सुभाषितरत्नकोश · अध्याय 31
मध्याह्ने परिपुञ्जितैस् तरुतल-च्छाया मृगैः सेव्यते कासारे स्फुटितोदरे सुनिभृतं कीटैर् अहर् नीयते
उत्सङ्ग-श्लथ-मुक्त-हस्त-युगल-न्यस्ताननः कानने झिल्ली-तोय-कणाभिषेक-सुखितो निद्रायते वानरः ॥
एतस्मिन् दिवसस्य मध्य-समये वातो ऽपि चण्डातप त्रासेनेव न संचरत्य् अहिम-गोर्-बिम्बे ललाटंतपे
किं चान्यत्-परितप्त-धूलि-लुठन-प्लोषासहत्वाद् इव च्छाया दूर-गतापि भूरुह-तले व्यावर्त्य संलीयते ॥
आदौ मान-परिग्रहेण गुरुणा दूरं समारोपिता पश्चात् ताप-भरेण तानव-कृता नीता परं लाघवम्
उत्सङ्गान्तर-वर्तिनाम् अनुगमात् संपीडिता गाम् इमां सर्वाङ्ग-प्रणय-प्रियाम् इव तरु-च्छाया समालम्बते ॥
किरति मिहिरे विष्वद्रीचः करानति-वामनी स्थल-कमठवद् देह-च्छाया जनस्य विचेष्टते
गजपति-मुखोद्गीर्णैर् आप्यैर् अपि त्रसरेणुभिः शिशिर-मधुराम् एणाः कच्छ-स्थलीम् अधिशेरते ॥
उद्दाम-द्युमणि-द्युति-व्यतिकर-प्रक्रीडद्-अर्कोपल ज्वाला-जालकटाल-जाङ्गल-तटी-निष्कूजकोयष्टयः
भौमोष्म-प्लवमान-सूर-किरण-क्रूर-प्रकाशा दृशोर् आयुः कर्म समापयन्ति धिग् अमूर् मध्ये ऽह्नि शून्या दिशः ॥
रथ्या-गर्भेषु खेला-रसिक-शिशु-गुणं त्याजयेद् पूर्वकेलीर् उद्दण्डाब्ज-च्छदाली-तलम् उपगमयेद् राजहंसी-कुलानि
अध्येतॄणां दधानं भृशम् अल-सदृशां किंचिद् अङ्गावसादं देवस्यैतत् समन्ताद् भवतु समुचित-श्रेयसे मध्यम् अह्नः ॥
काश्मर्याः कृत-मालम् उद्गत-दलं कोयष्टिकष्टीकते नीराश्मन्तक-शिम्बि-चुम्बन-मुखा धावन्त्य् अपः-पूर्णिकाः
दात्यूहैस् तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्-नीड-कपोत-कूजितम् अनुक्रन्दन्त्य् अधः कुक्कुभाः ॥
उद्दाम-ज्वलद्-अंशु-मालि-किरण-व्यर्थातिरेकाद् इव च्छायाः संप्रति यान्ति पिण्ड-पदवीं मूलेषु भूमीरुहाम्
किं चैतद्-दनुजाधिराज-युवती-वर्गावगाहोत्सरत् क्षोभोड्डीन-विहङ्ग-मण्डल-कृतालीकातपत्रं सरः ॥
धत्ते पद्म-लता-दलेप्सुर् उपरि खं कर्णतालं द्विपः शष्प-स्तम्ब-रसान् नियच्छति शिखी मध्ये शिखण्डं शिरः
मिथ्या लेढि मृणाल-कोटि-रभसाद् दंष्ट्राङ्कुरं शूकरो मध्याह्ने महिषश् च वाञ्छति निज-च्छाया-महा-कर्दमम् ॥
विशन्तीनां स्नातुं जघन-परिवेशैर् मृगदृशां यद् अम्भः संप्राप्तं प्रमद-वन-वाप्यास् तट-भुवम्
गभीरे तन् नाभी-कुहर-परिणाहे ऽध्वनि सकृत् कुहुङ्कार-स्फारं रचयति च नादं नमति च ॥
विष्वङ् मुर्मुर-नर्म बिभ्रति पथां गर्भेष्व् अदभ्राः पटु ज्योतिर् मुक्त-निरभ्र-दीधिति-घटा-निर्धूपिता धूलयः
मेघ-च्छाय-धियाभिधावति पुरो निर्दग्ध-दूर्वावनं पान्थः किं च मरीचि-वीचिषु पयः-पूर-भ्रमः क्लामति ॥
ध्वान्तानील-वनाद्रि-कोटर-गृहेष्व् अध्यासते कोकिलाः पान्थाः पोतवद् आपिबन्ति कलुषं धान्याः प्रतप्तं पयः
तल्लाम्भो वन-तामसोल्ल-निवहस्याशक्त-सूर्य-स्रुति व्रात-स्फीत-वराहसैरि-भस-भास्व-स्थैण-यूथाच् च्युतम् ॥
धूमो ऽटन्न् अटवीषु चाटु-पटलानाटीकयत्य् उच्छलत् पांशु-प्रांशु-भराभिर् आभिर् अभितो वातोर्मिभिर् वर्त्मनः
उत्सर्पद्-दव-धूम-विभ्रम-भरः किं च प्रतीचीर् अपः कुर्वन्त्य् अच्छ-मरीचि-वीचि-निचय-भ्रान्त्या ह्रदान्ते मृगाः ॥
मध्याह्ने परिनिर्मलेषु शकुलः शैवालमालाम्बुषु स्थूलत्वाज् जल-रङ्गु-निर्जित-भयः पुच्छाग्र-रोमावलीः
लीला-ताण्डव-डम्बरैर् अवकिरन् पानीय-पूर्णोदरस्ः तुण्डाग्रात् क्षण-पीत-वारि-गुडिकाम् उद्गीर्य संलीयते ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0