सुभाषितरत्नकोश · अध्याय 34
उद्दाम-द्विरदावलून-बिसिनी-सौरभ्य-संभावित व्योमानः कलहंस-कम्पित-गरुत्-पाली-मरुन्-मांसलाः
दूरोत्तान-तरङ्ग-लङ्घन-जला-जङ्घाल-गर्व-स्पृशः कर्पूर-द्रव-शीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः ॥
अन्ध्री-नीरन्ध्र-पीन-स्तन-तट-लुठनायासमन्द-प्रचाराश् चारून्नुल्लासयन्तो द्रविड-वर-वधू-हारि-धम्मिल्ल-भारान्
जिघ्रन्तः सिंहलीनां मुख-कमल-मलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलय-परिमला वायवो दाक्षिणात्याः ॥
लतां पुष्पवतीं स्पृष्ट्वा कृत-स्नानो जलाशये
पुनस् तत्-सङ्ग-शङ्कीव वाति वातः शनैः शनैः ॥
कान्ता-कर्षण-लोल-केरल-वधू-धमिल्ल-मल्ली-रजश् चौराश् चोड-नितम्बिनी-स्तन-तटे निष्पन्दताम् आगताः
रेवा-शीकर-धारिणो ऽन्ध्र-मुरल-स्त्री-मान-मुद्राभिदोअः वाता वान्ति नवीन-कोकिल-वधू-हूङ्कार-वाचालिताः ॥
धुनानः कावेरी-परिसर-भुवश् चम्पक-तरून् मरुन् मन्दं कुन्द-प्रकर-मकरन्दान् अवकिरन्
प्रिय-प्रेमाकर्ष-च्युत-रचनम् आमूल-सरलं ललाटे लाटीनां लुठितम् अलकं ताण्डवयति ॥
वहति ललित-मन्दः कामिनी-मान-बन्धं श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः
वितरति घन-सारामोदम् अन्तर्-धुनानो जलधि-जल-तरङ्गान् खेलयन् गन्ध-वाहः ॥
भुक्त्वा चिरं दक्षिण-दिग्-वधूम् इमां विहाय तस्या भयतः शनैः शनैः
स-गन्ध-सारादि-कृताङ्ग-भूषणः प्रयात्य् उदीचीं दयिताम् इवानिलः ॥
वाति व्यस्त-लवङ्ग-लोध्र-लवली-कुञ्जः करञ्ज-द्रुमान् आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मि-माला-जडः
स्वैरं दक्षिण-सिन्धु-कूल-कदली-कच्छोपकण्ठोद्भवः कावेरी-तट-ताडि-ताडन-तटत्कारोत्तरो मारुतः ॥
चुम्बन्न् आननम् आलुठन् स्तन-तटीम् आन्दोलयन् कुन्तलं व्यस्यन्न् अंशुक-पल्लवं मनसिज-क्रीडां समुल्लासयन्
अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति ॥
अलीनां मालाभिर् विरचित-जटा-भार-महिमा परागैः पुष्पाणाम् उपरचित-भस्म-व्यतिकरः
वनानाम् आभोगे कुसुमवति पुष्पोच्चय-परो मरुन् मन्दं मन्दं विचरति परिव्राजक इव ॥
शष्प-श्यामलिताल-वाल-निपतत्-कुल्याजल-प्लावित क्रीडोद्यान-निकेतनाजिर-जुषाम् अस्पृष्ट-भू-रेणवः
सुप्तं संप्रति बोधयन्ति शनकैश् चेतो-भुवं कामिनां प्रत्यग्र-स्फुट-मल्लिका-सुरभयः सायन्ंतना वायवः ॥
अद्याभोगिनि गाढ-मर्म-निवहे हर्माग्र-वेदी-जुषां सद्यश् चन्दन-शोषिणि स्तन-तटे सङ्गे कुरङ्गी-दृशाम्
प्रायः प्रश्लथयन्ति पुष्प-धनुषः पुष्पाकरे निष्ठिते निर्वेदं नव-मल्लिका-सुरभयः सायं नया वायवः ॥
शिशिर-शीकर-वाहिनि मारुते चरति शीत-भयाद् इव सत्वरः
मनसिजः प्रविवेश वियोगिनी हृदयम् आहित-शोक-हुताशनः ॥
दीर्घान् मुक्तः सपदि मलयाधित्य-कायाः प्रसङ्गाद् आविष्कुर्वन् प्रणय-पिशुनं सौरभं चन्दनस्य
मन्दं मन्दं निपतति चिराद् आगतो माधवीषु व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः ॥
प्रभाते सन्नद्ध-स्तनित-महिमानं जलधरं स्पृशन्तः सर्वत्र स्फुटित-वन-मल्ली-सुरभयः
अमी मन्दं मन्दं सुरत-समर-श्रान्त-तरुणी ललाट-स्वेदाम्भः-कण-परिमुषो वान्ति मरुतः ॥
सुरत-भर-खिन्न-पन्नग-विलासिनी-पान-केलि-जर्जरितः ।
पुनर् इह विरहि-श्वासैर् मलय-मरुन् मांसली-भवति ॥
एते पल्ली-परिवृढ-वधू-प्रौढ-कन्दर्प-केलि क्लिष्टापीत-स्तन-परिसर-स्वेद-संपद्-विपक्षाः
वान्ति स्वैरं सरसि सरसि क्रोड-दंष्ट्रा-विमर्द त्रुट्यद्-गुन्द्रा-परिमल-गुण-ग्राहिणो गन्धवाहाः ॥
नाधन्यैः शङ्ख-पाणेः क्षण-धृत-गतयः प्रांशुभिश् चन्द्रकान्त प्रासादैर् द्वारकायां तरलित-चरमाम्भोधि-नीराः समीराः
सेव्यन्ते नित्य-माद्यत्-करि-काठिन-करा-स्फाल-काल-प्रबुद्ध क्रुध्यत्-पञ्चाननाग्र-ध्वनि-भर-विगलद्-गुग्गुलूद्गार-गर्भाः ॥
हिम-स्पर्शाद् अङ्गे घन-पुलक-जालं विदधतः पिक-त्रोटी-त्रुट्यद्-विकच-सहकाराङ्कुर-लिहः
अमी स्वैरं स्वैरं मलय-मरुतो वान्ति दिनजं दिनापाये चक्षुः-क्लमम् अपहरन्तो मृगदृशाम् ॥
अयम् उषसि विनिद्र-द्राविडी-तुङ्ग-पीन स्तन-परिसर-सान्द्र-स्वेद-बिन्दूपमर्दी
स्रुत-मलयज-वृक्ष-क्षीर-सौरभ्य-सभ्यो वहति सखि भुजङ्गी-भुक्त-शेसः समीरः ॥
ये दोलाकेलिकाराः किम् अपि मृग-दृशां मन्यु-तन्तु-च्छिदो ये सद्यः शृङ्गार-दीक्षा-व्यतिकर-गुरवो ये च लोक-त्रये ऽपि
ते कण्ठे लोठयन्तः पर-भृत-वयसां पञ्चमं राग-राजं वान्ति स्वैरं समीराः स्मर-विजय-महा-साक्षिणो दाक्षिणात्याः ॥
दरोन्मीलच्-चूड-प्रकर-मुकुलोद्गार-सुरभिः लतालास्य-क्रीडा-विधि-निविड-दीक्षा-परिचयः
विभिन्दन्न् उद्यानान्य् अतनु-मकरन्द-द्रव-हर श्रम-स्वैरो वायुर् मनसिज-शरैर् जर्जरयति ॥
श्रान्ताश् चूत-वनानि कुञ्ज-पटल-प्रेङ्खोलनाद् उन्मिषन् मल्ली-कुड्मल-सान्द्र-सौरभ-सरित्-संस्यन्द-शृङ्गारिणः
एते संवसथोपकण्ठ-विलसद्-वृष्ट्य्-अम्बु-वीची-चयोन् मीलद्-बाल-तुषार-शीकर-किरौ क्रीडन्ति झञ्झानिलाः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0