सुभाषितरत्नकोश · अध्याय 35
अजाजी-जम्बाले रजसि मरिचानां च लुठिताः कटुत्वाद् उष्णत्वाज् जनित-रसनौष्ठ-व्यतिकराः
अनिर्वाणोत्थेन प्रबलतर-तैलाक्त-तनवो मया सद्यो भृष्टाः कतिपय-कवय्यः कवलिताः ॥
ग्रीवाभङाभिरामं मुहुर् अनुपतति स्यन्दने दत्त-दृष्टिः पश्चार्धेन प्रविष्टः शरपतन-भयाद् भूयसा पूर्व-कायम्
शष्पैर् अर्धावलीढैः श्रम-विवृत-मुख-भ्रंशिभिः कीर्ण-वर्त्मा पश्योदग्र-प्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥
स्वैरं चक्रानुवृत्त्या मुहुर् उपरि परिभ्रम्य सम्यक् कृतास्थः क्षिप्ताधो-दृष्टि-लक्ष्यी-कृत-पल-शकलः पक्कण-प्राङ्गणेषु
तीव्राधः-पात-पुञ्जी-कृत-वितत-चलत्-पक्ष-पाली-विशालश् चिल्लश् चाण्डाल-पल्ली-पिठर-जठरतः प्रोद्धरत्य् अर्ध-दग्धम् ॥
उद्ग्रीवा विवृतारुणास्य-कुहरास् तृष्णाचलत्-तालवः पक्षा-संभव-वेपमान-तनवः प्रोड्डीय किंचिन् मुहुः
अन्योन्याक्षमिणः शरारि-शिशवः प्रातर् नदी-रोधसि प्रालेयाम्बु पिबन्ति वीरण-दल-द्रोणी प्रणाली-स्रुतम् ॥
रज्जु-क्सेपरयोन्नमद्-भुज-लता-व्यक्तैक-पार्श्व-स्तनी सूत्र-च्छेद-विलोल-शङ्ख-वलय-श्रेणी-झणत्-कारिणी
तिर्यग्-विस्तृत-पीवरोरु-युगला पृष्ठान् अतिव्याकृता भोग-श्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ॥
पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती
निद्राशेष-विशेष-रक्त-नयनो निर्याय नीडोदराद् आसृक्कान्त-विदारितानन-पुटः पारावतो जृम्भते ॥
प्रातर् वार-विलासिनी-जन-रणन् मञ्जीर-मञ्जु-स्वनैर् उद्बुद्धः परिधूय पक्षति-पुटं पारावतः स-स्पृहम्
किंचित् कुञ्चित-लोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं मनान्दोलित-कण्ठ-कुण्ठित-गलः सोत्कण्ठम् उत्कूजति ॥
उत्प्लुत्य दूरं परिधूय पक्षा वधो निरीक्ष्य क्षण-बद्ध-लक्ष्यः
मध्ये-जलं बुड्डति दत्त-झम्पः समत्स्यम् उत्सर्पति मत्स्य-रङ्कः ॥
नीडाद् अपक्रम्य विधूय पक्षौ वृक्षाग्रम् आरुह्य ततः क्रमेण
उद्ग्रीवम् उत्पुच्छम् उदेक-पादम् उच्चूडम् उकूजति ताम्र-चूडः ॥
अङ्गुष्ठाक्रम-यन्त्रिताङ्गुलिर् अधः पादार्ध-नीरुद्ध-भूर् पार्श्वोद्वेग-कृतो निहत्य कफणि-द्वन्द्वेन दंशान् मुहुः
न्यग्-जानु-द्वय-यन्त्र-यन्त्रित-घटी-वक्त्रान्तराल-स्खलद् धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः ॥
कर्णाग्रन्थित-किं-तनुर् नत-शिरा बिभ्रज्-जरा-जर्जर स्फिक्-सन्धि-प्रविवेशित-प्रविचलल्-लङ्गूल-नालः क्षणम्
आराद् वीक्ष्य विपक्व-साक्रम-कृत-क्रोध-स्फुरत्-कन्धरं श्वा मल्लीकलिका-विकाशि-दशनऊ किंचित् क्वणन् गच्छति ॥
तुन्दी चेत् परिचुम्बति प्रियतमां स्वार्थात् ततो भ्रश्यति स्वार्थं चेत् कुरुते प्रियाधर-रसास्वादं न विन्दत्य् असौ
तं चेमं च करोति मूढ-जड-धीः कामान्ध-मुग्धो यतस् तुन्दौ तुन्दित-विग्रहस्य सुरते नैको भवेन् नापरः ॥
नश्यद्-वक्रिम-कुन्तलान्तलुलित-स्वच्छाम्बु-बिन्दूत्करा हस्त-स्वस्तिक-संयमे नव-कुच-प्राग्-भारम् आतन्वती
पीनोरुद्वय-लीन-चीन-वसना स्तोकावनम्रा जलात् तीरोद्दे`च-निमेष-लोल-नयना बालेयम् उत्तिष्ठति ॥
अम्भोमुचां सलिलम् उद्गिरतां निशीथे तादी-वनेषु निभृत-स्थित-कर्ण-तालाः
आकर्णयन्ति करिणो ऽर्ध-निमीलिताक्षा धारा-रवं दशन-कोटि-निषण्ण-हस्ताः ॥
हलाग्रोत्कीर्णायां परिसर-भुवि ग्राम-चटका लुठन्ति स्वच्छन्दं नखर-शिखराच् छोतित-मृदः
चलत्-पक्ष-द्वन्द्व-प्रभव-मरुद्-उत्तम्भित-रजः कणाश्लेष-भ्रामद्-रुत-मुकुलितोन्मीलित-दृशः ॥
आकुब्जी-कृत-पृष्ठम् उन्नत-वलद्-वक्त्राग्र-पुच्छं भयाद् अन्तर्-वेश्म-निवेशितैक-नयनं निष्कम्प-कर्ण-द्वयम्
लाला-कीर्ण-विदीर्ण-सृक्क-विकचद्-दंष्ट्राकरालाननः श्वा निःश्वास-निरोध-पीवर-गलो मार्जारम् आस्कन्दति ॥
पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुर् इतस् ततो वलित-नयनो मन्दं मन्दं पदं निदधद् बकः
वियति विधृतैकाङ्घ्रिस् तिरग् विवर्तित-कन्धरो दलम् अपि चलत् स-प्रत्याशं मुहुर् मुहुर् ईक्षते ॥
मुक्तेषु रश्मिषु निरायत-पूर्वकाया निष्कम्प-चामर-शिखा निभृतोर्ध्व-कर्णाः
आत्मोद्धतैर् अपि रजोभिर् अलङ्घनीया धावन्त्य् अमी मृग-जवाक्षमयेव रथ्याः ॥
पश्चाद् अङ्घ्री प्रसार्य त्रि-कनति-विततं द्राघयित्वाङ्गम् उच्चैर् आसज्याभुग्न-कण्ठो मुखम् उरसि सटां घूलि-धूम्रां विधूय
घास-ग्रासाभिलाषाद् अनवरत-चलत्-प्रोथ-तुण्डस् तुरङ्गो मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥
आघ्रात-क्षोणि-पीठः खुर-शिखर-समाकृष्ट-रेणुस् तुरङ्गः पुञ्जी-कृत्याखिलाङ्घ्रीन् क्रम-वश-विनमज्-जानुर्-उन्मुक्त-कायः
पृष्ठान्तः पार्श्व-कण्डू-व्यप-नयन-रसाद् द्विस्-त्रिर्-उद्वर्तिताङ्गः प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्व्यां धुनोति ॥
आदौ वितत्य चरणो विनमय्य कण्ठम् उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः
मात्रा प्रवर्तित-मुखं मुख-लिह्यमान पश्चार्ध-सुस्थ-मनसः स्तनम् उत्पिबन्ति ॥
प्रियायां स्वैरायाम् अतिकठिन-गर्भालसतया किराते चाकर्णी धृत-धनुषि धावत्य् अनुपदम्
प्रिया-प्रेम-प्राण-प्रतिभय-वशाकृत-विकलो मृत्गः पश्चाद् आलोकयति च मुहुर् याति च मुहुः ॥
शीर्ण-क्षुद्रातपत्री जठर-वलयितानेक-मात्रा-प्रपञ्चश्ः चूडा-निर्व्यूढ-बिल्व-च्छद उदर-दरी-भीषणो जीर्ण-कण्ठः
दूराध्व-भ्रान्ति-खिन्नः कथम् अपि शनकैर् अङ्घ्रि-पीडां नियम्य स्वैरेन्ध-स्फोटनाय द्विज-भवनम् अनु स्नातकः सायम् एति ॥
चञ्चच्-चञ्चल-चञ्चु-वञ्चित-चलच्-चूडाग्रम् उग्रं पतच् चक्राकार-कराल-केसर-सटास्फार-स्फुरत्-कन्धरम्
वारं वारम् उदङ्घ्रि-लङ्घन-घन-प्रेङ्खन्-नख-क्षुण्णयोः कामं कुक्कुटयोर् द्वयं द्रुत-पद-क्रूर-क्रमं युध्यति ॥
एते जीर्ण-कुलाय-काल-जटिलाः पांसूत्कराकर्षिणः शाखा-कम्प-विहस्त-दुःस्थ-विहगान् आकम्पयन्तस् तरून्
हेलान्दोलित-नर्तितोज्झित-हत-व्याघट्टितोन्मूलित प्रोत्क्षिप्त-भ्रमितैः प्रपा-पटलकैः क्रीडन्ति झञ्झानिलाः ॥
एते संतत-भृज्यमान-चणकामोद-प्रधाना मनः कर्षन्त्य् ऊषर-संनिवेश-जरठ-च्छायाः स्थली-ग्रामकाः
तारुण्यातिशयाग्र-पामर-वधू-सोल्लास-हस्त-ग्रह भ्राम्यत्-पीवर-यन्त्रक-ध्वनिर् असद्-गम्भीर-गेहोदराः ॥
अस्मिन्न् ईषद् वितत-वलित-स्तोक-विच्छिन्न-भुग्नः किंचिल्-लीलोपचित-विनतः पुञ्जितश् चोत्थितश् च
धूमोद्गारस् तरुण-महिष-स्कन्धो ऽनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्र-भङ्गान् ॥
कैश्चिद् वीत-दयेन भोग-पतिना निष्कारणोपप्लुत प्रक्षीणैर् निज-वंश-भूर् इति मितैर् अत्यज्यमानाः कुलैः
ग्रामा निस्तृण-जीर्ण-कुड्य-बहुलाः स्वैरं भ्रमद्-बभ्रवः प्रायः पाण्डु-कपोत-कण्ठ-मुखरारामे न यान्त्य् उत्कताम् ॥
दुरुपहित-हलेषासार्गल-द्वारम् आराद् प्त् परिचकित-पुरन्ध्री-पातिताभ्यर्ण-भाण्डम्
पवन-रय-तिरश्चीस् तोय-धाराः प्रतीच्छन् विशति वलित-शृङ्गः पामरागारम् उक्षा ॥
उत्प्लुत्या गृह-कोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो वक्त्र-स्वैर-पद-क्रमैर् उपगताः किंचिच् चलन्तो गले
भेकाः पूतिनि-पातिनो मिचिमिचीत्य् उन्मीलितार्र्धेक्षणाः नक्राकार-विदारितानन-पुटैर् निर्मक्षिकं कुर्वते ॥
विलास-मसृणोलसन् मुसल-लोल-दोः-कन्दलीः परस्पर-परिस्खलद्-वलय-निःस्वनो दन्तुराः
चलन्ति कल-दुङ्कृति-प्रसभ-कम्पितोरः-स्थल त्रुटद्-गमक-संकुलाः कलम-कण्डनी-गीतयः ॥
विकासयति लोचने स्पृशति पाणिना कुञ्चिते विदूरम् अवलोकयत्य् अतिसमीप-संस्थं पुनः
बहिर् व्रजति सातपे स्मरति नेत्र-वर्तेः पुमान् जरा-प्रमुख-संस्थितः समवलोकयन् पुस्तकम् ॥
प्रायो रथ्या-स्थल-भुवि रजः-प्राय-दूर्वा-लतायां जाल्मैः पृष्ठापहृत-सलवाः सक्षुधो माम् अहोक्षाः
स्वैरं श्वासानिल-तरलितोद्भूत-धूली-प्रवेश प्लुष्ट-प्राणा विहित-विधुत-ग्रास-विघ्नं चरन्ति ॥
सीमनि लघु-पङ्कायाम् अङ्कुर-गौराणि चञ्चितोरस्काः ।
लघुतरम् उत्प्लवमानाश् चरन्ति बीजान्ति कलविङ्काः ॥
क्वणद्-वलय-संतति-क्षणम् उदञ्चि-दोष्कन्दली गलत्-पट-समुन्मिषत्-कुच-तटी-नखाङ्कावली
कराम्बुज-धृतोल्लसन्-मुशलम् उन्नमन्ती मुहुः प्रलम्बि-मणि-मालिनी कलम् अकण्डनी राजते ॥
उत्पुच्छः प्रमदोच्छ्वसद् वपुर् अधो-विस्रंसि-पक्ष-द्वयः स्वैरोत्फाल-गति-क्रमेण परितो भ्रान्त्वा सलीलं मुहुः
उत्कण्ठालस-कूजितः कल-रुतां भूयो रिरंसा-रस न्यग्-भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः क्षणम् ॥
सिद्धार्थ-यष्टिषु यथोत्तर-हीयमान संस्थान-बद्ध-फल-सूचित-परम्परासु
विच्छिद्यमान-कुसुमासु जनि-क्रमेण पाक-क्रमः कपिशिमानम् उपादधाति ॥
बकोटाः पान्थानां शिशिर-सरसी-सीम्नि सरताम् अमी नेत्रानन्दं ददति चरणाचोटित-मुखाः
धुनाना मूर्धानं गल-बिल-गलत्-स्फार-शफर स्फुरत्-पुच्छानच्छ-व्यतिकर-स-बाष्पाकुल-दृशः ॥
तिर्यक्-तीक्ष्ण-विषाण-युग्म-चलन-व्यानम्र-कण्ठाननः किंचित्-कुञ्चित-लोचनः खुर-पुटेनाचोटयन् भूतलम्
निश्वासैर् अतिसंततैर् बुष-कणा-जालं खले विक्षिपन्न् उक्षा गोष्ठ-तटीषु लब्ध-विजयो गो-वृन्दम् आस्कन्दति ॥
अर्चिर्-माला-करालाद् दिवम् अभिलिहतो दाव-वह्नेर् अदूराद् उड्डीयोड्डीय किंचिच्-छलभ-कवलनानन्द-मन्द-प्रचाराः
अग्रे ऽग्रे संरटन्तः प्रचुरतर-मसीपात-दुर्लक्ष-धूम्राः धूम्याटाः पर्यटन्ति प्रतिविटपम् अमी निष्ठुराः स्व-स्थलीषु ॥
नीवारौदन-मण्डम् उष्ण-मधुरं सद्यः-प्रसूत-प्रिया पीताद् अप्य् अधिकं तपो-वन-मृगः पर्याप्तम् आचामति
गन्धेन स्फुरता मनाग् अनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धू-फल-मिश्र-शाक-पचनामोदः परिस्तीर्यते ॥
मधुरम् इव वदन्तः स्वागतं भृङ्ग-शब्दैर् नतिम् इव फल-नम्रैः कुर्वते ऽमी शिरोभिः
मम ददत इवार्घं पुष्प-वृष्टिं किरन्तः कथय नति-सपर्यां शिक्षिताः शाखिनो ऽपि ॥
अस्मिन् वृद्ध-वनेचरी-करतलैर् दत्ताः सपञ्चाङ्गुलाः . . . . . . . . शिखरिभिः शृङ्गैः करालोदराः
द्वारोपान्त-पशूकृतार्प्य-पुरुष-क्षुब्धास्थि-किर्मीरिताःकिर्मीरिताश् चित्तोत्कम्पम् इवानयन्ति गहनाः कान्तार . . . . ॥
तैस् तैर् जीवोपहारैर् इह कुहर-शिलासंश्रयाम् अर्चयित्वा देवीं कान्तार-दुर्गां रुधिरम् उपतरु-क्षेत्र-पालाय दत्त्वा
तुम्बी-वीना-विनोद-व्यवहित-सरकाम् अह्नि जीर्णे पुराणीं हालां मालूर-कोषैर् युवति-सहचरा बर्बराः शीलयन्ति ॥
अभिनव-मुख-मुद्रं क्षुद्र-कूपोपवीतं प्रशिथिल-विपुलत्वं ज्वालकोच्छ्वासि-पालम्
परिणति-परिपाटि-व्याकृतेनारुणिम्ना हत-हरितिम् अशेषं नाग-रङ्गं चकास्ति ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0