्त् पार्श्वम् अपूरितान्तर-वियद् यत्र स्वनन् भ्राम्यति ॥
श्वासोन्मूलित-मेरुर् अम्बर-तल-व्यापी निमज्जन् मुहुर् यत्रासीच् छिशुमार-विभ्रम-करः क्रीडावराहो हरिः
सीमा सर्व-महाद्भुतेषु स तथा वारां पतिः पीयते पीतः सो ऽपि न पूरितं च जठरं तस्मै नमो ऽगस्तये ॥
उद्यन्तु नाम सुबहूनि महा-महांसि चन्द्रो ऽप्य् अलं भुवन-मण्डल-मण्डनाय
सूर्याद् ऋते न तद् उदेति न चास्तम् एति येनोदितेन दिनम् अस्तम् इतेन रात्रिः ॥
उत्पत्तिर् जमदग्नितः स भगवान् देवः पिनाकी गुरुस् त्यागः सप्त-समुद्र-मुद्रित-मही-निर्व्याज-दानावधिः
शौर्यं यच् च न तद्-गिरां पथि ननु व्यक्तं हि तत् कर्मभिः सत्यं ब्रह्म-तपो-निधेर् भगवतः किं नाम लोकान्तरम् ॥
इतो वसति केशवः पुरम् इतश् च तद्-विद्विषां इतश् च शरणागताः शिखरि-पक्षिणः शेरते
इतश् च वडवानलः सह समस्त-संवर्तकैर् अहो विततम् ऊर्जितं भरसहं च सिन्धोर् वपुः ॥
तत् तावद् एव शशिनः स्फुरितं महीयो यावन् न तिग्म-रुचि-मण्डलम् अभ्युदेति
अभ्युद्गते सकल-धाम-निधौ तु तस्मिन्न् इन्दोः सिताभ्र-पटलस्य च को विशेषः ॥
अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता
पदं कृत्वा यः स्वं फणि-पति-फणा-चक्र-वलये निमज्जन्तीम् अन्तर्जलधि वसुधाम् उत्तुलयति ॥
तेषां तृषः परिणमन्ति न यत्र तत्र नान्यस्य वारि-विभवो ऽपि च तादृग् अस्ति
विश्वोपकार-जननी-व्यवसाय-सिद्धिम् अम्भोमुचां जलधयो यदि पूरयन्ति ॥
किं वाच्यो महिमा महा-जलनिधेर् यत्रेन्द्र-वज्राहति त्रस्तो भूभृद् अमज्जद् अम्बु-विचलत्-कौलील-पोताकृतिः
मैनाको ऽपि गभीर-नीर-विलुठत्-पाठीन-पृष्ठोल्लसच् छेवालाङ्कुर-कोटि-कोटर-कुटी-कुड्यान्तरे निर्वृतः ॥
किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः शेते यत्र हरिः स्वयं जलनिधेः सो ऽप्य् एकदेशे स्थितः
आश्चर्यं कलसोद्भवो स जलधिर् यस्यैक-हस्तोदरे गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥
विस्तारो यदि नेदृशो न यदि तद्-गाम्भीर्यम् अम्भोनिधेर् न स्याद् वा यदि सर्व-सत्त्व-विषयस् तादृग्-कृपानुग्रहः
अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर् मुञ्चता के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ॥
उद्दीप्ताग्निर् असौ मुनिर् विजयते यस्योदरे जीर्यतः पाथोदेर् अवशिष्टम् अम्बु कथम् अप्य् उद्गीर्णम् अन्तो ऽर्णवम्
किं चास्माज् जठरानलाद् इव नवस् तत्-कालवान्ति-क्रमाद् निर्यातः स पुनो यमाय पयसाम् अन्तर्गतो वाडवः ॥
यस्मिन् आपस् तद्-अधिकरणस्यास्य वह्नेर् निवृत्तिः संवासान्ते व्रजति जलदे वैकृतस् ताभिर् एव
अस्त्य् अन्यो ऽपि प्रलय-रजनी-संनिपाते ऽप्य् अनिद्रो यः सामुद्रीर् अविरतम् इमास् तेजसि स्वे जुहोति ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0