सुभाषितरत्नकोश · अध्याय 32
देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु सिस्नासवः कालिन्दी-सुर-सिन्धु-सङ्ग-पयसि स्नातुं समीहामहे
तद् याचेमहि सप्त-पिष्टप-शुचीभावैकतान-व्रतं संयच्छ स्वयशः सितासित-पयो-भेदाद् विवेको ऽस्तु नः ॥
किं वृत्तान्तैः पर-गृह-गतैः किंतु नाहं समर्थस् तूष्णीं स्थातुं प्रकृति-मुखरो दाक्षिणात्य-स्वभावः
देशे देशे विपणिषु तथा चत्वरे पान-गोष्ठ्याम् उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥
सा चन्द्राद् अपि चन्दनाद् अपि दर-व्याकोष-कुन्दाद् अपि क्षीराब्धेर् अपि शेषतो ऽपि फणिनश् चण्डीश-हासाद् अपि
कर्णाती-सित-दन्त-पत्र-महसो ऽप्य् अत्यन्तम् उद्द्योतिनी कीर्तिस् ते भुज-वीर्य-निर्जित-रिपोर् लोक-त्रयं भ्राम्यति ॥
त्वद्-यशो-राज-हंसस्य पञ्जरं भुवन-त्रयम्
अमी पानक-रङ्काभाः सप्तापि जल-राशयः ॥
यत् क्षारं च मलीमसं च जलधेर् अम्भस् तद् अम्भोधरैः कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा
येनानर्घतया च सुन्दरतया चेदं यशोभिस् तव स्पर्धाम् एत्य विराजते ननु परिणामो ऽद्भुतो भौतिकः ॥
दृष्टं संगर-साक्षिभिर् निगदितं वैतालिक-श्रेणिभिर् न्यस्तं चेतसि खञ्जनैः सुकविभिः काव्येषु संचारितम्
उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेषदां दारेर् उज्जयिनी-भुजङ्ग भवतश् चन्द्रावदातं यशः ॥
उत्कल्लोलस्य लक्ष्मीं लवण-जलनिधिर् लम्भितः क्षीर-सिन्धोः को विन्ध्यः कश् च गौरी-गुरुर् इति मरुताम् अभ्युदस्तो विवेकः
नीताः कर्कत्वम् अर्क-प्रवहण-हरयो हारितोत्सङ्ग-लक्ष्मा राजन्न् उद्दाम-गौरैर् अजनि च रजनी-वल्लभस् त्वद्-यशो भोः ॥
निर्मुक्त-शेष-धवलैर् अचलेन्द्र-मन्थ संक्षुब्ध-दुग्ध-मय-सागर-गर्भ-गौरैः
राजन्न् इदं बहुल-पक्ष-दलन्-मृगाङ्क च्छेदोज्ज्वलैस् तव यशोभिर् अशोभि विश्वम् ॥
स्वस्ति क्षीराब्धि-मध्यान् निज-दयित-भुजाभ्यन्तर-स्थाब्ज-हस्ता क्ष्मायाम् अक्षाम-कीर्तिं कुशलयति महा-भूभुजं भोज्य-देवम्
क्षेमं मे ऽन्यद् युगान्तावधि तपतु भवान् यद्-यशो-घोषणाभिः देवो निद्रा-दरिद्रः सफलयति हरिर् यौवन-र्द्धिं ममेति ॥
त्वत्-कीर्तिर् जात-जाड्येव सप्ताम्भोनिधि-मज्जनात्
प्रतापाय जगन्नाथ याता मार्तण्ड-मण्डलम् ॥
का त्वं, कुन्तल-मल्ल-कीर्तिर्, अहह क्वासि स्थिता, न क्वचित् सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः
वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्राम-भूः ॥
आसीद् उप्तं यद् एतद् रण-भुवि भवता वैरि-मातङ्ग-कुम्भान् मुक्ता-बीजं तद् एतत् त्रिजगति जनयामास कीर्ति-द्रुमं ते
शेषो मूलं प्रकाण्डं हिम-गिरिर् उदधिर् दुग्ध-पूरालवालं ज्योत्स्ना शाखा-प्रतानः कुसुमम् उडु-चयो यस्य चन्द्रः फलं च ॥
अद्य स्वर्ग-वधू-गणे गुणमय त्वत्-कीर्तिम् इन्दूज्ज्वलाम् उच्चैर् गायति निष्कलङ्किम-दशाम् आदास्यते चन्द्रमाः
गीता-कर्णन-मोद-मुक्त-यवस-ग्रासाभिलाषो वद स्वामिन्न् अङ्क-मृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते ॥
अभयम् अभयं देव ब्रूमस् तवासिलतावधूः कुवलयदलश्यामा शत्रोर् उरःस्थलशायिनी
समयसुलभां कीर्तिं भव्याम् असूत सुताम् असाव् अपि रमयितुं रागान्धेव भ्रमत्य् अखिलं जगत् ॥
द्याम् आवृणोति धरणी-तलम् आतनोति पाताल-मूल-तिमिराणि तिरस्करोति
हारावली-हरिण-लक्ष्म-हराट्ट-हास हेरम्ब-दन्त-हरि-शङ्ख-निभं यशस् ते ॥
देव त्वद्-यशसि प्रसर्पति शनैर् लक्ष्मी-सुधोच्चैः-श्रवश् चन्द्रैरावत-कौस्तुभाः स्थितिम् इवामन्यन्त दुग्धोदधौ
किं त्व् एकः परम् अस्ति दूषण-कणो यन् नोपयाति भ्रमात् कृष्णं श्रीः शिति-कण्ठम् अद्रि-तनया नीलाम्बरं रेवती ॥
ऐरावणन्ति करिणः फणिनो ऽप्य् अशेषाः शेषन्ति हन्त विहगा अपि हंसितारः
नीलोत्पलानि कुमुदन्ति च सर्व-शैलाः कैलासितुं व्यवसिता भवतो यशोभिः ॥
रामः सैन्य-समन्वितः कृत-शिला-सेतुर् यद् अम्भोनिधेः पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् उत्पादयेत्
एकाकिन्य् अपि सेतु-बन्ध-रहितान् सप्तापि वारां निधीन् हेलाभिस् तव देव कीर्ति-वनिता यस्मात् समुल्लङ्घति ॥
न तच् चित्रं यत् ते वितत-करवालोग्र-रसनो मही-भारं वोढुं भुज-भुजग-राजः प्रभवति
यद् उद्भूतेनेदं नव-विसलता-तन्तु-शुचिना यशो-न्रिमोकेण स्थगितम् अवनी-मण्डलम् अभूत् ॥
श्रीखण्ड-पाण्डिम-रुचः स्फुट-पुण्डरीक षण्ड-प्रभा-परिभव-प्रभवास् तुदन्ति
त्वत्-कीर्तयो गगन-दिग्-वलयं तद्-अन्तः पिण्डीभवन्-निविड-मूर्ति-परम्पराभिः ॥
अपनय महा-मोहं राजन्न् अनेन तवासिना कथय कुहक-क्रीडाश्चर्यं कथं क्व च शिक्षितम्
यद् अरि-रुधिरं पायं पायं कुसुम्भ-रसारुणं झगिति वमति क्षीराम्भोधि-प्रवाहसितं यशः ॥
त्वं काम्बोज विराजसे भुवि भवत्-तातो दिवि भ्राजते तत्-तातस् तु विभूषणः स किम् अपि ब्रह्मौकसि द्योतते
युष्माभिस् त्रिभिर् एभिर् अर्पित-तनुस् त्वत्-कीर्तिर् उज्जृम्भिणी माणिक्य-स्तवक-त्रय-प्रणयिनीं हारस्य धत्ते श्रियम् ॥
जनानुराग-मिश्रेण यशसा तव सर्पता
दिग्-वधूनां मुखे जातम् अकस्माद् अर्ध-कुङ्कुमम् ॥
इन्दोर् लक्ष्म त्रिपुर-जयिनः कण्ठ-मूलं मुरारिर् दिग्-नागानां मद-जलम् असीभाञ्जि गण्ड-स्थलानि
अद्याप्य् उर्वी-वलय-तिलक श्यामलिम्नावलिप्तान्य् आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0