सुभाषितरत्नकोश · अध्याय 2
द्युति-स्वच्छ-ज्योत्स्नापट-पटल-वृष्ट्या न कमलं न चन्द्रः सान्द्र-श्री-परिमल-गरिम्णास्यम् अमलम्
मधूद्राणां निद्राभिदुरम् अपमुद्राद्भुतमुदश् चकोरान् बिभ्राणं सरसिरुह-पाणेर् अवतु वः ॥
वरद-कर-सरोज-स्यन्दमानामृतौघ व्युपशमित-समस्त-प्रेत-संघात-तर्षः
जयति सित-गभस्ति-स्तोम-शुभ्रानन-श्रीः सहज-गुरु-दयार्द्रालोकनो लोकनाथः ॥
अत्युद्गाढ-रय-स्थिराकृति-घन-ध्वान-भ्रमन्-मन्दर क्षुब्ध-क्षीरधि-वीचि-संचय-गत-प्रालेय-पादोपमः
श्रीमत्-पोतलके गभीर-विवृति-ध्वान-प्रतिध्वानिते सान्द्र-स्वांशु-चय-श्रिया वलयितो लोकेश्वरः पातु वः ॥
कृपा-वृष्टि-स्फूतात् तव हृदय-पीयूष-सरसः प्रवाहो निर्गत्य क्रम-तनिम-रम्यः करुणया
तृषार्तानाम् ईषद् विततं अधरान्तः प्रति गति प्रणालीभिः पञ्चाभवद् इति किं अन्यद् भुज-करात् ॥
रविम् इव धृतामिताभं कविम् इव सुरसार्थ-विरचित-स्तोत्रम् ।
मधुम् इव संभृत-करुणं विधुम् इव नाथं ख-सर्पणं वन्दे ॥
उदरस्येदम् अणुत्वं सहज-गुरुत्वं यदि नेदं हृदयस्य ।
स्वार्थे कथम् अलसत्वं कथम् अनुसत्वं हित-करणे मतिर् अस्य ॥
वक्त्रं नैष कलानिधिर् धवलिमा नैषोज्ज्वला कौमुदी नेत्रे नीर-रुची न लाञ्छन-युगं चन्द्रे ऽस्त्य् अमन्द-च्छवि
इत्य् उन्नीय विधोर् अभीति-विहसद् यत् संनिधिं साध्वगान् नूनं नीरजम् अस्तु वः शिव-दिवे तद् लोकनाथाननम् ॥
जटा-जूटाभ्यन्तर्-नव-रविर् इव श्याम-जलभृद् वृतः शोणाशोकस्तवकम् अमिताभः प्रमिनुते
महर्षेर् यस्येन्दु-द्युति-घटित-मूर्तेर् इव स वः क्लमं भिन्द्याद् दद्यात् प्रशम-सुख-पीयूष-लहरीम् ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0