सुभाषितरत्नकोश · अध्याय 33
अये मुक्ता-रत्न प्रसर बहिर् उद्द्योतय गृहान् अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान्
किम् अत्रैवात्मानं जरयसि मुधा शुक्ति-कुहरे महा-गम्भीरो ऽयं जलधिर् इह कस् त्वां गणयति ॥
अप्रत्याकलित-प्रभाव-विभवे सर्वाश्रयाम्भोनिधौ वासो नाल्प-तपः-फलं यद् अपरं दोषो ऽयम् एको महान्
शम्बूको ऽपि यद् अत्र दुर्लभतरैर् रत्नैर् अनर्घैः सह स्पर्धाम् एक-निवास-कारण-वशाद् एकान्ततो वाञ्छति ॥
पद्माकरः परिमितो ऽपि वरं स एव यस्य स्व-काम-वशतः परिभुज्यते श्रीः
किं तेन नीर-निधिना महता तटे ऽपि यस्योर्मयः प्रकुपिता गलहस्तयन्ति ॥
नीरे ऽस्मिन् अमृतांशुम् उत्सुकतया कर्तुं करे कौतुकिन् मा निम्ने ऽवतरार्जवाद् इयम् अधस् तस्य प्रतिच्छायिका
मर्त्ये ऽस्य ग्रहणं क्व दर्शन-सुधाप्य् उन्मुक्त-नेत्र-श्रियां स्वर्-लोके ऽपि लवः शवेश्वर-जटा-जूटैक-चूडामणिः ॥
केनासीनः सुखम् अकरुणेनाकराद् उद्धृतस् त्वं विक्रेतुं वा त्वम् अभिलषितः केन देशान्तरे ऽस्मिन्
यस्मिन् वित्त-व्यय-भर-सहो ग्राहकस् तावद् आस्तां नास्ति भ्रातर् मरकत-मणे त्वत्-परीक्षाक्षमो ऽपि ॥
मूर्धारोपण-सत्कृतैर् दिशि दिशि क्षुद्रैर् विहङ्गैर् गतं छाया-दान-निराकृत-श्रम-भरैर् नष्टं मृगैर् भीरुभिः
हा कष्टं फल-लोलुपैर् अपसृतं शाखामृगैश् चञ्चलैर् एकेनैव दवानल-व्यतिकरः सोढः परं शाखिना ॥
अयं वाराम् एको निलय इति रत्नाकर इति श्रितो ऽस्माभिस् तृष्णा-तरलित-मनोभिर् जलनिधिः
क एवं जानीते निज-कर-पुटी-कोटर-गतं क्षणादेनं ताम्यत्-तिमि-मकरम् आपास्यति मुनिः ॥
जन्म व्योम-सरः-सरोज-कुहरे मित्राणि कल्प-द्रुमाः क्रीडा स्वर्ग-पुरन्ध्रिभिः परिचिताः सौवर्ण-वल्ली-स्रजः
अप्य् अस्माद् अवतार एव भवतो नोन्माद-भेरी-रवः सम्यङ् मूर्छिति-केलयः पुनर् इमे भृङ्ग द्विर् अभ्याहतिः ॥
अङ्गेनाङ्गम् अनुप्रविश्य मिलतो हस्तावलेपादिभिः का वार्ता युधि गन्ध-सिन्धुर-पतेःग्र् गन्धो ऽपि चेत् के द्विपाः
जेतव्यो ऽस्ति हरेः स लाञ्छनम् अतो वन्दामहे ताम् अभूद् यद्-गर्भे शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥
आजन्म-स्थितयो मही-रुह इमे कूले समुन्मूलिताः कल्लोलाः क्षण-भङ्गुराः पुनर् अमी नीताः पराम् उन्नतिम्
अन्तः प्रस्तर-संग्रहो बहिर् अपि भ्रश्यन्ति गन्ध-द्रुमा भ्रातः शोण न सो ऽस्ति यो न हसति त्वत्-संपदां विप्लवे ॥
अमुं काल-क्षेपं त्यज जलद गम्भीर-मधुरैः किम् एभिर् निर्घोषैः सृज झटिति झात्कारि सलिलम्
अये पश्यावस्थाम् अकरुण-समीर-व्यतिकर स्फुरद्-दाव-ज्वालावलि-जटिल-मूर्तेर् विटपिनः ॥
युक्तं त्यजन्ति मधुपाः सुमनो-विनाश काले यद् एनम् अवनी-रुहम् एतद् अस्तु
एतत् त्व् अदृष्ट-चरम् अश्रुत-वार्तम् एताः शाखा-त्वचो ऽपि तनु-काण्ड-समास् त्यजन्ति ॥
स वन्द्यः पाथोदः स खलु नयनानन्द-जननः परार्थे नीचे ऽपि व्रजति लघुतां यो ऽर्थि-सुभगाम्
कथापि श्रोतव्या भवति हत-केतोर् न च पुनर् जनानां ध्वंसाय प्रभवति हि यस्योद्गतिर् अपि ॥
उदञ्चद्-धर्मांशु-द्युति-परिचयोन्निद्र-बिसिनी घनामोदाहूत-भ्रमर-भर-झङ्कार-मधुराम्
अपश्यत् कासार-श्रियम् अमृत-वर्ति-प्रणयिनीं सुखं जीवत्य् अन्धूदरविवरवर्ति प्लव-कुलम् ॥
सुवर्णकार श्रवणोचितानि वस्तूनि विक्रेतुम् इहागतस् त्वम्
कुतो ऽपि नाश्रावि यद् अत्र पल्ल्यां पल्लीपतिर् यावद् अविद्ध-कर्णः ॥
यस्यावन्ध्य-रुषः प्रताप-वसतेर् नादेन धैर्य-द्रुहां शुष्यन्ति स्म मद-प्रवाह-सरितः सद्यो ऽपि दिग्-दन्तिनाम्
दैवात् कष्ट-दशा-वशं गतवतः सिंहस्य तस्याधुना कर्षत्य् एष करेण केशर-सटाभारं जरत्-कुञ्जरः ॥
उत्क्रान्तं गिरि-कूट-लङ्घन-सहं ते वज्र-सारा नखास् तत्-तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान्
आलस्याद् अविमुञ्चता गिरि-गुहां सिंहेन निद्रालुना सर्वं विश्व-जयैक-साधनम् इदं लब्धं न किंचित् कृतम् ॥
हंहो जनाः प्रतिपथं प्रतिकाननं च तिष्ठन्तु नाम तरवः फलिता नताश् च
अन्यैव सा स्थितिर् अहो मलय-द्रुमस्य यद् गन्ध-मात्रम् अपि तापम् अपाकरोति ॥
यन् नीड-प्रभवो यद् अञ्जन-रुचिर् यत् खेचरो यद् द्विजस् तेन त्वं स्वजनः किलेति करटैर् यत् तैर् उपब्रूयसे
तत्रातीन्द्रिय-मोदि-मांसल-रसोद्गारस् तवैष ध्वनिर् दोषो ऽभूत् कलकण्ठ-नायक निजस् तेषां स्वभावो हि सः ॥
किं ते नम्रतया किम् उन्नततया किं ते घन-च्छायया किं ते पल्लव-लीलया किम् अनया चाशोक पुष्प-श्रिया
यत् त्वन्-मूल-निषण्ण-स्विन्न-पथिक-स्तोमः स्तुवन्न् अन्व् अहो न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः ॥
कल्याणं नः किम् अधिकम् इतो वर्तनार्थं यद् अस्माल् लूत्वा वृक्षान् अहह दहसि म्रात-रङ्गार-कार
किं त्व् एतस्मिन्न् अशनि-पिशुनैर् आतपैर् आकुलानाम् अध्वन्यानाम् अशरण-मरु-प्रान्तरे को ऽभ्युपायः ॥
रज्ज्वा दिशः प्रवितताः सलिलं विषेण पाशैर् मही हुतवह-ज्वलिता वनान्ताः
व्याधाः पदान्य् अनुसरन्ति गृहीत-चापाः कं देशम् आश्रयतु यूथपतिर् मृगाणाम् ॥
आदाय वारि परितः सरितां शतेभ्यः किं नाम साधितम् अनेन महार्णवेन
क्षारीकृतं च वडवा-दहने हुतं च पाताल-कुक्षि-कुहरे विनिवेशितं च ॥
सोढ-प्रौढ-हिम-क्लमानि शनकैः पत्राण्य् अधः कुर्वते संभाव्य-च्छद-वाञ्छयैव तरवः केचित् कृतघ्न-व्रताः
नामन्य् अन्त तदातनीम् अपि निज-च्छायाक्षितिं तैः पुनस् तेषाम् एव तले कृतज्ञ-चरितैः शुष्यद्भिर् अप्य् आस्यते ॥
मदोष्मा-संतापाद् वन-करि-घटा यत्र विमले ममज्जुर् निःशेषं तट-निकट एवोन्नत-कराः
गते दैवाद् शोषं वर-सरसि तत्रैव तरला बक-ग्रास-त्रासाद् विशति शफरी पङ्कम् अधुना ॥
यद् वीचीभिः स्पृशसि गगनं यच् च पाताल-मूलं रत्नैर् उद्योतयसि पयसा यत् धरित्रीं पिधत्से
धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रु-धारास् तीरे नीर-ग्रहण-विमुखैर् अध्वगैर् उज्झितो ऽसि ॥
लोला श्रीः शश-भृत्-कलङ्क-मलिनः क्रूरो मणि-ग्रामणीर् माद्यत्य् अत्रभ्रमु-वल्लभो ऽपि सततं तत् कालकूटं विषम्
इत्य् अन्तः-स्व-कुटुम्ब-दुर्नय-परामर्शाग्निना दह्यते बाढं वाडव-नामधेय-दहन-व्याजेन वारां निधिः ॥
यन् मार्गोद्धुर-गन्ध-वात-कणिकातङ्कार्ति-नाना-दरी कोणोदञ्चद्-उरो-निगूहित-शिरः-पुच्छा हरीणां गणाः
दृप्यद्-दुर्दम-गन्ध-सिन्धुर-जयोत्खातो ऽपि कामं स्तुतिः स्मेरो ऽयं शरभः परां हृदि घृणाम् आयाति जाति-स्मरः ॥
एकेनापि पयोधिना जलमुचस् ते पूरिताः कोटिशो जातो नास्य कुशाग्र-लीन-तुहिन-श्लक्ष्णो ऽपि तोय-व्ययः
आहो शुष्यति दैव-दृष्टि-वलनाद् अम्भोभिर् अम्भो-मुचः संभूयापि विधातुम् अस्य रजसि स्तैमित्यम् अप्य् अक्षमाः ॥
मर्यादा-भङ्ग-भीतेर् अमित-रसतया धैर्य-गाम्भीर्य-योगान् न क्षुभ्यन्त्य् एव तावन् नियमित-सलिलाः सर्वदैते समुद्राः
आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैव-योगात् तदानीं न क्षोणी नाद्रि-वर्गा न च रवि-शशिनौ सर्वम् एकार्णवं स्यात् ॥
श्रुतं दूरे रत्नाकर इति परं नाम जलधेर् न चास्माभिर् दृष्टा नयन-पथ-गम्यस्य मणयः
पुरो नः संप्राप्तास् तट-भुवि सलिप्सं तु वसताम् उदग्राः कल्लोलाः स्फुट-विकट-दंष्ट्राश् च मकराः ॥
सुच्छायं फल-भार-नम्र-शिखरं सर्वार्ति-शान्ति-प्रदं त्वाम् आलोक्य महीरुहं वयम् अमी मार्गं विहायागताः
अन्तस् ते यदि कोटरोदर-चलद्-व्यालावली-विस्फुरद् वक्तोद्वान्त-विषानलातिभयदं वन्द्यस् तदानीं भवान् ॥
परभृत-शिशो मौनं तावन् विधेहि नभस्तलोत् पतन-विधये पक्षौ स्यातां न यावद् इमौ क्षमौ
ध्रुवम् इतरथा द्रष्टव्यो ऽसि स्वजाति-विलक्षण ध्वनित-कुपित-ध्वाङ्क्ष-त्रोटी-पुटाहति-जर्जरः ॥
मज्जत्-कोठर-नखर-क्षत-कृत्ति-कृत्त रक्त-च्छटाछुरित-केसर-भार-कायः
सिंहो ऽप्य् अलङ्घ्य-महिमा हरिनाम् अधेयं धत्ते जरत्-कपिर् अपीति किम् अत्र वाच्यम् ॥
क्व मलय-तटी जन्म-स्थानं क्व ते च वनेचराः क्व खलु परशु-च्छेदः क्वासौ दिग्-अन्तर-संगतिः
क्व च खर-शिला-पट्टे घृष्टिः क्व पङ्क-सरूपता मलयज सखे मा गाः खेदं गुणास् तव दूषणम् ॥
वदत विदत-जम्बूद्वीप-संवृत्त-वार्तां कथम् अपि यदि दृष्टं वारिवाहं विहाय
सरिति सरसि सिन्धौ चातकेनार्पितो ऽसाव् अपि वहल-पिपासा-पांशुलः कण्ठ-नालः ॥
उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक्-कर्मणा लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता
गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते वाडवम् ॥
उन्मुक्त-क्रम-हारि-मेरु-शिखरात् क्रामन्तम् अन्यो धरः को ऽत्र त्वां शरभी-किशोर-परिषद्-धौरेय धर्तुं क्षमः
तस्माद् दुर्गम् अशृङ्गल घन-कला-दुर्लालितात्मन् व्रज त्वद्-वासाय स एव कीर्ण-कनक-ज्योत्स्नो गिरीणां पतिः ॥
दुर्दिनानि प्रशान्तानि दृष्टस् त्वं तेजसां निधिः
अथाशाः पूरयन्न् एव किं मेघैर् व्यवधीयते ॥
व्याप्याशाः शयितस्य वीचि-शिखरैर् उल्लिख्य खं प्रेङ्खतः सिन्धोर् लोचन-गोचरस्य महिमा तेषां तनोत्य् अद्भुतम्
संश्लिष्टाङ्गुलि-रन्ध्र-लीन-मकर-ग्राहावलिर् नीरवो यैर् नायं कर-शुक्तिकोदर-लघुर् दृष्टो मुनेर् अञ्जलौ ॥
भेकैः कोटर-शायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः पाठीनैस् पृथु-पङ्कपीठ-लुठनाद् अस्मिन् मुहुर् मूर्च्छितम्
तस्मिन्न् एव सरस्य् अकाल-जलदेनागत्य तच् चेष्टितं येनाकुम्भ-निमग्न-वन्य-करिणां यूथैः पयः पीयते ॥
हंहो सिंह-किशोरक त्यजसि चेत् कोपं वदामस् तदा हत्वैनं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता
एवं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो नालं प्लावयितुं जगज्-जल-निधिर् धैर्यम् यद् आलम्बते ॥
सत्यं पिप्पल-पादपोत्तम घन-च्छायोन्नतेन त्वया सन्-मार्गो ऽयम् अलंकृतः किम् अपरं त्वं मूर्ति-भेदो हरेः
किं चान्यत्-फल-भोग-कृष्ट-मुखरास् त्वाम् आश्रिताः पत्रिणो यत्-पुंस्कोकिल-कूजितं विदधते तन् नानुरूपं परम् ॥
न्यग्रोधे फल-शालिनि स्फुट-रसं किंचित् फलं पच्यते बीजान्य् अङ्कुर-गोचराणि कतिचित् सिध्यन्ति तत्रापि च
एकस् तत्र स कश्चिद् अङ्कुर-वरो बध्नाति ताम् उन्नतिं याम् अध्यन् यजनः स्वमातरम् इव क्लान्ति-च्छिदे धावति ॥
एतस्मिन् कुसुमे स्वभाव-महति प्रायो गरीयः फलं रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया
शाल्मल्याः परिपाक-काल-कलना-रोधेन कीरः स्थितो यावत् तत्-पुट-सन्धि-निर्गत-पतत्-तूलं फलात् पश्यति ॥
माधुर्याद् अतिशैत्यतः शुचितया संताप-शान्त्या द्वयोः स्थाने मैत्र्यम् इदं पयः पय इति क्षीरस्य नीरस्य च
तत्राप्य् अर्णसि वर्णना स्फुरति मे यत्-संगतौ वर्धते दुग्धं येन पुरैव चास्य सुहृदः क्वाथे स्वयं क्षीयते ॥
दारैः क्रीडितम् उन्मदैः सुर-गुरोस् तेनैव नैवामुना भग्नं भूरि सुरासुर-व्यतिकरे तेनैव नैवामुना
नैवायं स इमं नृजः स इव वा नैवैष दोषाकरः को ऽयं भोः शशिनीव लोचनवताम् अर्के कलङ्कः समः ॥
आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति ।
विद्मो न हन्त दिवसाः कस्य किम् एते करिष्यन्ति ॥
उपालभ्यो नायं सकल-भुवनाश्चर्य-महिमा हरेर् नाभी-पद्मः प्रभवति हि सर्वत्र नियतिः
यद् अत्रैव ब्रह्मा पिबति निजम् आयुर् मधु पुनर् विलुम्पन्ति स्वेदाधिकम् अमृत-हृद्यं मधुलिहः ॥
यदा हत्वा कृत्स्नां तिमिर-पटलीं जात-महिमा जगन्-नेत्रं मित्रः प्रभवति गतो ऽसाव् अवसरः
इदानीम् अस्ताद्रिं श्रयति गलितालोक-विभवः पिशाचा वल्गन्तु स्थगयतु तमिस्रं च ककुभः ॥
उपाध्वं तत् पान्थाः पुनर् अपि सरो मार्ग-तिलकं यद् आसाद्य स्वेच्छं विहरथ विनीत-क्लम-भराः
इतस् तु क्षाराब्धेर् जरठ-मकर-क्षुण्ण-पयसो निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि ॥
स-लीलं हंसानां पिबति निवहो यत्र विमलं जलं तस्मिन् मोहात् सरसि रुचिरे चातक-युवा
स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनैः किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥
प्रसीद प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां हरे जीमूतानां ध्वनिर् अयम् उदीर्णो न करिणाम्
असंज्ञाः खल्व् एते जल-शिखि-मरुद्धूस-निचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदम् इदम् ॥
अकस्माद् उन्मत्त प्रहरसि किम् अध्व-क्षिति-रुहं ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्ल-नलिनम्
तदा जानीमस् ते करिवर बलोद्गारम् असमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चानन-शिशोः ॥
समुद्रेणान्तस्थस् तट-भुवि तरङ्गैर् अकरुणैः समुत्क्षिप्तो ऽस्मीति त्वम् इह परितापं त्यज मणे
अवश्यं को ऽपि त्वद्-गुण-परिचयाकृष्ट-हृदयो नरेन्द्रस् त्वां कुर्यान् मुकुट-मकरी-चुम्बित-रुचिम् ॥
अशोके शोकार्तः किम् असि बकुले ऽप्य् आकुल-मनाः निरानन्दः कुन्दे सह च सहकारैर् न रमसे
कुसुम्भे विश्रम्भं यद् इह भजसे कण्टक-शतैर् असंदिग्धं दग्ध-भ्रमर भवितासि क्षत-वपुः ॥
पातः पूष्णो भवति महते नैव खेदाय यस्मात् कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये
एतावत् तु व्यथयति यदालोक-बाह्यैस् तमोभिस् तस्मिन् एव प्रकृति-महति व्योम्नि लब्धो ऽवकाशः ॥
कश्चित् कष्टं किरति करका-जालम् एको ऽतिमात्रं गर्जत्य् एव क्षिपति विषमं वैद्युतं वह्निम् अन्यः
सूते वातं जवनम् अपरस् तेन जानीहि तावत् किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ॥
मा सञ्चैषीः फल-समुदयं मा च पत्रैः पिधास् त्वं रोधः-शाखिन् वितर तद् इदं दानम् एवानुकूलम्
नूनं प्रावृत्-समय-कलुषैर् ऊर्मिभिस् ताल-तुङ्गैर् अद्य श्वो वा सरिद् अकरुणा त्वां श्रिया पातयित्री ॥
आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः साक्षाल् लक्ष्म्यास् तव मलयज द्रष्टुम् अभ्यागताः स्मः
पश्यामः किं सुभग भवतः क्रीडति क्रोड एव व्याडस् तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥
अणुर् अपि ननु नैव क्रोड-भूषास्य काचिद् परिभजसि यद् एतत् तद्-विभूतिस् तथैव
इह सरसि मनोज्ञे संततं पातुम् अम्भः श्रम-परिभव-मग्नाः के न मग्नाः करीन्द्राः ॥
नभसि निरवलम्बे सीदता दीर्घ-कालं त्वद्-अभिमुख-निविष्टोत्तान-चञ्चु-पुटेन
जलधर-जल-धारा दूरतस् तावद् आस्तां ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन ॥
श्रम-परिगतैर् विस्तीर्ण-श्रीर् असीति पयः परं कतिपयम् अपि त्वत्तो ऽस्माभिः समुद्र समीहितम्
किम् असि नितराम् उक्त्षुभोर्मिः प्रसीद नमो ऽस्तु ते पथि पथि शिवाः सन्त्य् अस्माकं शतं कमलाकराः ॥
ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं मलयजसमो दृष्टो ऽस्माभिर्न को ऽपि महीरुहः
उपचितरसो दाहे च्छेदे शिलातलघर्षणे ऽप्य् अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् ॥
अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्-तरङ्गान्
विसहति गरुतं रुतं विधत्ते जल-पृषते कियते ऽपि चातको ऽयम् ॥
बद्धो ऽसि विद्धि तावन् मधु-रसन व्यसनम् ईदृग् एतद् इति ।
अनवहित-कमल-मीलन मधुकर किं विफलम् उत्फलसि ॥
हृत्वापि वसु-सर्वस्वम् अमी ते जलदाः सखि ।
मित्राप्य् अपकुर्वन्ति विप्रियाणां तु का कथा ॥
श्री-फलेनामुनैवायं कुरुते किं न वानरः
हसत्य् उल्लसति प्रेङ्खत्य् अधस्ताद् ईक्षते जनम् ॥
अन्यो ऽपि चन्दन-तरोर् महनीय-मूर्तेः सेकार्थम् उत्सहति तद्-गुण-बद्ध-तृष्णः
शाखोटकस्य पुनर् अस्य महाशयो ऽयम् अम्भोद एव शरणं यदि निर्गुणस्य ॥
त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम विद्युल्-लताभिर् अभितर्जय नाम भूयः
प्राचीन-कर्म-परतन्त्र-निज-प्रवृत्तेर् एतस्य पश्य विहगस्य गतिस् त्वम् एव ॥
आमन्थिनी-कलश एष स-दुग्ध-सिन्धुर् वेत्रं च वासुकिर् अयं गिरिर् एष मन्थः
संप्रत्य् उपोढ-मद-मन्थर-बाहु-दण्ड कण्डूयनावसर एव सुरासुराणाम् ॥
व्याकुर्महे बहु किम् अस्य तरोः सदैव नैसर्गिको ऽयम् उपकार-रसः परेषु
उन्मूलितो ऽपि मरुता बत वारि-दुर्ग मार्गे यद् अत्र जन-संक्रमताम् उपेतः ॥
विस्रं वपुः पर-वध-प्रवणं च करम् तिर्यक्तयैव कथितः सद्-असद्-विवेकः
इत्थं न किंचिद् अपि चारु मृगाधिपस्य तेजस् तु तत् किम् अपि येन जगद्-वराकम् ॥
कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति ।
यदि सन्-मार्ग-जलाशय नक्रो न क्रोडम् अधिवसति ॥
न स्फूर्जति न च गर्जति न च करकाः किरति सृजति न च तडितः ।
न च विनिमुञ्चति वात्यां वर्षति निभृतं महा-मेघः ॥
न भवतु कथं कदम्बः प्रतिप्रतीक-प्ररूढ-घन-पुलकः ।
विश्वं धिनोति जलदः प्रत्युपकार-स्पृहा-रहितः ॥
करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना
न केवलम् अनेनात्मा दिवसो ऽपि लघूकृतः ॥
न शक्यं स्नेह-पात्राणां वितानं च विरूक्षणम्
दह्यमानान्य् अपि स्नेह व्यक्तिं कृत्वा स्फुटन्ति यत् ॥
नालम्बनाय धरणिर् न तृषार्ति-शान्त्यै सप्तापि वारि-निधयो न धनाय मेरुः
पूर्वार्जिताशुभ-वशीकृत-पौरुषस्य कल्प-द्रुमो ऽपि न समीहितम् आतनोति ॥
आश्वास्य पर्वत-कुलं तपनोष्ण-तप्तम् उद्दाम-दाव-विधुराणि च काननानि
नाना-नदीनद-शतानि च पूरयित्वा रिक्तो ऽसि यज् जलद सैव तवोन्नता श्रीः ॥
ये पूर्वं परिपालिताः फल-दल-च्छायादिभिः पत्रिणो विश्राम-द्रुमं कथ्यतां तव विपत्-काले क्व ते साम्प्रतम्
एताः संनिधि-मात्र-कल्पित-पुरस्कारास् तु धन्यास् त्वचो यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि ॥
दूरं यदि क्षिपसि भीम-जवैर् मरुद्भिः सञ्चूर्णयस्य् अपि दृढं यदि वा शिलाभिः
सौदामिनीभिर् असकृद् यदि हंसि चक्षुर् नान्या गतिस् तद् अपि वारिद चातकस्य ॥
यस्योदरे बहु-मनोरथ-मन्थरेण संचिन्तितं किम् अपि चेतसि चातकेन
हा कष्ट मिष्ट-फलदान-विधान-हेतोर् अम्भोधरात् पतति संप्रति वज्रपातः ॥
देवे काल-वशं गते सवितरि प्राप्यान्तरा-संगतिं हन्त ध्वान्त किम् एधसे दिशि दिशि व्योम्नः प्रतिस्पर्धया
तस्यैवास्तम् उपेयुषः कर-शतान्य् आदाय विध्वंसयन्न् एष त्वां कलितः कलाभिर् उदयत्य् अग्रे शशी पार्वणः ॥
धन्यस् त्वं सहकार संप्रति फलैः काकान् शुकान् पूरयन् पूर्वं तु त्वयि मुक्त-मञ्जरि-भरोन्निद्रे य इन्दिन्दरः
आक्रीडन् निमिषं स नैति फलितं यत् त्वां विकशैक-मुत् तद्-धर्मो ऽस्य फलाशया परिचयः कल्प-द्रुमे ऽप्य् अस्ति किम् ॥
यः पूर्वं स्फुटद्-अस्थि-संपुट-मुखे निर्यत्-प्रवालाङ्कुरो प्रायः स द्विदलादिक-क्रम-वशाद् आरब्ध-शाका-शतः
स्निग्धं पल्लवितो घनं मुकुलितः स्फार-च्छटं पुष्पितः सोत्कर्षं फलितो भृशं च विनतः को ऽप्य् एष चूत-द्रुमः ॥
जायन्ते बहवो ऽत्र कच्छप-कुले किं तु क्वचित् कच्छपी नैकाप्य् एकम् असूत नापि च पुनः सूतेन वा सोष्यते
आकल्पं धरणी-धरोद्वहनतः संकोच-खिन्नात्मनो यः कूर्मस्य दिनानि नाम कतिचिद् विश्राम-दान-क्षमः ॥
भव-काष्ठ-मयी नाम नौके हृदयवत्य् असि
परकीयैर् अपरथा कथम् आकृष्यसे गुणैः ॥
भगवति यामिनि वन्दे त्वयि भुवि दृष्टः पतिव्रता-धर्मः ।
गतवति रजनी-नाथे कज्जल-मलिनं वपुर् वहसि ॥
धिग् एतद् गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर् धिग् एतां द्राघीयः-प्रचलतर-कल्लोल-भुजताम्
यद् एतस्यैवाग्रे कवलित-तनुर् दाव-दहनैर् न तीरारण्यानी सलिल-चुलुकेनाप्य् उपकृता ॥
अम्भोनिधेर् अनवगीत-गुणैक-राशेर् उच्चैःश्रव-प्रभृतिषु प्रसभं हृतेषु
आश्वासनं यद् अवकृष्टम् अभून् महर्षे तोयं त्वया तद् अपि निष्करुणेन पीतम् ॥
कतिपय-दिवस-स्थायिनि मद-कारिणि यौवने दुरात्मानः ।
विदधति तथापराधं जन्मैव यथा वृथा भवति ॥
प्रशान्ताः कल्लोलाः स्तिमित-मसृणं वारि विमलं विनीतो ऽयं वेशः शमम् इव नदीनां कथयति
तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीर-पतितैः स एवाग्रे बुद्धौ परिणमति रुद्धो ऽप्य् अविनयः ॥
सततं या मध्यस्था प्रथयति यष्टिः प्रतिष्ठितासीति ।
पुष्करिणि किम् इदम् उचितं तां चेदानीम् अधो नयसि ॥
कृतम् इदम् असाधु हरिणैः शिरसि तरूणां दवानले ज्वलति ।
आजन्म केलि-भवनं यद् भीतैर् उज्झितं विपिनम् ॥
विध्वस्ता मृग-पक्षिणो विवशतां नीताः स्थली-देवता धूमैर् अन्तरिताः स्वभाव-मलिनैर् आशा मही-तापिताः
भस्मीकृत्य स-पुष्प-पल्लव-फलांस् तांस् तान् महा-पादपान् निर्वृत्तेन दवानलेन विहितं वल्मीक-शेषं वनम् ॥
कर्णाहति-व्यतिकरं करिणां विपक्ष दानं व्यवस्यति मधुव्रत एष तिक्तम्
स्मर्तव्यताम् उपगतेषु सरोरुहेषु धिक् जीवित-व्यसनम् अस्य मलीमसस्य ॥
चित्रं तद् एव महद् अश्मसु तापनेषु यद् नोद्गिरन्त्य् अनलम् इन्दुकराभिमृष्टाः
संभाव्यते ऽपि किम् इदं नु यथेन्दुकान्तास् ते पावनं च शिशिरं च रसं सृजन्ति ॥
दाह-च्छेद-निकाषैर् अति परिशुद्धस्य ते वृथा गरिमा ।
यद् असि तुलाम् अधिरूढं कांचन गुञ्जाफलैः सार्धम् ॥
सिन्धोर् उच्चैः पवन-चलनाद् उत्सलद्भिस् तरङ्गैस् कूलं नीतो हृत-विधि-वशाद् दक्षिणावर्त-शङ्खः
दग्धः किं वा न भवति मसी चेति संदेहिनीभिः शाम्बूकाभिः सह परिचितो नीयते पामरीभिः ॥
छिद्रं मणेर् गुणार्थं नायक-पद-हेतुर् अस्य तारल्यम् ।
कथम् अन्यथेश्वराणां विलुठति हृदये च मौलौ च ॥
परिणति-सुकुमार स्वादु-माकन्द निन्दां कथम् इव तव भृष्टो राजकीरः करोतु
अनवधि-कठिनत्वं नारिकेरस्य यस्मिन् वशिक-हृदय-वृत्तेर् लुप्त-सार-श्रियश् च ॥
किंपाक पाके बहिर् एव रक्त तिक्तासितान्तर् दृशि कान्तिम् एषि ।
एतावता काकम् अपास्य कस्य हृत्-प्रीति-भित्तिस् त्वम् इदं न जाने ॥
विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग् अहङ्कारः को ऽयं कतिपय-मणि-ग्राव-गुडकैः
दृशं मेरौ दद्याः स हि मणिमय-प्रस्थ-महितो महा-मौनः स्थैर्याद् अथ भुवनम् एव स्थिरयति ॥
आज्ञाम् एव मुनेर् निधाय शिरसा विन्ध्याचल स्थीयताम् अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया
मैनाकादि-महीध्र-लब्ध-वसतिं यः पीतवान् अम्बुधिं तस्य त्वां गिलतः कपोल-मिलन-क्लेशो ऽपि किं जायते ॥
अभ्युद्यत्-कवल-ग्रह-प्रणयिनस् ते शल्लकी-पल्लवास् तच् चास्फाल-सहं सरः क्षिति-भृताम् इत्य् अस्ति को निह्नुते
दन्त-स्तम्भ-निषण्ण-निःसह-करः श्वासैर् अतिप्रांशुभिर् येनायं विरही तु वारण-पतिः स्वामिन् स विन्ध्यो भवान् ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0