सुभाषितरत्नकोश · अध्याय 30
मध्ये व्योम-कटि-भ्रमास् तु कितव-प्राग्-भार-कोप-क्रम क्षिप्र-क्षिप्त-कपर्द-मुष्टि-कलनां कुर्वन्त्य् अमूस् तारकाः
किं चायं रजनी-पतिः प्रविगलल्-लावण्य-लक्ष्मीर् इतः पर्यन्त-स्थित-चारु-वृत्त-कठिनी-खण्ड-च्छविं वाञ्छति ॥
तमोभिः पीयन्ते गत-वयसि पीयूष-वपुषि ज्वलिष्यन् मार्तण्डोपल-पटल-धूमैर् इव दिशः
सरोजानां कर्षन्न् अलि-मयम् अयस्कान्त-मणिवत्द् क्षणाद् अन्तः-शल्यं तपति पतिर् अद्यापि न रुचाम् ॥
जाताः पक्व-पलाण्डु-पाण्ड-मधुर-च्छाया-किरस् तारकाः प्राचीम् अङ्कुरयन्ति किंचन रुचो राजीव-जीवातवः
लूतातन्तु-वितान-वर्तुलम् इतो बिम्बं दधच् चुम्बति प्रातः प्रोषित-रोचिर् अम्बर-तलाद् अस्ताचलं चन्द्रमाः ॥
प्राची-विभ्रम-कर्णिका-कमलिनी-संवर्तिकाः संप्रति द्वे तिस्रो रमणीयम् अम्बर-मणेर् द्याम् उच्चरन्ते रुचः
सूक्ष्मोच्छ्वासम् अपीदम् उत्सुकतया संभूय कोषाद् बहिर् निष्क्रामद्-भ्रमरौघ-संभ्रम-भराद् अम्भोजम् उज्जृम्भते ॥
एक-द्वि-प्रभृति-क्रमेण गणनाम् एषाम् इवास्तं यतां कुर्वाणा समकोचय-दृश-शतान्य् अम्भोज-संवर्तिकाः
भूयो ऽपि क्रमशः प्रसारयति ताः संप्रत्य् अमून् उद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥
पीत्वा भृशं कमल-कुड्मल-शुक्ति-कोषा दोषातनी-तिमिर-वृष्टिम् अथ स्फुटन्तः
निर्यन्-मधुव्रत-कदम्ब-मिषाद् वमन्ति बिभ्रन्ति कारण-गुणान् इव मौक्तिकानि ॥
ताराणां तगर-त्विषां परिकरः संख्येय-शेषः स्थितः स्पर्धन्ते ऽस्त-रुचः प्रदीपक-शिखाः सार्धं हरिद्राङ्कुरैः
तत्र स्तम्भित-पारद-द्रव-जडो जातः प्रगे चन्द्रमाः पौरस्त्यं च पुराण-सीधु-मधुर-च्छायं नभो वर्तते ॥
द्वित्रैर् व्योम्नि पुराण-मौक्तिक-मणि-च्छायैः स्थितं तारकैर् ज्योत्स्ना-पान-भरालसेन वपुषा सुप्ताश् चकोराङ्गनाः
यातो ऽस्ताचल-चूलम् उद्वस-मधु-च्छत्र-च्छविश् चन्द्रमाः प्राची बाल-बिडाललोचनरुचां याता च पात्रं ककुप् ॥
परिस्फुरत तारकाश् चरत चौर-चक्राण्य् अलं प्रसर्पत तमांसि रे समय एष युष्मादृशाम्
न यावद् उदयाचलोद्धत-रजाः समाक्रामति प्रभा-पटल-पाटली-कृत-नभो ऽन्तरालो रविः ॥
प्रातः कोप-विलोहितेन रविणा ध्वस्तं तमः सर्वतो भृङ्गाः पद्म-पुटेषु वर्ण-सदृशास् तस्येति कृष्टाः करैः
हा कष्टं तिमिर-त्विषो वयम् अपि व्यक्तं हता इत्य् अमी काकाः संप्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः ॥
शक्यार्चनः सुचिर् अमीक्षण-पङ्कजेन काश्मीर-पिण्ड-परिपाटल-मण्डल-श्रीः
ध्वान्तं हरन्न् अमर-नायक-पालितायां देवो ऽभ्युदेति दिशि वासर-बीज-कोषः ॥
कुन्तल इवावशिष्टः स्मरस्य चन्दन-सरो-निमग्नस्य ।
प्रतिभाति यत्र हरिणः स हरिण-लक्ष्मा गतो ऽस्त-मयम् ॥
पत्यौ याते कलानां व्रजति गति-वशाद् अस्तम् इन्दौ क्रमेण क्रन्दन्ती पत्रि-रावैर् विगलित-तिमिर-स्तोम-धम्मिल्ल-भारा
प्रभ्रंशि-स्थूल-मुक्ताफल-निकर-परिस्पर्धिताराश्रु-बिन्दुः प्रोन्मीलत्-पूर्व-संध्याहुत-भुजि रजनी पश्य देहं जुहोति ॥
सो ऽहं सुदूरम् अगमं द्विज-राज-रूढिं गाढ-प्रसक्तिर् अभवं बत वारुणीतः
इत्य् आकलय्य नियतं शशभृत् समस्तम् अस्ताद् ददौ झगिति झम्प-मयं पयोधौ ॥
स्तोक-स्तोकम् अभूमिर् अम्बर-तले ताराभिर् अस्तं गतं गच्छन्त्य् अस्त-गिरेः शिरस् तद्-अनु च च्छाया-दरिद्रः शशी
प्रत्यासन्नतरोदय-स्थ-तरणेर् बिम्बारुणिम्ना ततो मञ्जिष्ठा-रस-लोहिनी दिग् अपि च प्राची समुन्मीलति ॥
मुषित-मुषितालोकास् तारास् तुषार-कण-त्विषः सवितुर् अपि च प्राची-मूले मिलन्ति मरीचयः
श्रयति शिथिल-च्छायाभोगस् तटीम् अपराम्बुधेर् जरठ-लवली-लावण्याच्छ-च्छविर् मृग-लाञ्छनः ॥
व्रजत्य् अपर-वारिधिं रजत-पिण्ड-पाण्डुः शशी नमन्ति जल-बुद्बुध-द्युति-सपङ्क्तयस् तारकाः
कुरुण्टक-विपाण्डुरं दधति धाम दीपाङ्कुराश्ः चकोर-नयनारुणा भवति दिच् च सौत्रामणी ॥
लब्ध्वा बोधं दिवस-करिणः कीर्ण-नक्षत्र-मालं दीर्घाद् अस्माद् गगन-शयनाद् उज्जिहानस्य दर्पात्
सज्जद्-दानोदक-तनु-मलो जर्जराभीषु-रज्जुर् भ्रश्यत्य् एष प्रशिथिल इव श्रोत्र-शङ्खः शशाङ्कः ॥
तेजो-राशौ भुवन-जलधेः प्लाविताशा-तटान्तं भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः
सद्यो माद्यन्-मकर-कमठ-स्थूल-मत्स्या इवैते यान्त्य् अन्तस्थाः कुलशिखरिणो व्यक्ति-वर्त्म क्रमेण ॥
आमुद्रन्तस् तम इव सरः-सीम्नि संभूय पङ्कं तारा-सार्थैर् इव पति-शुचा फेनकैः श्लिष्ट-पादाः
भ्रान्त्यादष्ट-स्फुट-बिसलता-चुञ्चुभिश् चञ्चु-चक्रैश् चक्रा बन्दीकृत-विरह-कृच्-चन्द्रलेखा इवैते ॥
कृत-पाद-निगूहनोवसीदन्न् अधिक-श्याम-कलङ्क-पङ्क-लेखः
गगनोदधि-पश्चिमान्त-लग्नो विधुर् उत्तान इवास्ति कूर्म-राजः ॥
अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् उदय-गिरि-वनाली-बाल-मन्दार-पुष्पम्
विरह-विधुर-कोक-द्वन्द्व-बन्धुर् विभिन्दन् कुपितकपि-कपोल-क्रोड-ताम्रस्-तमांसि ॥
रथ्या-कार्पटिकैः पटच्-चर-शत-स्यूतोरु-कन्थाबल प्रत्यादिष्ट-हिमागमार्ति-विशद-प्रस्निग्ध-कण्ठोदरैः
गीयन्ते नगरेषु नागर-जन-प्रत्यूष-निद्रानुदो राधा-माधवयोः परस्पर-रहः-प्रस्तावना-गीतयः ॥
मूल पाठ: Subhāṣitaratnakośa · Edition: D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0