सुभाषितरत्नकोश · अध्याय 29
शृङ्गारे सूत्रधारः कुसुम-शर-मुनेर् आश्रमे ब्रह्मचारी नारीणाम् आदिदेवस् त्रिभुवन-महितो राग-राज्ये पुरोधाः
ज्योत्स्नासत्रं दधानः पुर-मथन-जटाजूट-कोटीशयालुर् देवः क्षीरोद-जन्मा जयति कुमुदिनी-कामुकः श्वेत-भानुः ॥
शशधरः कुमुदाकर-बान्धवः कमल-षण्ड-निमीलन-पण्डितः
अयम् उदेति करेण दिग्-अङ्गनाः परिमृषन्न् इव कुङ्कुम-कान्तिना ॥
लोकाः शोकं त्यजत न चिर-स्थायिनी ध्वान्त-वृत्तिर् भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर
स्वच्छ-ज्योत्स्नामृत-रस-नदी-स्रोतसाम् एक-शैलः सो ऽयं श्रीमान् उदयति शशी विश्व-सामान्य-दीपः ॥
कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् अक्षालि स्फटिकोपलैः किम् अघटि द्याव्-आपृथिव्योर् वपुः
एतत् तर्कय कैरव-क्लम-हरे शृङ्गार-दीक्षा-गुरौ दिक्कान्तामुकुरे चकोर-सुहृदि प्रौढे तुषार-त्विषि ॥
कलाधारो वक्रः स्फुरद्-अधर-रागो नव-तनुर् गलन्-मानावेशास् तरुण-रमणीर् नागर इव
घन-श्रोणी-बिम्बे नयन-मुकुले चाधर-दले कपोले ग्रीवायां कुच-कलशयोश् चुम्बति शशी ॥
संबन्धी रघु-भूभुजां मनसिज-व्यापार-दीक्षा-गुरुर् गौराङ्गी-वदनोपमा-परिचितस् तारा-वधू-वल्लभः
चन्द्रः सुन्दरि दृश्यताम् अयम् इतश् चण्डीश-चूडामणिः सद्यो-मार्जित-दाक्षिणात्य-युवती-दन्तावदात-द्युतिः ॥
लेखाम् अनङ्ग-पुरतोरण-कान्ति-भाजम् इन्दोर् विलोकय तनूदरि नूतनस्य
देशान्तर-प्रणयिनोर् अपि यत्र यूनोर् नूनं मिथः सखि मिलन्ति विलोकितानि ॥
नैतन् नभो लवण-तोय-धिरेष पश्य छाया-पथश् च न भवत्य् अयम् अस्य सेतुः
नायं शशि निविड-पिण्डित-भोग एष शेषो न लाञ्छनम् इदं हरिर् एष सुप्तः ॥
कपाले मार्जारः पय इति करान् लेढि शशिनः तरु-च्छिद्र-प्रोतान् बिसम् इति करी संकलयति
रतान्ते तल्प-स्थान् हरति वनिताप्य् अंशुकम् इव प्रभा-मत्तश् चन्द्रो जगद् इदम् अहो विक्लवयति ॥
भवति भविष्यति किम् इदं निपतिष्यति बिम्बम् अम्बराद् शशिनः ।
अहम् अपि चन्दन-पङ्कैर् अङ्कम् अनङ्कं करिष्यामि ॥
चिताचक्रं चन्द्रः कुसुम-धनुषो दग्ध-वपुषः कलङ्कस् तत्रत्यो वहति मलिनाङ्गार-तुलनाम्
इदं त्व् अस्य ज्योतिर् दर-दलित-कर्पूर-धवलं मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥
सद्यः कुङ्कुम-पङ्क-पिच्छिलम् इव व्योमाङ्गणं कल्पयन् पश्यैरावत-कान्त-दन्त-मुसल-च्छेदोपमेयाकृतिः
उद्गच्छत्य् अयम् अच्छ-मौक्तिक-मणि-प्रालम्ब-लम्बैः करैर् मुग्धानां स्मर-लेख-वाचन-कला-केलि-प्रदीपः शशी ॥
असाव् एक-द्वि-त्रि-प्रभृति-परिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं नव-कमल-कन्दाङ्कुर-रुचः
पुरन्ध्रीणां प्रेयो-विरह-दहनोद्दीपित-दृशां कटाक्षेभ्यो बिभ्यन् निभृतम् इव चन्द्रो ऽभ्युदयते ॥
उन्मीलन्ति मृणाल-कोमल-रुचो राजीव-संवर्तिका संवर्त-व्रत-वृत्तयः कतिपये पीयूष-भानोः कराः
अप्य् उस्रैर् धवली-भवत्सु गिरिषु क्षुब्धो ऽयम् उन्मज्जता विश्वेनेव तमो-मयो निधिर् अपाम् अह्नाय फेनायते ॥
काश्मीरेण दिहानम् अम्बर-तलं वाम-भ्रुवाम् आननद् वैराज्यं विदधानम् इन्दु-दृषदां भिन्दानम् अम्भः-शिराः
प्रत्युद्यत्-पुरुहूत-पत्तन-वधू-दत्तार्घ-दूर्वाङ्कुर क्षीवोत्सङ्ग-कुरङ्गम् ऐन्दवम् इदं तद् बिम्बम् उज्जृम्भते ॥
नैवायं भगवान् उदञ्चति शशी गव्यूति-मात्रीम् अपि द्याम् अद्यापि तमस् तु कौरव-कुल-श्री-चाटु-काराः कराः
मथ्नन्ति स्थल-सीम्नि शैल-गहनोत्सङ्गेषु संरुन्धते जीव-ग्राहम् इव क्वचित् क्वचिद् अपि च्छायासु गृह्णन्ति च ॥
किं नु ध्वान्त-पयोधिर् एष कतक-क्षोदैर् इवेन्दोः करैर् अत्यच्छो ऽयम् अधश् च पङ्कम् अखिलं छायापदेशाद् अभूत्
किं वा तत्-कर-कर्तरीभिर् अभितो निस्तक्षणाद् उज्ज्वलं व्योमैवेदम् इतस् ततश् च पतिताश् छाया-छलेन त्वचः ॥
दल-वितति-भृतां तले तरूणां इह तिल-तण्डुलितं मृगाङ्क-रोचिः
मद-चपल-चकोर-चञ्चु-कोटी कवलन-तुच्छम् इवान्तरान्तर् आभूत् ॥
तथा पौरस्त्यायां दिशि कुमुद-केदार-कलिका कपाटघ्नीम् इन्दुः किरण-लहरीम् उल्ललयति
समन्ताद् उन्मीलद्-बहु-जल-बिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रति-गुण-कमेणाङ्क-मणयः ॥
भूयस् तराणि यद् अमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः
संध्यानलेन भृशम् अम्बर-मूषिकायाम् आवर्तितैर् उडुभिर् एव भृतो ऽयम् इन्दुः ॥
यं प्राक् प्रत्यग् अवाग् उदञ्चि ककुभां नामानि संबिभ्रतं ज्योत्स्ना-जाल-झल-ज्झलाभिर् अभितो लुम्पन्तम् अन्धं तमः
प्राचीनाद् अचलाद् इतस् त्रि-जगताम् आलोक-बीजाद् बहिर् निर्यान्तं हरिणाङ्कम् अङ्कुरम् इव द्रष्टुं जनो जीवति ॥
प्राचीनाचल-चूल-चन्द्र-मणिभिर् निर्व्यूढ-पाद्यं निजैर् निर्यासैर् उडुभिर् निजेन वपुषा दत्तार्घलाजाञ्जलि
अन्तः-प्रौढ-कलङ्क-तुच्छम् अभितः सान्द्रं परिस्तीर्यते बिम्बाद् अङ्कुर-भग्न-नैशिक-तमः-संदोहम् इन्दोर् महः ॥
शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो ऽपि ।
कुमुद-रजः-पट-वासं विकिरति गगनाङ्गने पवनः ॥
कह्लार-स्पर्शि-गर्भैः शिशिर-परिगमात् कान्तिमद्भिः कराग्रैश् चन्द्रेणालिङ्गितायास् तिमिर-निवसने स्रंसमाने रजन्याः
अन्योन्यालोकनीभिः परिचय-जनित-प्रेम-निस्यन्दिनीभिर् दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशा-वधूभिः ॥
अद्यापि स्तन-शैल-दुर्ग-विषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिग् इति क्रोधाद् इवालोहितः
उद्यद्-दूरतर-प्रसारित-करः कर्षत्य् असौ तत्-क्षणात् फुल्लत्-कैरव-कोश-निःसर-दलि-श्रेणी-कृपाणं शशी ॥
यातस्यास्तम् अनन्तरं दिन-कृतो वेशेन रागान्वितः स्वैरं शीतकरः करं कमलिनीम् आलिङ्गितुं योजयन्
शीत-स्पर्शम् अवाप्य संप्रति तथा गुप्ते मुखाम्भोरुहे हासेनेव कुमुद्वती-वनितया वैलक्ष्य-पाण्डू-कृतः ॥
तथोद्दामैर् इन्दोः सरस-विस-दण्ड-द्युति-धरैर् मयूखैर् विक्रान्तं सपदि परितः पीत-तिमिरैः
दिनं-मन्या रात्रिश् चकित-चकितं कौशिक-कुलं प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुह-वनैः ॥
उद्दर्प-हूण-तरुणी-रमणोपमर्द भुग्नोन्नत-स्तन-निवेश-निभं हिमांशोः
बिम्बं कठोर-विसकाण्ड-कडार-गौरैर् विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति ॥
तमोभिर् दिक्कालैर् वियद् अपि विलङ्घ्य क्व नु गतं गता द्राङ्मुद्रापि क्व नु कुमुद-कोषस्य सरसः
क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः प्रतिसर स्थली-मध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् ॥
प्रथमम् अरुण-च्छायस् तावत् ततः कनक-प्रभस् तद् अनु विरहोत्ताम्यत्-तन्वी-कपोल-तल-द्युतिः
प्रसरति पुनर् ध्वान्त-ध्वंस-क्षमः क्षणदामुखे सरस-बिसिनी-कन्द-च्छेद-च्छविर् मृग-लाञ्छनः ॥
चन्द्रः क्षीरम् इव क्षरत्य् अविरतं धारा-सहस्रोत्करैर् उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्ना-पयः पीयते
क्षीरोदाम्भसि मज्जतीव दिवस-व्यापार-खिन्नं जगत् तत् क्षोभाज् जल-बुद्बुदा इव तरन्त्यालोहितास् तारकाः ॥
स्फटिकाल-वाल-लक्ष्मीं प्रवहति शशि-बिम्बम् अम्बरोद्याने ।
किरण-जल-सिक्त-लाञ्छन-बाल-तमालैक-विटपस्य ॥
इह बहलितम् इन्दोर् दीधितीनां प्रभाभिर् मद-विकल-चकोरी-चञ्चु-मुद्राङ्किताभिः
रति-भर-परिखेद-स्रस्तरार्थं वधूनां कर-किसलय-लीला-भञ्जन-व्यञ्जिकाभिः ॥
रजनि-पुरन्ध्रि-रोध्र-तिलकस् तिमिर-द्विप-यूथ-केसरी रजत-मयो ऽभिषेक-कलशः कुसुमायुध-मेदिनी-पतेः
अयम् उदयाचलैक-चूडामणिर् अभिनव-दर्पणो दिशां उदयति गगन-सरसि हंसस्य हसन्न् इव विभ्रमं शशी ॥
एष सान्द्र-तिमिरे गगनान्ते वारिणीव मलिने यमुनायाः
भाति पक्ष-पुट-गोपित-चञ्चू राज-हंस इव शीत-मयूखः ॥
गगन-तल-तडाग-प्रान्त-सीम्नि प्रदोष प्रबलतर-वराहोत्खन्यमानश् चकास्ति
परिकलित-कलङ्कः स्तोक-पङ्कानुलेपो निज-किरण-मृणाली-मूल-कन्दो ऽयम् इन्दुः ॥
परिणत-लवली-फलाभिपाण्डुस् तनुर् अभवन् मलिनोदरा हिमांशोः
जन-हृदय-विभेद-कुण्ठितेषोर् विशिख-निशात-शिलेव मन्मथस्य ॥
लब्धोदये सुहृदि चन्द्रमसि स्व-वृद्धिर् आसाद्य भिन्न-समयस् त्रिदशोद्धृतानि
रत्नानि लिप्सुर् इव दिग्-भुवनान्तराले ज्योत्स्ना-छलेन धवलो जलधिर् जगाह ॥
पिनष्टीव तरङ्गाग्रैर् अर्णवः फेन-चन्दनम्
तद् आदाय करैर् इन्दुर् लिम्पतीव दिग्-अङ्गनाम् ॥
सर्वस्वं गगन-श्रिया रति-पतेर् विश्वास-पात्रं सखा वास्तव्यो हर-मूर्ध्नि सर्व-भुवन-ध्वान्तौघ-मुष्टिन्धयः
क्षीराम्भोधि-रसायनं कमलिनी-निद्रौषधी-पल्लवो देवः कान्ति-महा-धनो विजयते दाक्षायणी-वल्लभः ॥
कर्पूर-द्रवशीकरोत्कर-महा-नीहार-मग्नाम् इव प्रत्यग्रामृत-फेन-पङ्क-पटली-लेपोपदिग्धाम् इव
स्वच्छैक-स्फटिकाश्म-वेश्म-जठर-क्षिप्ताम् इव क्ष्माम् इमां कुर्वन् पार्वण-शर्वरी-पतिर् असाव् उद्दामम् उद्द्योतते ॥
असौ बिभ्रत्-ताम्र-त्विषम् उदय-शैलस्य शिरसि स्खलन् प्रालेयांशुर् यदि भवति मत्तो हलधरः
तदानीम् एतत् तु प्रतिनव-तमाल-द्युति-हरं तमो ऽपि व्यालोलं विगलति तदीयं निवसनम् ॥
यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्द-विशदान् शशाङ्कः काश्मीरी-कुच-कलश-लावण्य-लडितः
तथायं कस्तूरी-मद-लिखित-पत्रावलि-तुलां नवाम्भोद-च्छेद-च्छविर् अपि समारोहति मृगः ॥
यथैवैष श्रीमांश् चरम-गिरि-वप्रान्त-जलधौ सुधा-सूतिश् चेतः कनक-कमला-शङ्कि कुरुते
तथायं लावण्य-प्रसर-मकरन्द-द्रव-तृषा पतद्-भृङ्ग-श्रेणि-श्रियम् अपि कलङ्कः कलयति ॥
स्फुट-कोकनदारुणं पुरस्ताद् अथ जाम्बूनद-पत्र-पिञ्जराभम्
क्रम-लङ्घित-मुग्ध-भावम् इन्दोः स्फटिक-च्छेद-निभं विभाति बिम्बम् ॥
वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु
अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥
अनलस-जवा-पुष्पोत्पीड-च्छवि प्रथमं ततः समदय-वनी-गण्ड-च्छायं पुनर् मधु-पिङ्गलम्
तद् अनु च नव-स्वर्णाम्भोज-प्रभं शशिनस् ततस् तरुणि तगराकारं बिम्बं विभाति नभस्-तले ॥
रक्तः करं किरति पाण्डु-पयोधराग्रे चन्द्रो विधूय तिमिरावरणं निशायाः
दिग्-योषितस् तद् अवलोक्य कुतूहलिन्यो ह्रीणाश् च स-स्मितम् इवापसरन्ति दूरम् ॥
गो-रोचनारुचक-भङ्ग-पिशङ्गिताङ्गस् तारापतिर् मसृणम् आक्रमते क्रमेण
गोभिर् नवीन-बिस-तन्तु-वितान-गौरैर् आढ्यम्भविष्णुर् अयम् अम्बरम् आवृणोति ॥
असौ समालोकित-काननान्तरे विकीर्ण-विस्पष्ट-मरीचि-केसरः
विनिर्गतः सिंह इवोदयाचलाद् गृहीत-निष्पन्द-मृगो निशाकरः ॥
इन्दुम् इन्द्र-दिग् असूत सरस्वान् उत्तरङ्ग-भुज-राजिर् अनृत्यन्
उज्जहर्ष झष-केतुर् अवापुः षट्पदाः कुमुद-बन्धन-मोक्षम् ॥
मृगेन्द्रस्येव चन्द्रस्य मयूखैर् नखरैर् इव
पाटित-ध्वान्त-मातङ्ग मुक्ताभा भान्ति तारकाः ॥
गौर-त्विषां कुच-तटेषु कपोल-पीठेष्व् एणीदृशां रभस-हासम् इवारभन्ते
तन्वन्ति वेल्लन-विलासम् इवामलासु मुक्तावलीषु विशदाः शशिनो मयूखाः ॥
कर-मूल-बद्ध-पन्नग-विषाग्नि-धूम-हत-मध्यम् ।
ऐशानम् इव कपालं स्फुट-लक्ष्म स्फुरति शशिबिम्बम् ॥
गते ज्योत्स्नासित-व्योम प्रासादाद् दृग्-अतुल्यताम्
हिमांशु-मण्डले लक्ष्म नील-पारावतायते ॥
सद्यः-पाटित-केतकोदर-दल-श्रेणी-श्रियं बिभ्रती येयं मौक्तिक-दाम-गुम्फन-विधौ योग्य-च्छविः प्राग् अभूत्
उन्मेयाकुलशीभिर् अञ्जलि-पुटैर् ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्य्-अमुग्ध-विभवे सा वर्तते चन्द्रिका ॥
ये पूर्वं यव-शूच-सूत्र-सुहृदो ये केतकाग्र-च्छद च्छाया-धाम-भृतो मृणाल-लतिका लावण्य-भाजो ऽत्र ये
ये धाराम्बु-विडम्बिनः क्षणम् अथो ये तार-हार-श्रियस् ते ऽमी स्फाटिक-दण्ड-डम्बर-जितो जाताः सुधांशोः कराः ॥
त्रियामाव् आमायाः कमल-मृदु-गण्ड-स्थल-धृति प्रगल्भो गण्डाली न विधुर् अयम् अक्षुण्ण-किरणः
तद् अक्षणः सीम्नेयं यद्-उरसि मनाग् अञ्जन-मयी मृग-च्छाया दैवाद् अघटि न कलङ्कः पुनर् अयम् ॥
ज्योत्स्ना-मुग्ध-वधू-विलास-भवनं पीयूष-वीचि-सरः क्षीराब्धेर् नवनीत-कूटम् अवनीतापार्तितोयोपलः
यामिन्यास् तिलकः कला मृग-दृशां प्रेम-व्रतैकाश्रमः क्रामत्य् एष चकोरयाचक-महः-कर्पूर-वर्षः शशी ॥
तारा-कोर-कराजि-भाजि गगनोद्याने तमो-मक्षिकाः संध्या-पल्लव-पातिनीः कवलयन्न् एकान्ततस् तर्कय
एतस्मिन्न् उदयास्त-भूधर-तरु-द्वन्द्वान्तराले ततैर् एभिर् भाति गभस्ति-तन्तु-पटलैः श्वेतोर्ण-नाभः शशी ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0